01 प्रथमस्कन्धः-अध्यायः 01-09

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

प्रथमस्कन्धः

नमो भगवते वासुदेवाय

प्रथमोऽध्यायः

 

जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट्

तेने ब्रह्महृदा य आदिकवये मुह्यन्ति यत्सूरयः ।

तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा

धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १॥

धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां

वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।

श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः

सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ २॥

निगमकल्पतरोर्गलितं फलं

शुकमुखादमृतद्रवसंयुतम् ।

पिबत भागवतं रसमालयं

मुहुरहो रसिका भुवि भावुकाः ॥ ३॥

नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।

सत्रं स्वर्गाय लोकाय सहस्रसममासत ॥ ४॥

त एकदा तु मुनयः प्रातर्हुतहुताग्नयः ।

सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ॥ ५॥

ऋषय ऊचुः

त्वया खलु पुराणानि सेतिहासानि चानघ ।

आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥ ६॥

यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।

अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७॥

वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात् ।

ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८॥

तत्र तत्राञ्जसाऽऽयुष्मन् भवता यद्विनिश्चितम् ।

पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि ॥ ९॥

प्रायेणाल्पायुषः सभ्य कलावस्मिन् युगे जनाः ।

मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥ १०॥

भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः ।

अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया ।

ब्रूहि नः श्रद्दधानानां येनात्मा सम्प्रसीदति ॥ ११॥

सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।

देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२॥

तन्नः शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् ।

यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३॥

आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।

ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ १४॥

यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः ।

सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया ॥ १५॥

को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः ।

शुद्धिकामो न श‍ृणुयाद्यशः कलिमलापहम् ॥ १६॥

तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः ।

ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ १७॥

अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।

लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ १८॥

वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।

यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९॥

कृतवान् किल वीर्याणि सह रामेण केशवः ।

अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ २०॥

कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।

आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥ २१॥

त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।

कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२॥

ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि ।

स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥ २३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने प्रथमोऽध्यायः

 

नमो भगवते वासुदेवाय

द्वितीयोऽध्यायः

 

व्यास उवाच

इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणिः ।

प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ॥ १॥

सूत उवाच

यं प्रव्रजन्तमनुपेतमपेतकृत्यं

द्वैपायनो विरहकातर आजुहाव ।

पुत्रेति तन्मयतया तरवोऽभिनेदु-

स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २॥

यः स्वानुभावमखिलश्रुतिसारमेक-

मध्यात्मदीपमतितितीर्षतां तमोऽन्धम् ।

संसारिणां करुणयाऽऽह पुराणगुह्यं

तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४॥

मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् ।

यत्कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ ५॥

स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।

अहैतुक्यप्रतिहता ययाऽऽत्मा सम्प्रसीदति ॥ ६॥

वासुदेवे भगवति भक्तियोगः प्रयोजितः ।

जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ ७॥

धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः ।

नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ ८॥

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।

नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ ९॥

कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता ।

जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ १०॥

वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।

ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११॥

तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।

पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ १२॥

अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः ।

स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ १३॥

तस्मादेकेन मनसा भगवान् सात्वतां पतिः ।

श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ १४॥

यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् ।

छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम् ॥ १५॥

शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः ।

स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ १६॥

श‍ृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः ।

हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ १७॥

नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।

भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ १८॥

तदा रजस्तमोभावाः कामलोभादयश्च ये ।

चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ १९॥

एवं प्रसन्नमनसो भगवद्भक्तियोगतः ।

भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ २०॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २१॥

अतो वै कवयो नित्यं भक्तिं परमया मुदा ।

वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २२॥

सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैः

युक्तः परमपूरुष एक इहास्य धत्ते ।

स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः

श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ॥ २३॥

पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः ।

तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम् ॥ २४॥

भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् ।

सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ २५॥

मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ ।

नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ २६॥

रजस्तमःप्रकृतयः समशीला भजन्ति वै ।

पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २७॥

वासुदेवपरा वेदा वासुदेवपरा मखाः ।

वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥ २८॥

वासुदेवपरं ज्ञानं वासुदेवपरं तपः ।

वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ २९॥

स एवेदं ससर्जाग्रे भगवानात्ममायया ।

सदसद्रूपया चासौ गुणमय्याऽगुणे विभुः ॥ ३०॥

तया विलसितेष्वेषु गुणेषु गुणवानिव ।

अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३१॥

यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु ।

नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२॥

असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः ।

स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३॥

भावयत्येष सत्त्वेन लोकान् वै लोकभावनः ।

लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥ ३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयोऽध्यायः

 

नमो भगवते वासुदेवाय

तृतीयोऽध्यायः

सूत उवाच

जगृहे पौरुषं रूपं भगवान् महदादिभिः ।

सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १॥

यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः ।

नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥ २॥

यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।

तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३॥

पश्यन्त्यदो रूपमदभ्रचक्षुषा

सहस्रपादोरुभुजाननाद्भुतम् ।

सहस्रमूर्धश्रवणाक्षिनासिकं

सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४॥

एतन्नानावताराणां निधानं बीजमव्ययम् ।

यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ ५॥

स एव प्रथमं देवः कौमारं सर्गमाश्रितः ।

चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६॥

द्वितीयं तु भवायास्य रसातलगतां महीम् ।

उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ॥ ७॥

तृतीयं ऋषिसर्गं च देवर्षित्वमुपेत्य सः ।

तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ ८॥

तुर्ये धर्मकलासर्गे नरनारायणावृषी ।

भूत्वाऽऽत्मोपशमोपेतमकरोद्दुश्चरं तपः ॥ ९॥

पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।

प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १०॥

षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।

आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११॥

ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।

स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम् ॥ १२॥

अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।

दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ १३॥

ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।

दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः ॥ १४॥

रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे ।

नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १५॥

सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ।

दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ १६॥

धान्वन्तरं द्वादशमं त्रयोदशममेव च ।

अपाययत्सुरानन्यान् मोहिन्या मोहयन् स्त्रिया ॥ १७॥

चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् ।

ददार करजैर्वक्षस्येरकां कटकृद्यथा ॥ १८॥

पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।

पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥ १९॥

अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।

त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् ॥ २०॥

ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।

चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ २१॥

नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।

समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ २२॥

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।

रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ २३॥

ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।

बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति ॥ २४॥

अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु ।

जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ २५॥

अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः ।

यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ २६॥

ऋषयो मनवो देवा मनुपुत्रा महौजसः ।

कलाः सर्वे हरेरेव सप्रजापतयस्तथा ॥ २७॥

एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।

इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८॥

जन्म गुह्यं भगवतो य एतत्प्रयतो नरः ।

सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते ॥ २९॥

एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः ।

मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३०॥

यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले ।

एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥ ३१॥

अतः परं यदव्यक्तमव्यूढगुणव्यूहितम् ।

अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भवः ॥ ३२॥

यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।

अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३॥

यद्येषोपरता देवी माया वैशारदी मतिः ।

सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ ३४॥

एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च ।

वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ ३५॥

स वा इदं विश्वममोघलीलः

सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।

भूतेषु चान्तर्हित आत्मतन्त्रः

षाड्वर्गिकं जिघ्रति षड्गुणेशः ॥ ३६॥

न चास्य कश्चिन्निपुणेन धातु-

रवैति जन्तुः कुमनीष ऊतीः ।

नामानि रूपाणि मनोवचोभिः

सन्तन्वतो नटचर्यामिवाज्ञः ॥ ३७॥

स वेद धातुः पदवीं परस्य

दुरन्तवीर्यस्य रथाङ्गपाणेः ।

योऽमायया सन्ततयानुवृत्त्या

भजेत तत्पादसरोजगन्धम् ॥ ३८॥

अथेह धन्या भगवन्त इत्थं

यद्वासुदेवेऽखिललोकनाथे ।

कुर्वन्ति सर्वात्मकमात्मभावं

न यत्र भूयः परिवर्त उग्रः ॥ ३९॥

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।

उत्तमश्लोकचरितं चकार भगवान् ऋषिः ॥ ४०॥

निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ।

तदिदं ग्राहयामास सुतमात्मवतां वरम् ॥ ४१॥

सर्ववेदेतिहासानां सारं सारं समुद्धृतम् ।

स तु संश्रावयामास महाराजं परीक्षितम् ॥ ४२॥

प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः ।

कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥ ४३॥

कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ।

तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ॥ ४४॥

अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् ।

सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने तृतीयोऽध्यायः

 

नमो भगवते वासुदेवाय

चतुर्थोऽध्यायः

व्यास उवाच

इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् ।

वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत् ॥ १॥

शौनक उवाच

सूत सूत महाभाग वद नो वदतां वर ।

कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः ॥ २॥

कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।

कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥ ३॥

तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः ।

एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४॥

दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं

देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् ।

तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति

स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥ ५॥

कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् ।

उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥ ६॥

कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।

संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः ॥ ७॥

स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् ।

अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥ ८॥

अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् ।

तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥ ९॥

स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः ।

प्रायोपविष्टो गङ्गायामनादृत्याधिराट् श्रियम् ॥ १०॥

नमन्ति यत्पादनिकेतमात्मनः

शिवाय हानीय धनानि शत्रवः ।

कथं स वीरः श्रियमङ्ग दुस्त्यजां

युवैषतोत्स्रष्टुमहो सहासुभिः ॥ ११॥

शिवाय लोकस्य भवाय भूतये

य उत्तमश्लोकपरायणा जनाः ।

जीवन्ति नात्मार्थमसौ पराश्रयं

मुमोच निर्विद्य कुतः कलेवरम् ॥ १२॥

तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन ।

मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥ १३॥

सूत उवाच

द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।

जातः पराशराद्योगी वासव्यां कलया हरेः ॥ १४॥

स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः ।

विविक्तदेश आसीन उदिते रविमण्डले ॥ १५॥

परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा ।

युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ १६॥

भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।

अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसितायुषः ॥ १७॥

दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।

सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक् ॥ १८॥

चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।

व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १९॥

ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः ।

इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ २०॥

तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः ।

वैशम्पायन एवैको निष्णातो यजुषामुत ॥ २१॥

अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः ।

इतिहासपुराणानां पिता मे रोमहर्षणः ॥ २२॥

त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा ।

शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन् ॥ २३॥

त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा ।

एवं चकार भगवान् व्यासः कृपणवत्सलः ॥ २४॥

स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।

कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।

इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २५॥

एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।

सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः ॥ २६॥

नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ ।

वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २७॥

धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।

मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २८॥

भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः ।

दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९॥

तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः ।

असम्पन्न इवाभाति ब्रह्मवर्चस्यसत्तमः ॥ ३०॥

किं वा भागवता धर्मा न प्रायेण निरूपिताः ।

प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३१॥

तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः ।

कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३२॥

तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः ।

पूजयामास विधिवन्नारदं सुरपूजितम् ॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः

 

नमो भगवते वासुदेवाय

पञ्चमोऽध्यायः

सूत उवाच

अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः ।

देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १॥

नारद उवाच

पाराशर्य महाभाग भवतः कच्चिदात्मना ।

परितुष्यति शारीर आत्मा मानस एव वा ॥ २॥

जिज्ञासितं सुसम्पन्नमपि ते महदद्भुतम् ।

कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३॥

जिज्ञासितमधीतं च यत्तद्ब्रह्म सनातनम् ।

अथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४॥

व्यास उवाच

अस्त्येव मे सर्वमिदं त्वयोक्तं

तथापि नात्मा परितुष्यते मे ।

तन्मूलमव्यक्तमगाधबोधं

पृच्छामहे त्वात्मभवात्मभूतम् ॥ ५॥

स वै भवान् वेद समस्तगुह्य-

मुपासितो यत्पुरुषः पुराणः ।

परावरेशो मनसैव विश्वं

सृजत्यवत्यत्ति गुणैरसङ्गः ॥ ६॥

त्वं पर्यटन्नर्क इव त्रिलोकी-

मन्तश्चरो वायुरिवात्मसाक्षी ।

परावरे ब्रह्मणि धर्मतो व्रतैः

स्नातस्य मे न्यूनमलं विचक्ष्व ॥ ७॥

श्रीनारद उवाच

भवतानुदितप्रायं यशो भगवतोऽमलम् ।

येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८॥

यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः ।

न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९॥

न यद्वचश्चित्रपदं हरेर्यशो

जगत्पवित्रं प्रगृणीत कर्हिचित् ।

तद्वायसं तीर्थमुशन्ति मानसा

न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ १०॥

तद्वाग्विसर्गो जनताघविप्लवो

यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।

नामान्यनन्तस्य यशोऽङ्कितानि य-

च्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ११॥

नैष्कर्म्यमप्यच्युतभाववर्जितं

न शोभते ज्ञानमलं निरञ्जनम् ।

कुतः पुनः शश्वदभद्रमीश्वरे

न चार्पितं कर्म यदप्यकारणम् ॥ १२॥

अथो महाभाग भवानमोघदृक्-

शुचिश्रवाःसत्यरतो धृतव्रतः ।

उरुक्रमस्याखिलबन्धमुक्तये

समाधिनानुस्मर तद्विचेष्टितम् ॥ १३॥

ततोऽन्यथा किञ्चन यद्विवक्षतः

पृथग्दृशस्तत्कृतरूपनामभिः ।

न कुत्रचित्क्वापि च दुःस्थिता मति-

र्लभेत वाताहतनौरिवास्पदम् ॥ १४॥

जुगुप्सितं धर्मकृतेऽनुशासतः

स्वभावरक्तस्य महान् व्यतिक्रमः ।

यद्वाक्यतो धर्म इतीतरः स्थितो

न मन्यते तस्य निवारणं जनः ॥ १५॥

विचक्षणोऽस्यार्हति वेदितुं विभो-

रनन्तपारस्य निवृत्तितः सुखम् ।

प्रवर्तमानस्य गुणैरनात्मन-

स्ततो भवान् दर्शय चेष्टितं विभोः ॥ १६॥

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे-

र्भजन्नपक्वोऽथ पतेत्ततो यदि ।

यत्र क्व वाभद्रमभूदमुष्य किं

को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ १७॥

तस्यैव हेतोः प्रयतेत कोविदो

न लभ्यते यद्भ्रमतामुपर्यधः ।

तल्लभ्यते दुःखवदन्यतः सुखं

कालेन सर्वत्र गभीररंहसा ॥ १८॥

न वै जनो जातु कथञ्चनाव्रजे-

न्मुकुन्दसेव्यन्यवदङ्ग संसृतिम् ।

स्मरन् मुकुन्दाङ्घ्र्युपगूहनं पुन-

र्विहातुमिच्छेन्न रसग्रहो यतः ॥ १९॥

इदं हि विश्वं भगवानिवेतरो

यतो जगत्स्थाननिरोधसम्भवाः ।

तद्धि स्वयं वेद भवांस्तथापि वै

प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २०॥

त्वमात्मनाऽऽत्मानमवेह्यमोघदृक्-

परस्यपुंसः परमात्मनः कलाम् ।

अजं प्रजातं जगतः शिवाय तन्-

महानुभावाभ्युदयोऽधिगण्यताम् ॥ २१॥

इदं हि पुंसस्तपसः श्रुतस्य वा

स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः ।

अविच्युतोऽर्थः कविभिर्निरूपितो

यदुत्तमश्लोकगुणानुवर्णनम् ॥ २२॥

अहं पुरातीतभवेऽभवं मुने

दास्यास्तु कस्याश्चन वेदवादिनाम् ।

निरूपितो बालक एव योगिनां

शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३॥

ते मय्यपेताखिलचापलेऽर्भके

दान्तेऽधृतक्रीडनकेऽनुवर्तिनि ।

चक्रुः कृपां यद्यपि तुल्यदर्शनाः

शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥ २४॥

उच्छिष्टलेपाननुमोदितो द्विजैः

सकृत्स्म भुञ्जे तदपास्तकिल्बिषः ।

एवं प्रवृत्तस्य विशुद्धचेतस-

स्तद्धर्म एवात्मरुचिः प्रजायते ॥ २५॥

तत्रान्वहं कृष्णकथाः प्रगायता-

मनुग्रहेणाश‍ृणवं मनोहराः ।

ताः श्रद्धया मेऽनुपदं विश‍ृण्वतः

प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ २६॥

तस्मिंस्तदा लब्धरुचेर्महामुने

प्रियश्रवस्यास्खलिता मतिर्मम ।

ययाहमेतत्सदसत्स्वमायया

पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७॥

इत्थं शरत्प्रावृषिकावृतू हरे-

र्विश‍ृण्वतो मेऽनुसवं यशोऽमलम् ।

सङ्कीर्त्यमानं मुनिभिर्महात्मभि-

र्भक्तिः प्रवृत्ताऽऽत्मरजस्तमोऽपहा ॥ २८॥

तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः ।

श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९॥

ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम् ।

अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ ३०॥

येनैवाहं भगवतो वासुदेवस्य वेधसः ।

मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१॥

एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् ।

यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२॥

आमयो यश्च भूतानां जायते येन सुव्रत ।

तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३॥

एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।

त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ ३४॥

यदत्र क्रियते कर्म भगवत्परितोषणम् ।

ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥ ३५॥

कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् ।

गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६॥

नमो भगवते तुभ्यं वासुदेवाय धीमहि ।

प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ ३७॥

इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् ।

यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् ॥ ३८॥

इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् ।

अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥ ३९॥

त्वमप्यदभ्रश्रुतविश्रुतं विभोः

समाप्यते येन विदां बुभुत्सितम् ।

आख्याहि/प्रख्याहि दुःखैर्मुहुरर्दितात्मनां

सङ्क्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः

 

नमो भगवते वासुदेवाय

षष्ठोऽध्यायः

सूत उवाच

एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च ।

भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥ १॥

व्यास उवाच

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।

वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ॥ २॥

स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः ।

कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् ॥ ३॥

प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम ।

न ह्येष व्यवधात्काल एष सर्वनिराकृतिः ॥ ४॥

नारद उवाच

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।

वर्तमानो वयस्याद्ये तत एतदकारषम् ॥ ५॥

एकात्मजा मे जननी योषिन्मूढा च किङ्करी ।

मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम् ॥ ६॥

सास्वतन्त्रा न कल्पाऽऽसीद्योगक्षेमं ममेच्छती ।

ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ ७॥

अहं च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया ।

दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥ ८॥

एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि ।

सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ॥ ९॥

तदा तदहमीशस्य भक्तानां शमभीप्सतः ।

अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् ॥ १०॥

स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् ।

खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११॥

चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान् ।

जलाशयाञ्छिवजलान्नलिनीः सुरसेविताः ॥ १२॥

चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः ।

नलवेणुशरस्तम्बकुशकीचकगह्वरम् ॥ १३॥

एक एवातियातोऽहमद्राक्षं विपिनं महत् ।

घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १४॥

परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः ।

स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ १५॥

तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आस्थितः ।

आत्मनाऽऽत्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १६॥

ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा ।

औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥ १७॥

प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः ।

आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥ १८॥

रूपं भगवतो यत्तन्मनःकान्तं शुचापहम् ।

अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥ १९॥

दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि ।

वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः ॥ २०॥

एवं यतन्तं विजने मामाहागोचरो गिराम् ।

गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥ २१॥

हन्तास्मिञ्जन्मनि भवान् न मां द्रष्टुमिहार्हति ।

अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २२॥

सकृद्यद्दर्शितं रूपमेतत्कामाय तेऽनघ ।

मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् ॥ २३॥

सत्सेवयादीर्घया ते जाता मयि दृढा मतिः ।

हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २४॥

मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।

प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २५॥

एतावदुक्त्वोपरराम तन्मह-

द्भूतं नभोलिङ्गमलिङ्गमीश्वरम् ।

अहं च तस्मै महतां महीयसे

शीर्ष्णावनामं विदधेऽनुकम्पितः ॥ २६॥

नामान्यनन्तस्य हतत्रपः पठन्

गुह्यानि भद्राणि कृतानि च स्मरन् ।

गां पर्यटंस्तुष्टमना गतस्पृहः

कालं प्रतीक्षन् विमदो विमत्सरः ॥ २७॥

एवं कृष्णमतेर्ब्रह्मन्नसक्तस्यामलात्मनः ।

कालः प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २८॥

प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।

आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः ॥ २९॥

कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः ।

शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः ॥ ३०॥

सहस्रयुगपर्यन्त उत्थायेदं सिसृक्षतः ।

मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥ ३१॥

अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रतः ।

अनुग्रहान्महाविष्णोरविघातगतिः क्वचित् ॥ ३२॥

देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।

मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३३॥

प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।

आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३४॥

एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः ।

भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३५॥

यमादिभिर्योगपथैः कामलोभहतो मुहुः ।

मुकुन्दसेवया यद्वत्तथाऽऽत्माद्धा न शाम्यति ॥ ३६॥

सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।

जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३७॥

सूत उवाच

एवं सम्भाष्य भगवान्नारदो वासवीसुतम् ।

आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ ३८॥

अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः ।

गायन् माद्यन्निदं तन्त्र्या रमयत्यातुरं जगत् ॥ ३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः

 

नमो भगवते वासुदेवाय

सप्तमोऽध्यायः

शौनक उवाच

निर्गते नारदे सूत भगवान् बादरायणः ।

श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ॥ १॥

सूत उवाच

ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे ।

शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥ २॥

तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते ।

आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥ ३॥

भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले ।

अपश्यत्पुरुषं पूर्वं मायां च तदुपाश्रयाम् ॥ ४॥

यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् ।

परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥ ५॥

अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे ।

लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ ६॥

यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे ।

भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥ ७॥

स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् ।

शुकमध्यापयामास निवृत्तिनिरतं मुनिः ॥ ८॥

शौनक उवाच

स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः ।

कस्य वा बृहतीमेतामात्मारामः समभ्यसत् ॥ ९॥

सूत उवाच

आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।

कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः ॥ १०॥

हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः ।

अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः ॥ ११॥

परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम् ।

संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ १२॥

यदा मृधे कौरवसृञ्जयानां

वीरेष्वथो वीरगतिं गतेषु ।

वृकोदराविद्धगदाभिमर्श-

भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३॥

भर्तुः प्रियं द्रौणिरिति स्म पश्यन्

कृष्णासुतानां स्वपतां शिरांसि ।

उपाहरद्विप्रियमेव तस्य

जुगुप्सितं कर्म विगर्हयन्ति ॥ १४॥

माता शिशूनां निधनं सुतानां

निशम्य घोरं परितप्यमाना ।

तदारुदद्बाष्पकलाकुलाक्षी

तां सान्त्वयन्नाह किरीटमाली ॥ १५॥

तदा शुचस्ते प्रमृजामि भद्रे

यद्ब्रह्मबन्धोः शिर आततायिनः ।

गाण्डीवमुक्तैर्विशिखैरुपाहरे

त्वाऽऽक्रम्य यत्स्नास्यसि दग्धपुत्रा ॥ १६॥

इति प्रियां वल्गुविचित्रजल्पैः

स सान्त्वयित्वाच्युतमित्रसूतः ।

अन्वाद्रवद्दंशित उग्रधन्वा

कपिध्वजो गुरुपुत्रं रथेन ॥ १७॥

तमापतन्तं स विलक्ष्य दूरात्

कुमारहोद्विग्नमना रथेन ।

पराद्रवत्प्राणपरीप्सुरुर्व्यां

यावद्गमं रुद्रभयाद्यथार्कः ॥ १८॥

यदाशरणमात्मानमैक्षत श्रान्तवाजिनम् ।

अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः ॥ १९॥

अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः ।

अजानन्नुपसंहारं प्राणकृच्छ्र उपस्थिते ॥ २०॥

ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् ।

प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१॥

अर्जुन उवाच

कृष्ण कृष्ण महाभाग भक्तानामभयङ्कर ।

त्वमेको दह्यमानानामपवर्गोऽसि संसृतेः ॥ २२॥

त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः ।

मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३॥

स एव जीवलोकस्य मायामोहितचेतसः ।

विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४॥

तथायं चावतारस्ते भुवो भारजिहीर्षया ।

स्वानां चानन्यभावानामनुध्यानाय चासकृत् ॥ २५॥

किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम् ।

सर्वतोमुखमायाति तेजः परमदारुणम् ॥ २६॥

श्रीभगवानुवाच

वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् ।

नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ २७॥

न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् ।

जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८॥

सूत उवाच

श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा ।

स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय सन्दधे ॥ २९॥

संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते ।

आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३०॥

दृष्ट्वास्त्रतेजस्तु तयोस्त्रींल्लोकान् प्रदहन् महत् ।

दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत ॥ ३१॥

प्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम् ।

मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥ ३२॥

तत आसाद्य तरसा दारुणं गौतमीसुतम् ।

बबन्धामर्षताम्राक्षः पशुं रशनया यथा ॥ ३३॥

शिबिराय निनीषन्तं दाम्ना बद्ध्वा रिपुं बलात् ।

प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षणः ॥ ३४॥

मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहि ।

योऽसावनागसः सुप्तानवधीन्निशि बालकान् ॥ ३५॥

मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् ।

प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६॥

स्वप्राणान् यः परप्राणैः प्रपुष्णात्यघृणः खलः ।

तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान् ॥ ३७॥

प्रतिश्रुतं च भवता पाञ्चाल्यै श‍ृण्वतो मम ।

आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८॥

तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा ।

भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः ॥ ३९॥

एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः ।

नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४०॥

अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः ।

न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१॥

तथाऽऽहृतं पशुवत्पाशबद्धमवाङ्मुखं कर्मजुगुप्सितेन ।

निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च ॥ ४२॥

उवाच चासहन्त्यस्य बन्धनानयनं सती ।

मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरुः ॥ ४३॥

सरहस्यो धनुर्वेदः सविसर्गोपसंयमः ।

अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४॥

स एष भगवान् द्रोणः प्रजारूपेण वर्तते ।

तस्यात्मनोऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी ॥ ४५॥

तद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम् ।

वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥ ४६॥

मा रोदीदस्य जननी गौतमी पतिदेवता ।

यथाहं मृतवत्साऽऽर्ता रोदिम्यश्रुमुखी मुहुः ॥ ४७॥

यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः ।

तत्कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् ॥ ४८॥

सूत उवाच

धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् ।

राजा धर्मसुतो राज्ञ्याः प्रत्यनन्दद्वचो द्विजाः ॥ ४९॥

नकुलः सहदेवश्च युयुधानो धनञ्जयः ।

भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः ॥ ५०॥

तत्राहामर्षितो भीमस्तस्य श्रेयान् वधः स्मृतः ।

न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१॥

निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः ।

आलोक्य वदनं सख्युरिदमाह हसन्निव ॥ ५२॥

श्रीकृष्ण उवाच

ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः ।

मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ ५३॥

कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम् ।

प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ॥ ५४॥

सूत उवाच

अर्जुनः सहसाऽऽज्ञाय हरेर्हार्दमथासिना ।

मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ ५५॥

विमुच्य रशनाबद्धं बालहत्याहतप्रभम् ।

तेजसा मणिना हीनं शिबिरान्निरयापयत् ॥ ५६॥

वपनं द्रविणादानं स्थानान्निर्यापणं तथा ।

एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥ ५७॥

पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया ।

स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥ ५८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे द्रौणिनिग्रहो नाम सप्तमोऽध्यायः

 

नमो भगवते वासुदेवाय

अष्टमोऽध्ययः

सूत उवाच

अथ ते सम्परेतानां स्वानामुदकमिच्छताम् ।

दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥ १॥

ते निनीयोदकं सर्वे विलप्य च भृशं पुनः ।

आप्लुता हरिपादाब्जरजःपूतसरिज्जले ॥ २॥

तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् ।

गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥ ३॥

सान्त्वयामास मुनिभिर्हतबन्धूञ्शुचार्पितान् ।

भूतेषु कालस्य गतिं दर्शयन्नप्रतिक्रियाम् ॥ ४॥

साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् ।

घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥ ५॥

याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।

तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥ ६॥

आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः ।

द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥ ७॥

गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः ।

उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम् ॥ ८॥

उत्तरोवाच

पाहि पाहि महायोगिन् देवदेव जगत्पते ।

नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ ९॥

अभिद्रवति मामीश शरस्तप्तायसो विभो ।

कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ १०॥

सूत उवाच

उपधार्य वचस्तस्या भगवान् भक्तवत्सलः ।

अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ११॥

तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् ।

आत्मनोऽभिमुखान् दीप्तानालक्ष्यास्त्राण्युपाददुः ॥ १२॥

व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनाम् ।

सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ १३॥

अन्तःस्थः सर्वभूतानामात्मा योगेश्वरो हरिः ।

स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥ १४॥

यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् ।

वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह ॥ १५॥

मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते ।

य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ १६॥

ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया ।

प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती ॥ १७॥

कुन्त्युवाच

नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम् ।

अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥ १८॥

मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् ।

न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ १९॥

तथा परमहंसानां मुनीनाममलात्मनाम् ।

भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ २०॥

कृष्णाय वासुदेवाय देवकीनन्दनाय च ।

नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ २१॥

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।

नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २२॥

यथा हृषीकेश खलेन देवकी

कंसेन रुद्धातिचिरं शुचार्पिता ।

विमोचिताहं च सहात्मजा विभो

त्वयैव नाथेन मुहुर्विपद्गणात् ॥ २३॥

विषान्महाग्नेः पुरुषाददर्शना-

दसत्सभाया वनवासकृच्छ्रतः ।

मृधे मृधेऽनेकमहारथास्त्रतो

द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥ २४॥

विपदः सन्तु नः शश्वत्तत्र तत्र जगद्गुरो ।

भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २५॥

जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान् ।

नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम् ॥ २६॥

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।

आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ २७॥

मन्ये त्वां कालमीशानमनादिनिधनं विभुम् ।

समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ २८॥

न वेद कश्चिद्भगवंश्चिकीर्षितं

तवेहमानस्य नृणां विडम्बनम् ।

न यस्य कश्चिद्दयितोऽस्ति कर्हिचि-

द्द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम् ॥ २९॥

जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः ।

तिर्यङ्नृर्षिषु यादःसु तदत्यन्तविडम्बनम् ॥ ३०॥

गोप्याददे त्वयि कृतागसि दाम ताव-

द्या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् ।

वक्त्रं निनीय भयभावनया स्थितस्य

सा मां विमोहयति भीरपि यद्बिभेति ॥ ३१॥

केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये ।

यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥ ३२॥

अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।

अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३॥

भारावतारणायान्ये भुवो नाव इवोदधौ ।

सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ ३४॥

भवेऽस्मिन् क्लिश्यमानानामविद्याकामकर्मभिः ।

श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥ ३५॥

श‍ृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः

स्मरन्ति नन्दन्ति तवेहितं जनाः ।

त एव पश्यन्त्यचिरेण तावकं

भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६॥

अप्यद्य नस्त्वं स्वकृतेहित प्रभो

जिहाससि स्वित्सुहृदोऽनुजीविनः ।

येषां न चान्यद्भवतः पदाम्बुजा-

त्परायणं राजसु योजितांहसाम् ॥ ३७॥

के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।

भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितुः ॥ ३८॥

नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।

त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः ॥ ३९॥

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।

वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ ४०॥

अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।

स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ ४१॥

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।

रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥ ४२॥

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्-

राजन्यवंशदहनानपवर्गवीर्य ।

गोविन्द गोद्विजसुरार्तिहरावतार

योगेश्वराखिलगुरो भगवन् नमस्ते ॥ ४३॥

सूत उवाच

पृथयेत्थं कलपदैः परिणूताखिलोदयः ।

मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४॥

तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् ।

स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥ ४५॥

व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा ।

प्रबोधितोऽपीतिहासैर्नाबुध्यत शुचार्पितः ॥ ४६॥

आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् ।

प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ ४७॥

अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः ।

पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः ॥ ४८॥

बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुहः ।

न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतैः ॥ ४९॥

नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् ।

इति मे न तु बोधाय कल्पते शासनं वचः ॥ ५०॥

स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहोत्थितः ।

कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् ॥ ५१॥

यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् ।

भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति ॥ ५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे कुन्तीस्तुतिर्युधिष्ठिरानुतापो नामाष्टमोऽध्यायः

 

नमो भगवते वासुदेवाय

नवमोऽध्यायः

सूत उवाच

इति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सया ।

ततो विनशनं प्रागाद्यत्र देवव्रतोऽपतत् ॥ १॥

तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः ।

अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ २॥

भगवानपि विप्रर्षे रथेन सधनञ्जयः ।

स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः ॥ ३॥

दृष्ट्वा निपतितं भूमौ दिवश्च्युतमिवामरम् ।

प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥ ४॥

तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम ।

राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥ ५॥

पर्वतो नारदो धौम्यो भगवान् बादरायणः ।

बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥ ६॥

वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसितः ।

कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥ ७॥

अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः ।

शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ॥ ८॥

तान् समेतान् महाभागानुपलभ्य वसूत्तमः ।

पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९॥

कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।

हृदिस्थं पूजयामास माययोपात्तविग्रहम् ॥ १०॥

पाण्डुपुत्रानुपासीनान् प्रश्रयप्रेमसङ्गतान् ।

अभ्याचष्टानुरागास्रैरन्धीभूतेन चक्षुषा ॥ ११॥

अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दनाः ।

जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ १२॥

संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः ।

युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ १३॥

सर्वं कालकृतं मन्ये भवतां च यदप्रियम् ।

सपालो यद्वशे लोको वायोरिव घनावलिः ॥ १४॥

यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः ।

कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् ॥ १५॥

न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् ।

यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६॥

तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ ।

तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥ १७॥

एष वै भगवान् साक्षादाद्यो नारायणः पुमान् ।

मोहयन् मायया लोकं गूढश्चरति वृष्णिषु ॥ १८॥

अस्यानुभावं भगवान् वेद गुह्यतमं शिवः ।

देवर्षिर्नारदः साक्षाद्भगवान् कपिलो नृप ॥ १९॥

यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।

अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ २०॥

सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः ।

तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २१॥

तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।

यन्मेऽसूंस्त्यजतः साक्षात्कृष्णो दर्शनमागतः ॥ २२॥

भक्त्याऽऽवेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।

त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ २३॥

स देवदेवो भगवान् प्रतीक्षतां

कलेवरं यावदिदं हिनोम्यहम् ।

प्रसन्नहासारुणलोचनोल्लस-

न्मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ २४॥

सूत उवाच

युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे ।

अपृच्छद्विविधान् धर्मान् ऋषीणां चानुश‍ृण्वताम् ॥ २५॥

पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् ।

वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् ॥ २६॥

दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः ।

स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः ॥ २७॥

धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने ।

नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८॥

धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः ।

यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः ॥ २९॥

तदोपसंहृत्य गिरः सहस्रणी-

र्विमुक्तसङ्गं मन आदिपूरुषे ।

कृष्णे लसत्पीतपटे चतुर्भुजे

पुरः स्थितेऽमीलितदृग्व्यधारयत् ॥ ३०॥

विशुद्धया धारणया हताशुभ-

स्तदीक्षयैवाशु गतायुधव्यथः/श्रमः ।

निवृत्तसर्वेन्द्रियवृत्तिविभ्रम-

स्तुष्टाव जन्यं विसृजञ्जनार्दनम् ॥ ३१॥

श्रीभीष्म उवाच

इति मतिरुपकल्पिता वितृष्णा

भगवति सात्वतपुङ्गवे विभूम्नि ।

स्वसुखमुपगते क्वचिद्विहर्तुं

प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ ३२॥

त्रिभुवनकमनं तमालवर्णं

रविकरगौरवराम्बरं दधाने ।

वपुरलककुलावृताननाब्जं

विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३॥

युधि तुरगरजोविधूम्रविष्वक्

कचलुलितश्रमवार्यलङ्कृतास्ये ।

मम निशितशरैर्विभिद्यमान-

त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४॥

सपदि सखिवचो निशम्य मध्ये

निजपरयोर्बलयो रथं निवेश्य ।

स्थितवति परसैनिकायुरक्ष्णा

हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५॥

व्यवहितपृतनामुखं निरीक्ष्य

स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।

कुमतिमहरदात्मविद्यया य-

श्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ३६॥

स्वनिगममपहाय मत्प्रतिज्ञां

ऋतमधिकर्तुमवप्लुतो रथस्थः ।

धृतरथचरणोऽभ्ययाच्चलद्गु-

र्हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ३७॥

शितविशिखहतो विशीर्णदंशः

क्षतजपरिप्लुत आततायिनो मे ।

प्रसभमभिससार मद्वधार्थं

स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ३८॥

विजयरथकुटुम्ब आत्ततोत्रे

धृतहयरश्मिनि तच्छ्रियेक्षणीये ।

भगवति रतिरस्तु मे मुमूर्षो-

र्यमिह निरीक्ष्य हता गताः सरूपम् ॥ ३९॥

ललितगतिविलासवल्गुहास-

प्रणयनिरीक्षणकल्पितोरुमानाः ।

कृतमनुकृतवत्य उन्मदान्धाः

प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ४०॥

मुनिगणनृपवर्यसङ्कुलेऽन्तः-

सदसि युधिष्ठिरराजसूय एषाम् ।

अर्हणमुपपेद ईक्षणीयो

मम दृशिगोचर एष आविरात्मा ॥ ४१॥

तमिममहमजं शरीरभाजां

हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।

प्रतिदृशमिव नैकधार्कमेकं

समधिगतोऽस्मि विधूतभेदमोहः ॥ ४२॥

सूत उवाच

कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।

आत्मन्यात्मानमावेश्य सोऽन्तःश्वास उपारमत् ॥ ४३॥

सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।

सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४॥

तत्र दुन्दुभयो नेदुर्देवमानववादिताः ।

शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः ॥ ४५॥

तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।

युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥ ४६॥

तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः ।

ततस्ते कृष्णहृदयाः स्वाश्रमान् प्रययुः पुनः ॥ ४७॥

ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।

पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८॥

पित्रा चानुमतो राजा वासुदेवानुमोदितः ।

चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ ४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.