श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनविंशः सर्गः
तां यथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् ।
भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः ।। 3.19.1 ।।
अथ खरवधमूलभूतः खरक्रोध उच्यते एकोनविंशे तामित्यदि । भगिनीं ज्येष्ठाम् । “अक्तिका भगिनी ज्येष्ठा” इत्यमरः ।। 3.19.1 ।।
उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् ।
व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ।। 3.19.2 ।।
उत्तिषठेति । प्रमोहो विसञ्ज्ञता । सम्भ्रमः चित्ताप्रतिष्ठा । एवंरूपा यथा भवसि तथा विरूपितेत्यर्थः ।। 3.19.2 ।।
कः कृष्णसर्पमासीनमाशीविषमनागसम् ।
तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया ।। 3.19.3 ।।
उत्तरकाल एवापकर्त्तुरनिष्टावाप्तिं सूचयन् पृच्छति क इति । कृष्णेत्यमोघविषत्वव्यञ्जनाय । आसीनं निश्चलमित्यर्थः । आशिषि दंष्ट्रायां विषं यस्येति सर्पविशेषणम् । पृषोदरादित्वात्सकारलोपः । “आशीरुरगदंष्ट्रायां प्रियवाक्याभिषङ्गयोः” इति निघण्टुः । ईकारान्तोप्याशीशब्दो ऽस्ति । तुदति व्यथयति । अभिसमापन्नम् आभिमुख्येनागतमिति शीघ्रप्रतीकारमूलम् । अङ्गुल्यग्रेण लीलयेति प्रभावानभिज्ञत्वोक्तिः । अनेन स्वस्य लीलया सद्यः प्रतीकारसामर्थ्यं द्योतितम् ।। 3.19.3 ।।
कः कालपाशमासज्यं कण्ठे मोहान्न बुद्ध्यते ।
यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् ।। 3.19.4 ।।
पुनरपि स्वमहिमानं प्रकटयन् शूर्पणखां चाश्वासयन् पृच्छिति कः कालेति । यः कण्ठे कालपाशं मृत्युपाशम् आसज्य आबध्य न बुध्यते, उत्तरक्षणे स्वमरणं न जानातीत्यर्थः । यश्च त्वाम् आसाद्य प्राप्य उत्तमं विषं कालकूटं पीतवान् स क इत्यन्वयः । अत्र आसादनशब्देन विरूपकरणमुच्यते, त्वदासादनरूपं विषमित्यर्थः ।। 3.19.4 ।।
बलविक्रमसम्पन्ना कामगा काम रूपिणी ।
इमामवस्थां नीता त्वं केनान्तकसमा गता ।। 3.19.5 ।।
अथ विस्मयेन पृच्छिति बलेति । इतो गता त्वं केनेमामवस्थां नीतेत्यन्वयः ।। 3.19.5 ।।
देवगन्धर्वभूतानामृषीणां च महात्मनाम् ।
को ऽयमेवं विरूपां त्वां महावीर्यश्चकार ह ।। 3.19.6 ।।
देवेत्यादि निर्धारणे षष्ठी । देवादीनां मध्ये अयम् एतादृशकार्यकर्ता कः एवं विरूपां चकार ।। 3.19.6 ।।
नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् ।
अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ।। 3.19.7 ।।
स्वनिश्चयमाह नहीति । अत्र तमित्यध्याहार्यम् । तस्य गर्वविशेषद्योतनाय इन्द्रस्य विशेषणद्वयम् ।। 3.19.7 ।।
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः ।
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ।। 3.19.8 ।।
प्राणान् तस्येति शेषः । जीवितान्तकैः शत्रुजीवितविनाशकरैः । मार्गणैः बाणैः । सारसः हंसविशेषः ।। 3.19.8 ।।
निहतस्य मया सङ्ख्ये शरमङ्कृत्तमर्मणः ।
सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ।। 3.19.9 ।।
सङ्ख्ये युद्धे । शरसङ्कृत्तमर्मणः बाणच्छिन्नमर्मस्थलस्य । सफेनं प्राणवायुनिर्गमनकालिकफेनसहितम् । रक्तं रक्तवर्णम् । अचिरप्रवृत्तत्वमनेनोच्यते । मेदिनी भूमिः ।। 3.19.9 ।।
कस्य पत्त्ररथाः कायान्मांसमुत्कृत्य सङ्गताः ।
प्रहृष्टा भक्षयिष्यन्ति निहस्य मया रणे ।। 3.19.10 ।।
पत्त्ररथाः पक्षिणः । कायात् देहात् । उत्कृत्य उच्छिद्य । सङ्गताः सङ्घशः समवेताः ।। 3.19.10 ।।
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः ।
मयापकृष्टं कृपणं शक्तास्त्रातुमिहाहवे ।। 3.19.11 ।।
मया आहवे अपकृष्टम् आकृष्टम् । इहेति युद्धसन्निधानोक्तिः । 3.19.11 ।।
उपलभ्य शनैः सञ्ज्ञां तं मे शंसितुमर्हसि ।
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ।। 3.19.12 ।।
उपलभ्य प्राप्य । दुर्विनीतेन दुर्जनेन । विक्रम्य शौर्यं कृत्वा ।। 3.19.12 ।।
इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः ।
ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ।। 3.19.13 ।।
विशेषतः अतिशयेन । क्रुद्धस्य कृतक्रोधस्य ।। 3.19.13 ।।
तरुणौ रुपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ।। 3.19.14 ।।
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।
पुत्रौ दशरथस्यास्तां भ्रातारौ रामलक्ष्मणौ ।। 3.19.15 ।।
ननु “व्यक्तमाख्याहि केन त्वमेवंरूपा विरुपिता” इति पृच्छन्तं खरं प्रति “पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ” इत्येव वक्तव्ये तरुणावित्यादिना रामादिसौन्दर्यादिकं किमर्थं कथयतीति चेत्, अस्या वैरुप्ये जाते ऽपि वैराग्याजननात् काममोहातिशयेन भ्रात्रादिसन्निधाने ऽपि हृद्गतमेवोक्तवती । अनुकूलानां प्रतिकूलानां च रामं दृष्टवतामयमेव स्वभावः, अत एव “यानि रामस्य चिह्नानि” इति पृष्टवतीं सीतां प्रति “त्रिस्थिरस्त्रि प्रलम्बश्च” इति वक्तव्ये “रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः” इत्येवमाह हनुमान् । यद्वा “सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टम्” इति न्यायेन कर्णनासाच्छेदेन प्रमत्ता कुपिता च शूर्पणखा हृद्गतमेवाह । तरुणौ कामिनीनां प्रथमाकर्षकं वय एव हि, अतस्तदुच्यते । परस्परपरिहासकरणेनोभयत्र भावबन्धाविशेषाद्द्विवचनम् । वयसा तुल्यत्वे ऽपि रूपे किमनयोस्तारतम्यमस्ति? नेत्याह रुपसम्पन्नौ । रूपं सौन्दर्यं तेन सम्पन्नौ समृद्धौ, इतरेषां कामादीनां रूपमाभ्यां भिक्षित्वा सम्पादयितव्यमिति मन्यमानावित्यर्थः । यद्वा रूपसम्पन्नौ सम्पन्नरूपौ । आहिताग्न्यादित्वात्परनिपातः । तेन “उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठति” इति न्यायं विहाय “रूपदाक्षिण्यम्पन्नः प्रसूतः” इत्युक्तरीत्या धर्मिणा सहैवोत्पन्नरूपावित्यर्थः । वयोरूपसत्त्वेपि किं कठिनस्पर्शौ? नेत्याह सुकुमारौ । परुषतरभवच्छरीरवन्न भवत्यनयोः शरीरं किन्तु पुष्पहाससुकुमारौ । एवं सौकुमार्यसत्त्वे ऽपि रतिवैयात्ये किं श्रान्तौ स्याताम्? नेत्याह महाबलौ । “रामस्तु सीतया सार्धं विजहार बहूनृतून्” इत्याद्युक्तरीत्यानेकर्तुषु विहरणे ऽपि श्रमलवरहितौ । एवं समुदायशोभासम्पन्नत्वेपि किमवयवशोभासु वैकल्यम्? नेत्याह पुण्डरीकविशालाक्षौ । “संरक्तनयना घोरा” इत्युक्तरीत्या त्वादृशनयनवन्नभवति तन्नयनमित्यर्थः । पुण्डरीकं सिताम्भोजम्, तमोगुणोद्रेकेण निद्रा कषायितत्वं रजोगुणोद्रेकेण संरक्तत्वं वा नास्ति किन्तु सर्वादा सत्त्वप्रसन्ननयनावित्यर्थः । न केवलमेवावयवशोभातिशयः, चीरकृष्णाजिनाम्बरौ “किमिव हि मधुराणां मण्डनं नाकृतीनाम्” इत्युक्तरीत्या वल्कलाजिनधारणे ऽप्यतिरमणीयौ । यद्वा कोय ऽमेवं महावीर्य इति भीतं प्रति तयोर्दुर्बलत्वमुच्यते । तुरणौ “ऊनषोडशवर्षः” इत्याद्युक्तरीत्या युद्धायोग्यौ । यद्वा “यौवने विषयैषिणाम्” इत्याद्युक्तरीत्या विषयप्रावण्येन युद्धभीतौ । रूपसम्पन्नौ “कन्या कामयते रूपम्” इत्युक्तरीत्या वनिताजनवशीकरणाय शरीरमुद्भासयन्तौ न पौरुषसम्पन्नौ । सुकुमारौ श्रीमत्पुत्रतया सम्पत्कुमारौ अतो भवदायुधप्रहारासहौ । महाबलौ विपरीतलक्षणया द्वावेतौ दुर्बलौ, ससैन्यस्य भवतो न पर्याप्तावित्यर्थः । यद्वा सुकुमारतराबलासहितौ युद्धविरोधिकलत्रसहितत्वान्न युद्धार्हौ । पुण्डरीकविशालाक्षौ तयोर्युद्धासामर्थ्यं मद्वैरूप्यकरणानन्तरं किं भविष्यतीति भीत्या शुभ्रीभूतलोचनतया चावगम्यते । चीरकृष्णाजिनाम्बरौ परिधानसम्पादनस्याप्यशक्तौ तत्राप्येकरूपोत्तरीयरहितौ । चीरकृष्णाजिनाम्बरौ स्थावरतिर्यग्भ्यां याचित्वा लब्धे अम्बरे बिभ्राणौ । यद्वा खरस्य प्रोत्साहनाय तयोर्बलातिशय उच्यते तरुणावित्यादि । तरुणौ जयोत्साहयोग्यवयस्कौ । रूपसम्पन्नौ “सिंहोरस्कं महाबाहुम्” इत्युक्तरीत्या युद्धाभावे ऽपि दर्शनमात्रेण परहृदयकम्पजनकशरीरौ । सुकुमारौ लीलयैव सर्वसंहरणक्षमौ । महाबलौ मनोबलबाहुबलोपायबलसम्पन्नौ । पुण्डीकविशालाक्षौ वैरिषु गौरवबुद्धिमूलककालुष्यरहिततया विमलनेत्रौ । अनेन शत्रुदर्शनकृतक्षोभराहित्यमुच्यते । चीरकृष्णाजिनाम्बरौ सदा बद्धवसनतया युद्धसन्नद्धावित्यर्थः । एवमुत्तरत्रापि योज्यम् ।। 3.19.14,15 ।।
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ।
देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ।। 3.19.16 ।।
पुनरपि हृदये परिवर्तमानं तत्सौन्दर्यमाह गन्धर्वेति । देवाविति यद्यपि दशरथसुताविति श्रुतम्, तथापि तत्प्रभावदर्शनेन तदसत्यमेवोक्तमिति मन्य इति भावः ।। 3.19.16 ।।
तरुणी रूपम्पन्ना सर्वाभरणभृषिता ।
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ।। 3.19.17 ।।
तत्र आश्रमे ।। 3.19.17 ।।
ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् ।
इमामवस्थां नीताहं यथानाथासती तथा ।। 3.19.18 ।।
प्रमदाम् अधिकृत्य निमित्तीकृत्य । उभाभ्यां सम्भूय एकमत्यं प्राप्य । इमामवस्थां नीतास्मि यथा अनाथा असती कुलटा नीयते तथा नीतास्मीति योजना ।। 3.19.18 ।।
तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ।
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ।। 3.19.19 ।।
अनृजुवृत्तायाः कुटिलवृत्तायाः । अनेन तत्प्रेरणेनैव मां तौ विरूपितवन्तावित्यमन्यतेति गम्यते । रणमूर्धनिहतयोरित्यन्वयः । सीताया रणमूर्धिनि गमनासम्भवाद्धताया इति विपरिणामो न युक्तः, अन्यथा अशक्यत्वाद्रणमूर्धनीत्युक्तम् ।। 3.19.19 ।।
एष मे प्रथमः कामः कृतस्तात त्वया भवेत् ।
तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ।। 3.19.20 ।।
अवश्यकर्तव्यत्वाय पुनरप्याह एष इति । प्रथमः श्रेष्ठः । कामः अभिलाषः । “प्रथमौ प्रवरादिमौ” इति वैजयन्ती । तातेति पितृवज्ज्येष्ठसम्बोधनम् ।। 3.19.20 ।।
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ।
व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ।। 3.19.21 ।।
मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ ।
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ।। 3.19.22 ।।
चतुर्दशेति चतुर्दशसहस्राध्यक्षानित्यर्थः ।। 3.19.21,22 ।।
तौ हत्वा तां च दुर्वृत्तामपावर्तितुमर्हथ ।
इयं च रुधिरं तेषां भगिनी मम पास्यति ।। 3.19.23 ।।
मनोरथो ऽयमिष्टोस्या भगिन्या मम राक्षसाः ।
शीघ्रं सम्पाद्यतां तौ च प्रमथ्य स्वेन तेजसा ।। 3.19.24 ।।
दुर्वृत्तां भगिनीवैरुप्यमूलत्वात् । अपावर्तितुम् आनेतुम् । तां चेति चकारेण तावपीत्युच्यते । आनयनप्रयोजनमाह इयं चेति । अस्या अयं मनोरथः मम चायमिष्टः सम्मत इत्यर्थः । प्रमथ्य हत्वा ।। 3.19.23,24 ।।
इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश ।
तत्र जग्मुस्तया सार्धं घना वातेरिता यथा ।। 3.19.25 ।।
इतीति तयोर्मार्गं प्रदर्शयन्त्येति शेषः । इयं खरेणाप्रेरितापि गतेति बौध्यम् ।। 3.19.25 ।।
ततस्तु ते तं समुदग्रतेजसं तथापि तीक्ष्णप्रदरा निशाचराः ।
न शेकुरेनं सहसा प्रमर्दितुं वनद्विपा दीप्तमिवाग्निमुत्थितम् ।। 3.19.26 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनविंशः सर्गः ।। 19 ।।
प्रदराः बाणाः । “प्रदरा भङ्गनारीरुक्बाणाः” इत्यमरः । तथा तीक्ष्णप्रदरा अपीति योज्यम् । तमेनमित्यन्वयः । उत्थितं राक्षसान् दृष्ट्वा अभिमुखमुद्गतमिति रामविशेषणम् । उत्तरसर्गसङ्ग्रहो ऽयं श्लोकः ।। 3.19.26 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनविंशः सर्गः ।। 19 ।।