24 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्विंशः सर्गः

आश्रमं प्रतियाते तु खरे खरपराक्रमे ।

तानेवोत्पातिकान् रामः सह भ्रात्रा ददर्श ह ।। 3.24.1 ।।

तानुत्पातान् महाघोरानुत्थितान् रोमहर्षणान् ।

प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ।। 3.24.2 ।।

अथ रामस्य युद्धसन्नाहश्चतुर्विंशे आश्रममित्यादि । औत्पातिकानिति स्वार्थे ठक् ।। 3.24.1,2 ।।

इमान् पश्य महाबाहो सर्वभूतापहारिणः ।

समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् ।। 3.24.3 ।।

इमानिति । सर्वभूतापहारिणः सर्वभूतापहारसूचकान् प्रकृते तु सर्वराक्षसान् संहर्तुमुद्यतानिति योजना ।। 3.24.3 ।।

अमी रुधिरधारास्तु विसृजन्तः खरस्वनान् ।

व्योम्निमेघा विवर्तन्ते परुषा गर्दभारुणाः ।। 3.24.4 ।।

अमी इति । रुधिरमय्यो धाराः येषां ते रुधिरधाराः । खरस्वरान् घोरस्तनि तानि विवर्तन्ते सञ्चरन्ति ।। 3.24.4 ।।

सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः ।

रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण ।। 3.24.5 ।।

सधूमा इति प्रतापानलोद्युक्ता इति भावः । अत एव मम युद्धाभिनन्दिनः । रुक्मपृष्ठानि स्वर्णमयपृष्ठानि । चापानि धनूंषि । “अथास्त्रियां धनुश्चापौ” इत्यमरः । विवेष्टन्ते चलन्ति, युद्धसन्नद्धानि भवन्तीत्यर्थः । आत्मनश्चापद्वयं लक्ष्मणस्यैकमति बहुवचनम् ।। 3.24.5 ।।

यादृशा इह कूजन्ति पक्षिणो वनचारिणः ।

अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ।। 3.24.6 ।।

यादृशाः प्रसिद्धाः, पूर्वं कृतसंवादा इत्यर्थः । अग्रतः अव्यवहितोत्तरकाले । नो भयमिति सुवाक् ।। 3.24.6 ।।

सम्प्रहारस्तु सुमहान् भविष्यति न सशंयः ।

अयमाख्यानि मे बाहुः स्फुरमाणो मुहुर्मुहुः ।

सन्निकर्षे तु नः शूर जयं शत्रोः पराजयम् ।। 3.24.7 ।।

सुमहान् सम्प्रहारः युद्धम् । बाहुः दक्षिणः । सन्निकर्षे अव्यवहितोत्तरकाले ।। 3.24.7 ।।

सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते ।

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण ।। 3.24.8 ।।

निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ।। 3.24.9 ।।

रक्षसां नर्दतां घोरः श्रूयते च महाध्वनिः ।

आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ।। 3.24.10 ।।

स्वमुखप्रसादादेः स्वयं द्रष्टुमशक्यत्वेन क्वसमानमुखे लक्ष्मणे निदर्शयति सप्रभमिति । मुखप्रसादफलं व्यतिरेकमुखेनाह उद्यतानामिति ।। 3.24.810 ।।

आनागतविधानं तु कर्तव्यं शुभमिच्छता ।

आपदं शङ्कमानेन पुरुषेण विपश्चिता ।। 3.24.11 ।।

अनागतेति । आपदं निमित्तवशाच्छङ्कमानेन शुभम् आपत्परिहारम् । इच्छता विपश्चिता दूरदर्शिना पुरुषेण अनागतविधानम् अनागतस्य भाविनो ऽनर्थस्य विधानं प्रतिविधानं कर्तव्यम् ।। 3.24.11 ।।

तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः ।

गुहामाश्रय शैलस्य दुर्गां पादपसङ्कुलाम् ।। 3.24.12 ।।

तस्मादिति । गृहीत्वा रक्ष्यत्वेन गृहीत्वा । पादपसङ्कुलां वृक्षावृताम् ।। 3.24.12 ।।

प्रतिकूलितुमिच्छामि नहि वाक्यमिदं त्वया ।

शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम् ।। 3.24.13 ।।

अहमेव योत्स्यामीति वक्तुमुद्यतं प्रत्याह प्रतिकूलितुमीति । इदं वाक्यं प्रतिकूलितुं नेच्छामि । मया शापितो ऽसीति वक्तव्ये मम पादाभ्यामित्युक्तिर्लक्ष्मणव्यवहारानुसारेण ।। 3.24.13 ।।

त्वं हि शूरश्च बलवान् हन्यां ह्येतान्न संशयः ।

स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान् ।। 3.24.14 ।।

त्वन्निवर्तनं न त्वदशक्त्या किन्तु मुनिभ्यः प्रतिज्ञानान्मयैव तद्वधः कर्तव्य इत्याशयेनाह त्वं हीति ।। 3.24.14 ।।

एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया ।

शरानादाय चापं च गुहां दुर्गां समाश्रयत् ।। 3.24.15 ।।

दुर्गाम् अन्यैर्दुरासदाम् ।। 3.24.15 ।।

तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया ।

हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ।। 3.24.16 ।।

हन्तेति हर्षे । निर्युक्तं निश्चयेन उपायश्चिन्तित इत्यर्थः । “योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु” इत्यमरः । आविशत् प्राविशत्, अधारयदित्यर्थः ।। 3.24.16 ।।

स तेनाग्निनिकाशेन कवचेन विभूषितः ।

बभूव रामस्तिमिरे विधूमो ऽग्निरिवोत्थितः ।। 3.24.17 ।।

स चापमुद्यम्य महच्छरानादाय वीर्यवान् ।

बभूवावस्थितस्तत्रज्यास्वनैः पूरयन् दिशः ।। 3.24.18 ।।

स तेनेति अत्रोपमालङ्कारेण क्षणेन रक्षःक्षयो ध्वन्यते ।। 3.24.17,18 ।।

ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः ।

समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ।। 3.24.19 ।।

ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः ।

समेत्य चोचुः सहिता अन्योन्यं पुण्यकर्मणः ।। 3.24.20 ।।

ततो देवा इत्यादि पूर्वसर्गे समागमनमुक्तम् अत्र सन्निधानम् । चारणाः देवजातिविशेषाः । लोके त्रैलोक्ये । ब्रह्मर्षिसत्तमाः भृग्वादयः । पुण्यकर्मणः पुण्यकर्माणः ।। 3.24.19,20 ।।

स्वस्ति गोब्राह्मणेभ्यो ऽस्तु लोकानां ये ऽभिसङ्गताः ।

जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् ।। 3.24.21 ।।

चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान् ।

एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् ।। 3.24.22 ।।

चतुर्दश सहस्त्राणि रक्षसां भीमकर्मणाम् ।

एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ।। 3.24.23 ।।

स्वस्तीत्यादि लोकानां ये ऽभिसङ्गता इति । ये लोकानामभिसङ्गताः अनुकूलाः तेभ्योपि स्वस्त्यस्त्वित्यर्थः । देवादयः समेत्य स्वस्तीत्याद्यूचुः त एवैवमुक्त्वा कथं युद्धं भविष्यतीत्यन्तं पुनः प्रोचुरिति सम्बन्धः ।। 3.24.2123 ।।

इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः ।

जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः ।। 3.24.24 ।।

राजर्षयः देवत्वं प्राप्ताः । यद्वा वानप्रस्थीभूताः । सगणाः सपरिकराः ।। 3.24.24 ।।

आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम् ।

दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा ।। 3.24.25 ।।

आविष्टमिति । सङ्ग्रामशिरसि युद्धाग्रे ।। 3.24.25 ।।

रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः ।

बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः ।। 3.24.26 ।।

रामस्य रूपं रूद्रस्य रूपमिव बभूव ।। 3.24.26 ।।

[इति सम्भाष्यमाणे तु देवगन्धर्वचारणैः]

ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् ।

अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत ।। 3.24.27 ।।

तत इति । निर्ह्रादः शब्दः । वर्म कवचम् । अनीकं सेना ।। 3.24.27 ।।

सिंहनादं विसृजतामन्योन्यमभिगर्जताम् ।

चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः ।। 3.24.28 ।।

विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम् ।

तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् ।। 3.24.29 ।।

सिंहनादमित्यादि । अन्योन्यमभिगर्जताम् अहमेव शत्रुं हनिष्यामीति जल्पतामित्यर्थः । विस्फारयतां ज्याशब्दं कुर्वताम् । अभीक्ष्णशः भृशम् । जृम्भतां जृम्भमाणानां मदेनोद्गच्छतामित्यर्थः । विप्रघुष्टस्वनानां घोषो गुञ्जनाख्यध्वनिविशेषः । “घोषो गुञ्जनमञ्जने” इति वैजयन्ती । भावे निष्ठा । तद्रूपस्वनवतामित्यर्थः ।। 3.24.28,29 ।।

तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः ।

दुद्रुवुर्यत्र निःशब्दं पृष्ठतो न व्यलोकयन् ।। 3.24.30 ।।

तेनेति । श्वापदाः हिंस्रा व्याघ्रादयः । यत्र निःशब्दं शब्दाभावः । “अव्ययं विभक्ति” इत्यादिना अव्ययीबावः । तं देशं दुद्रुवुरित्यन्वयः । पृष्ठतः पश्चाद्भागम् ।। 3.24.30 ।।

तत्त्वनीकं महावेगं रामं समुपसर्पत ।

धृतनानाप्रहरणं गम्भीरं सागरोपमम् ।। 3.24.31 ।।

समुपसर्पत समुपासर्पत् । गम्भीरम् इतरदुष्प्रवेशम् ।। 3.24.31 ।।

रामो ऽपि चारयन् चक्षुः सर्वतो रणपण्डितः ।

ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम् ।। 3.24.32 ।।

रामो ऽपीति । उत्थितम् उद्युक्तम् ।। 3.24.32 ।।

वितत्य च धनुर्भीमं तूण्योश्चोद्धृत्य सायकान् ।

क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम् ।। 3.24.33 ।।

दुष्प्रेक्षः सोभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन् ।

तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः ।। 3.24.34 ।।

वितत्येति । वितत्य किञ्चिद्बाणविसर्पणं कृत्वेत्यर्थः । “विततं संहितस्येषोः किञ्चिदेव विसर्पणम्” इति वैजयन्ती । तूण्योः पृष्ठपार्श्वद्वयबद्धयोः । आहारयदित्यनेन करुणामूर्तिरप्याश्रितकण्टकोद्धारणाय क्रोधमारोपयामासेति गम्यते, भीमं धनुरुद्धृत्य तूण्योः शरांश्चोद्धृत्य वितत्य सर्वरक्षसां वधार्थं क्रोधमाहारयदित्यन्वयः ।। 3.24.33,34 ।।

तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा ।

दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः ।। 3.24.35 ।।

आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम् ।

दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः ।। 3.24.36 ।।

दक्षस्येति क्रोधातिशयमात्रे दृष्टान्तः ।। 3.24.35,36 ।।

तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णैः ।

बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रवृन्दम् ।। 3.24.37 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्विंशः सर्गः ।। 24 ।।

तदिति । कवचसूर्यकिरणयोः साम्यं नीलाभ्राणां रक्षसां च कार्मुकवत्त्वं ध्वजवत्त्वं च तुल्यं मेघे उत्पातध्वजसम्भवात् । अत्र सार्धसप्तत्रिंशच्छ्लोकाः ।। 3.24.37 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुर्विंशः सर्गः ।। 24 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.