10 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे दशमः सर्गः

वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया ।

श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ।। 3.10.1 ।।

एवं रामः सत्यप्रतिज्ञः निर्वैरं च रक्षोवधं न करिष्यति तथा च मद्वियोगेन रक्षोवधेन भवितव्यं मद्विरहं च न सहिष्यते, सङ्कटमिदमुपस्थितमित्याकुलचित्ता वैदेही पतिप्रेमान्धा रक्षोवधान्निवर्तयितुमुपक्रान्ता । रामस्तु सीताविरहं सोढ्वापि तन्मूलवैरेण रक्षांसि निहत्य प्रतिज्ञा निर्वोढव्येति समाधत्ते दशमे वाक्यमेतत्त्वित्यादि । भर्तृभक्तयेत्यनेन भर्तृप्रेमपारवश्येन पूर्वमुक्तमिति ज्ञायते । धर्मे स्थित इत्यनेन सीताविरहक्लेशमङ्गीकृत्यापि प्रतिश्रुतनिर्वहणपरता द्योत्यते । यद्यपि खरवध एव दण्डकारण्यवासिभिरर्थितो रामेण प्रतिज्ञातश्च तथापि खरवधो रावणवधमूलमिति खरवधद्वारा रावणवधो ऽप्यर्थित एवेति सीतयोक्तमुपपन्नम् ।। 3.10.1 ।।

हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः ।

कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ।। 3.10.2 ।।

स्निग्धया अनुरक्तया । कुलं व्यपदिशन्त्या स्वमहाकुलीनत्वं प्रख्यापयन्त्या त्वया । सदृशम् अनुरागकुलसदृशं हितमुक्तम् । हितोक्तौ हेतुः धर्मज्ञ इति । कुलव्यपदेशे हेतुः जनकात्मज इति ।। 3.10.2 ।।

किन्तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः ।

क्षत्ित्रयैर्धार्यते चापो नार्तशब्दो भवेदिति ।। 3.10.3 ।।

किन्त्विति । यदि मया हितमुक्तं तर्हि तथैव क्रियतामिति चेत्तत्र वक्ष्यामि । तदेवाह त्वयैवेति । क्षत्ित्रयैर्धार्यते चापो नार्तशब्दो भवेदितीदं वचनं त्वयैवोक्तं खलु, मुनयश्चार्ताः तस्मात्तद्विरोधिवधः कर्तव्य एवेति भावः ।। 3.10.3 ।।

मां सीते स्वयमागम्य शरण्याः शरणं गताः ।

ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ।। 3.10.4 ।।

वसन्तो धर्मनिरता वने मूलफलाशनाः ।

न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ।। 3.10.5 ।।

ननूक्तं विरोध्युत्सारणेनार्तरक्षणं कर्तव्यम्, नतु निरपराधवध इत्याशङ्क्य तेषां शरणागतत्वेन मत्प्राणभूतत्वात्तेष्वपराधो मदपराध इत्याशयेनाह मामित्यादि । अत्रत्यविशेषणैरात्मनः शऱणागतपक्षपातं स्फोरयति ।। 3.10.4,5 ।।

काले काले च निरता नियमैर्विविधैर्वने ।

भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः ।। 3.10.6 ।।

काले काले सर्वकालेष्वित्यर्थः ।। 3.10.6 ।।

ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः ।

अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः ।। 3.10.7 ।।

अभ्यवपद्येति अनुगृहाणेत्यर्थः । लोण्मध्यमपुरुषैकवचनम् । आर्षं परस्मैपदम् । अभ्यवपत्तिः अनुग्रहः ।। 3.10.7 ।।

मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् ।

कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ।। 3.10.8 ।।

चरणशूश्रूषां पादवन्दनम् ।। 3.10.8 ।।

प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला ।

यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः ।

किं करोमीति च मया व्याहृतं द्विजसन्निधौ ।। 3.10.9 ।।

प्रसीदन्तु मदपचारं क्षमन्ताम् । ह्रीः लज्जा । अतुला अधिका । तत्र हेतुमाह यदिति । उपस्थेयैरभिगन्तव्यैः । उपस्थितः अभिगतः । किं करोमीति लोडर्थे लट् । किं करवामीत्यर्थः ।। 3.10.9 ।।

सर्वैरेतैः समागम्य वागियं समुदाहृता ।। 3.10.10 ।।

राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः ।

अर्दिताः स्म दृढं राम भवान्नस्तत्र रक्षतु ।। 3.10.11 ।।

अर्दिताः पीडिताः तत्र तेभ्यः रक्षत्विति । अभ्यवपद्येत्यत्र सामान्येनानुग्रहः प्रार्थितः । इह तु तद्विशेषे पृष्टे विशेष उक्तः ।। 3.10.10,11 ।।

होमकालेषु सम्प्राप्ताः पूर्वकालेषु चानघ ।

धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः ।। 3.10.12 ।।

न केवलं पीडयन्ति यज्ञविघ्नं च कुर्वन्तीत्याहुः होमेति । “यज्ञविघ्नकरं हन्याम्” इति मद्भोजननिवर्तनात् कः परो ऽपराध इति सीतायै सूचयितुमिदमनूदितम् । होमकालेषु अग्निहोत्रकालेषु । पूर्वकालेषु दर्शपौर्णमासादियज्ञकालेषु । धर्षयन्ति अभिधावन्ति ।। 3.10.12 ।।

राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् ।

गतिं मृगयमाणानां भवान्नः परमा गतिः ।। 3.10.13 ।।

गुतिं रक्षकम् । मृगयमाणानाम् अन्वेषयताम् ।। 3.10.13 ।।

कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान् ।

चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ।। 3.10.14 ।।

परमशब्दव्यवच्छेद्यं दर्शयति काममिति ।। 3.10.14 ।।

बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव ।

तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ।। 3.10.15 ।।

उक्तं विवृणोति बह्विति ।। 3.10.15 ।।

तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः ।

रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ।। 3.10.16 ।।

उपसंहरति तदिति । त्वन्नाथा इति बहुव्रीहिः । इयं वाक् समुदाहृतेति पूर्वेणान्वयः ।। 3.10.16 ।।

मया चैतद्वचः श्रुत्वा कार्त्स्न्त्यन परिपालनम् ।

ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ।। 3.10.17 ।।

कार्त्स्न्येन परिपालनं रक्षोवधपर्यन्तपरिपालनम् । संश्रुतं प्रतिज्ञातम्, मदाश्रितविरोधिनो मद्विरोधित्वात् मद्भोजनविघातकत्वाच्चेत्यर्थः ।। 3.10.17 ।।

संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् ।

मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा ।। 3.10.18 ।।

जीवमानः जीवन् । प्रतिश्रवं प्रतिज्ञाम् । अन्यथा कर्तुं न शक्ष्यामि । तत्र हेतुः सत्यमिष्टमिति । सत्यं सत्यवचनम् ।। 3.10.18 ।।

अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् ।

न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ।। 3.10.19 ।।

तर्ह्यावयोर्विश्लेषो दुर्विषहः स्यात्तत्राह अप्यहमिति । “आत्मानं सर्वदा रक्षेद्दारैरपि धनैरपि” इत्युक्तं जीवितमपि जह्याम् । “भ्राता स्वा मूर्तिरात्मनः” इत्युक्तं लक्ष्मणमपि जह्याम् । “आर्धो वा एष आत्मनो यत्पत्नी” इत्युक्तां त्वां वा जह्यामिति किमाश्चर्यम्, संश्रुत्य यस्मै कस्मैचित् यत्किञ्चित् प्रतिज्ञाय तां प्रतिज्ञां न जह्याम् । ब्राह्मणेभ्यः ब्रह्मविद्भ्यः कृतां प्रतिज्ञां विशेषतो न जह्याम् ।। 3.10.19 ।।

तदवश्यं मया कार्यमृषीणां परिपालनम् ।

अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः ।। 3.10.20 ।।

अनुक्तेनापीति । ऋषिभिरिति शेषः । उक्तरीत्या रक्षसां मदपराधित्वेन तद्वधस्य मत्कार्यत्वादिति भावः ।। 3.10.20 ।।

मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया ऽनधे ।

परितुष्टो ऽस्म्यिहं सीते न ह्यनिष्टो ऽनुशिष्यते ।। 3.10.21 ।।

एवं वदन्त्यास्तव हृदयं जानामीत्याह ममेति । मम त्वयि स्नेहात् तव मयि सौहार्दाच्चोक्तम् । विरहो दुस्सहो भविष्यतीत्युक्तमित्यर्थः । अनिष्टः अप्रियः पुरुषः ।। 3.10.21 ।।

सदृशं चानुरूपं च कुलस्य तव चात्मनः ।

सधर्मचारिणी मे त्वं प्राणेभ्यो ऽपि गरीयसी ।। 3.10.22 ।।

तव आत्मनः सदृशं तव कुलस्य चानुरूपमिदं वचः धर्मप्राधान्योक्तिस्त्वत्कुलानुरूपा । “कर्मणैव हि संसिद्धिमास्थिता जनकादयः” इति हि त्वत्कुलपद्धतिः । सापराधेष्वपि निरपराधोक्तिस्तव सदृशी । “पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम । कार्यं करूणमार्येण न कश्चिन्नापराध्यति ।। ” इति हि तव प्रकृतिः । तथापि त्वं मे प्राणेभ्यो गरीयस्यपि सधर्मचारिणी भव, मया यो धर्मः सङ्कल्पितस्तत्रैव त्वयापि सङ्कल्पयितव्यमिति भावः ।। 3.10.22 ।।

इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम् ।

रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि ।। 3.10.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे दशमः सर्गः ।। 10 ।।

महात्मा महाधृतिः । प्रियां मैथिलराजपुत्रीम् इतीति उक्तधर्मद्वयानुवादः ।। 3.10.23 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने दशमः सर्गः ।। 10 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.