08 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टमस्सर्गः

रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः ।

परिणाम्य निशां तत्र प्रभाते प्रत्यबुद्ध्यत ।। 3.8.1 ।।

अथ सुतीक्ष्णानुज्ञया रामस्याश्रममण्डलं प्रति प्रस्थानमष्टमे रामस्त्वित्यादि । परिणाम्य अतिवाह्य । प्रभाते उषःकाले ।। 3.8.1 ।।

उत्थाय तु यथाकालं राघवः सह सीतया ।

उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना ।। 3.8.2 ।।

सहसीतयेत्यनेन पूर्वमेव सौमित्रिः स्नात इति व्यज्यते । उपास्पृशत् स्नातवान् । “स्नानाचान्त्योरूपस्पर्शः” इति बाणः । सुशीतेनेत्युष्णोदकव्यावृत्तिः । उत्पलगन्धिनेत्यनेन तटाकस्नानं सूच्यते ।। 3.8.2 ।।

अथ ते ऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ ।

काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ।। 3.8.3 ।।

उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः ।

सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन् ।। 3.8.4 ।।

अग्निमित्येकवचनेन एकाग्नित्वावगमान्न त्रेताग्निरिदानीमिति गम्यते । सुरान् नारायणम् ‘सह पत्न्या विशालाक्ष्या नारायणमुपागमत्’ इत्ययोध्याकाण्डोक्तेः । परिवारापेक्षया बहुवचनम् । काल्यं यथाकालप्राप्तं यथातथा । देशानुगुणपूजाकथनाय तपस्विशरण इत्यक्तम् । उदयन्तम् उद्यन्तम् । अनेन होमानन्तरमादित्योपस्थानोक्त्या अनुदितहोमपक्षसूचनात् कात्यायनसूत्रक्रमेण राघवाणामनुष्ठानमिति गम्यते ।। 3.8.3,4 ।।

सुखोषितास्स्म भगवन् त्वया पूज्येन पूजिताः ।

आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ।। 3.8.5 ।।

त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् ।

ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ।। 3.8.6 ।।

अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः ।

धर्मनित्यैस्तपौदान्तैर्विशिखैरिव पावकैः ।। 3.8.7 ।।

सुखोषिता इत्यादित्रिश्लोक्येकान्वया । आपृच्छामः आपृच्छामहे । परस्मैपदमार्षम् । अभ्यनुज्ञातमिति भावे तुमुन् । त्वत्कर्तृकं गमनानुज्ञानं प्रार्थयामहे इत्यर्थः । मुनयः सहवासयोग्या इत्याह धर्मनित्यैरित्यादि । धर्मनित्यैर्नित्यधर्मैः । तपो हीन्द्रियनिग्रहहेतुः । विशिखैः विगतज्वालैः । “आर्चिर्हेतिः शिखा स्त्रियाम्” इत्यमरः । गुप्तमाहात्म्यैरित्यर्थः ।। 3.8.57 ।।

अविषह्यातपो यात्सूर्यो नातिविराजते ।

अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ।। 3.8.8 ।।

तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः ।

ववन्दे सहसौमित्रिस्सीतया सह राघवः ।। 3.8.9 ।।

तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः ।

गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत् ।। 3.8.10 ।।

अविषह्येत्यादि । सूर्यः अविषह्यातपः असह्यातपः सन् यावन्नातिविराजते नात्यन्तमुद्गच्छति । कथमिव? अमार्गेणान्यायेनागतां लक्ष्मीम् ऐश्वर्यं प्राप्य अन्वयवर्जितो दुष्प्रभुरिवाविषह्यातप इत्यन्वयः । तावदिच्छामहे गन्तुमित्यनेन रावणवधत्वरा व्यज्यते । अतो न हीनोपमादोषो ऽपि ।। 3.8.810 ।।

अरिष्टं गच्छ पन्थानं राम सैमित्रिणा सह ।

सीतया चानया सार्द्धं छाययेवानुवृत्तया ।। 3.8.11 ।।

अरिष्टम् अनुपद्रवम् । रिषेः “तीषसह ” इति भावे निष्ठा । अनेनापि रावणविजयाभ्यनुज्ञा सूच्यते ।। 3.8.11 ।।

पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् ।

एषां तपस्विनां वीर तपसा भावितात्मनाम् ।। 3.8.12 ।।

तपोवनपदार्थान् कृतार्थयितुमाह पश्येत्यादि ।। 3.8.12 ।।

सप्राज्यफलमूलानि पुष्पितानि वनानि च ।

प्रशस्तमृगयूथानि शान्तपक्षिगणानि च ।। 3.8.13 ।।

प्राज्यम् अदभ्रम् । “प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु” इत्यमरः ।। 3.8.13 ।।

फुल्लपङ्कजषण्डानि प्रसन्नसलिलानि च ।

कारण्डवविकीर्णानि तटाकानि सरांसि च ।। 3.8.14 ।।

कारण्डवो जलकुक्कुटः । “मद्ग्रुः कारण्डवः प्लवः” इत्यमरः ।। 3.8.14 ।।

द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च ।

रमणीयान्यरण्यानि मयूराभिरुतानि च ।। 3.8.15 ।।

गम्यतां वत्स सौमित्रे भवानपि च गच्छतु ।

आगन्तव्यं त्वाय तात पुनरेवाश्रमं मम ।। 3.8.16 ।।

एवमुक्तस्तथेत्युक्त्वा काकुत्स्थस्सहलक्ष्मणः ।

प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ।। 3.8.17 ।।

रमणीयत्वादिना विशेषयितुं पुनरप्याह रमणीयानीति । मयूराणामभिरुतानि येषु तानि । गम्यतां त्वयेति शेषः । भवानिति राम उच्यते । आश्रमं प्रतीति शेषः ।। 3.8.1517 ।।

ततः शुभतरे तूणी धनुषी चायतेक्षणा ।

ददौ सीता तयोर्भ्रात्रोः खङ्गौ च विमलौ ततः ।। 3.8.18 ।।

आबध्य च शुभे तूणी चापौ चादाय सस्वनौ ।

निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ ।। 3.8.19 ।।

श्रीमन्तौ रूपसम्पन्नौ दीप्यमानौ स्वतेजसा ।

प्रस्थितौ धृतचापौ तौ सीतया सह राघवौ । 3.8.20 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टमस्सर्गः ।। 8 ।।

ततः प्रस्थानोपक्रमानन्तरम् । विमलौ तत इति । ततः धनुरादिदानानन्तरमित्यर्थः । ततः शुभतरे इत्यादिना अयमर्थो अवगम्यते आश्रमप्रवेशे किमस्माकमायुधैरिति मन्यमाना सीता आयुधानि मुनिगृहे कुत्रचिन्निहितवती । अथ अमार्गेणेत्यादिरामवाक्येन अरिष्टं गच्छे त्यादिमुनिवाक्येन च तयोर्हृदयं विदित्वा स्वयमेवादाय पुनर्दत्तवतीति । अत एवोत्तरसर्गे स्वाशयं वक्ष्यति ।। 3.8.1820 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टमः सर्गः ।। 8 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.