25 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चविंशः सर्गः

अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ।

ददर्शाश्रममागम्य खरः सह पुरस्सरैः ।। 3.25.1 ।।

तुमुलयुद्धं पञ्चविंशे अवष्टब्धेत्यादि । धन्यत इति धनुः । “धन धान्ये” इत्यस्माद्धातोः “भृमृशीतृ़चरितत्सरितनिधनिमिमस्जिभ्य उः” इत्यौणादिकसूत्रेण उप्रत्ययः । “धनुषां च धनुं विदुः, धनुरिवाजनि वक्रः” इति कविकाव्यप्रयोगश्च ।। 3.25.1 ।।

तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्वनम् ।

रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ।। 3.25.2 ।।

स खरस्याज्ञया सूतस्तुरगान् समचोदयत् ।

यत्र रामो महाबाहुरेको धून्वन् स्थितो धनुः ।। 3.25.3 ।।

तमिति । चोद्यतामिति रथ इति शेषः ।। 3.25.2,3 ।।

तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः ।

नर्दमाना महानादं सचिवाः पर्यवारयन् ।। 3.25.4 ।।

निष्पतितं युद्धोन्मुखम् । सचिवाः श्येनगाम्यादयः ।। 3.25.4 ।।

स तेषां यातुधानानां मध्ये रथगतः खरः ।

बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः । 3.25.5 ।।

लोहिताङ्गः अङ्गरकः ।। 3.25.5 ।।

ततः शरसहस्रेण राममप्रतिमौजसम् ।

अर्दयित्वा महानादं ननाद समरे खरः ।। 3.25.6 ।।

अर्दयित्वा पीडयित्वा महानादं ननाद चकारेत्यर्थः ।। 3.25.6 ।।

ततस्तं भीमधन्वानं क्रुद्धा सर्वे निशाचारः ।

रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ।। 3.25.7 ।।

भीमधन्वानम् । “धनुषश्च” इत्यनङ्” समासान्तः । शस्त्रैः आयुधैः । “शस्त्रमायुधलोहयोः” इत्यमरः ।। 3.25.7 ।।

मुद्गरैः पट्टिशैः शूलैः प्रासैः खड्गैः परश्वधैः ।

राक्षासाः समरे रामं निजघ्नू रोषतत्पराः ।। 3.25.8 ।।

मुद्गरैः स्थूलगदाभिः । प्रासैः कुन्तैः । रोषतत्पराः क्रोधपरवशाः ।। 3.25.8 ।।

ते बलाहकसङ्काशा महानादा महौजसः ।

अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च ।

गजैः पर्वतकूटाभै रामं युद्धे जिघासवः ।। 3.25.9 ।।

त इति । बलाहकसङ्काशाः मेघतुल्याः । कूटम् शृङ्गम् । अभ्यधावन्त आभिमुख्येनाधावन्त ।। 3.25.9 ।।

ते रामे शरवर्षाणि व्यसृजन् रक्षासां गणाः ।

शैलेन्द्रमिव धाराभिर्वर्षमाणा बलाहकाः ।। 3.25.10 ।।

ते राम इति । शेलैन्द्रमिवेत्युपमानेन रामस्य निर्दुःखत्वमुक्तम् ।। 3.25.10 ।।

स तैः परिवृतो घोरै राघवो रक्षसां गणैः ।। 3.25.11 ।।

स तैरित्याद्यर्धमेकान्वयम् ।। 3.25.11 ।।

तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ।

प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ।। 3.25.12 ।।

तानीति । विशिखैः बाणैः । प्रतिजग्राह प्रतिरुरोध । नद्योघान् नदीप्रवाहान् ।। 3.25.12 ।।

स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ।

रामः प्रादीप्तैर्बहुभिर्वज्रैरिव महाचलः ।। 3.25.13 ।।

स तैरिति । वज्रैः अशनिभिः ।। 3.25.13 ।।

स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ।

बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः ।। 3.25.14 ।।

स विद्ध इति । क्षतजादिग्धः रुधिरालिप्तः ।। 3.25.14 ।।

विषेदुर्देगन्धर्वाः सिद्धाश्च परमर्षयः ।

एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ।। 3.25.15 ।।

विषेदुरिति । बहुभिः सहस्त्रैः चतुर्दशसहस्त्रैः ।। 3.25.15 ।।

ततो रामः सुसङ्क्रुद्धो मण्डलीकृतकार्मुकः ।

ससर्ज विशिखान् बाणान् शतशोथ सहस्रशः ।। 3.25.16 ।।

तत इति । मण्डलीकृतकार्मुकः आकर्णाकर्षणेन मण्डलाकारीकृतधनुः । विशिखान् बाणान् अर्धचन्द्राग्रबाणान् । प्रथमं शतशः अनन्तरं सहस्रशः स निर्बिभेदेति योजना ।। 3.25.16 ।।

दुरावारान् दुर्विषहान् कालदण्डोपमान् रणे ।

मुमोच लीलया रामः कङ्कपत्त्रानजिह्मगान् ।। 3.25.17 ।।

दुरावारान् वारयितुमशक्यान् । दुर्विषहान् दुःसहान् । कालदण्डोपमान् यमदण्डतुल्यान् । अजिह्मगान् अवक्रगामिनः, अस्खलितलक्ष्यकानित्यर्थः । कङ्कपत्त्रान् बाणान् । “कङ्कपत्त्रशरमार्गणबाणाः” इति हलायुधः ।। 3.25.17 ।।

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ।

आददू रक्षसां प्राणान् पाशाः कालकृता इव ।। 3.25.18 ।।

ते शरा इति । प्राणानाददुः अमारयन्नित्यर्थः । कालकृताः यममुक्ता इत्यर्थः ।। 3.25.18 ।।

भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः ।

अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः ।। 3.25.19 ।।

रुधिराप्लुता इति विशेषणं दीप्ताग्न्युपमासिद्ध्यर्थम् ।। 3.25.19 ।।

असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात् ।

विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः ।। 3.25.20 ।।

असङ्ख्येया इति । सायकाः बाणाः ।। 3.25.20 ।।

तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च ।

बीहून् सहस्ताभरणानूरून् करिकरोपमामान् ।

चिच्छेद रामः समरे शतशोथ सहस्रशः ।। 3.25.21 ।।

तैरित्याद्यर्धत्रयमेकं वाक्यम् । वर्माणि कवचानि ।। 3.25.21 ।।

हयान् काञ्चनसन्नाहान् रथयुक्तान् ससारथीन् ।

गजांश्च सगजारोहान् सहयान् सादिनस्तथा ।। 3.25.22 ।।

पदातीन् समरे हत्वा ह्यनयद्यमसादनम् ।। 3.25.23 ।।

हयानिति । काञ्चनसन्नाहान् काञ्चनाभरणान् । रथयुक्तान् रथबद्धान् । सगजारोहान् सनिषादान् । सादिनः अश्वारोहान् । सदनमेव सादनम् । स्वार्थे अण् ।। 3.25.22,23 ।।

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।

भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः ।। 3.25.24 ।।

नालीकाः नालमात्रशराः । नाराचाः आयसशराः । विकर्णिनः कर्णशराः । भीममिति क्रियाविशेषणम् ।। 3.25.24 ।।

तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः ।

रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ।। 3.25.25 ।।

रामेण कर्त्रा बाणैः अर्दितं पीडितं तत्सैन्यम्, सुखं दुःखनिवृत्तिम् अग्निना अर्दितं शुष्कं वनमिव न लेभे ।। 3.25.25 ।।

केचिद्भीमबलाः शूराः शूलान् खङ्गान् परश्वधान् ।

रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ।। 3.25.26 ।।

केचिदिति । परमायुधानिति शूलादिविशेषणम् ।। 3.25.26 ।।

तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः ।

जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ।। 3.25.27 ।।

तानीति । आवार्य निवार्य । शिरोधरानिति पुंलिङ्गत्वमार्षम् । शिरोधरांश्चिच्छेद प्राणान् जहारेति क्रमः ।। 3.25.27 ।।

ते छिन्नशिरसः पेतुश्छिन्नवर्मशरासनाः ।

सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ।। 3.25.28 ।।

त इति । सुपर्णो गरुडः तस्य वातेन पक्षानिलेन विक्षिप्ताः उन्मूलिताः । जगत्यां भुवि ।। 3.25.28 ।।

अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ।

खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः ।। 3.25.29 ।।

विषण्णाः दुःखिताः । शरणार्थं रक्षणार्थमिति यावत् ।। 3.25.29 ।।

तान् सर्वान् पुनरादाय समाश्वास्य च दूषणः ।

अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः ।। 3.25.30 ।।

तानिति । आदाय खरसमीपगमनान्निवर्त्य । अन्तकः रुद्रपराजितो यमः ।। 3.25.30 ।।

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः ।

राममेवाभ्यधावन्त सालतालशिलायुधाः ।। 3.25.31 ।।

निवृत्ताः युद्धान्निवृत्ताः । दूषणरूपाश्रयेण निर्भयाः सन्तः । अभ्यधावन्त अभिमुखमाजग्मुः । प्रायशो नष्टायुधत्वात्सालतालेत्याद्युक्तम् ।। 3.25.31 ।।

शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः ।

सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे ।

द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः ।। 3.25.32 ।।

शस्त्रवर्षाणि शरभिन्नायुधवर्षाणीत्यर्थः । सृजन्त इति आसन्निति शेषः ।। 3.25.32 ।।

तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।

रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् ।। 3.25.33 ।।

रामस्य रक्षसां च तुमुलं सङ्कुलं महाघोरम् अत एव रोमहर्षणं भयातिरेकेण रोमाञ्चजनकम् अत एवाद्भुतं तद्युद्धं पुनरपि बभूव ।। 3.25.33 ।।

ते समन्तादभिक्रुद्धा राघवं पुनरभ्ययुः ।। 3.25.34 ।।

त इत्यर्धमेकं वाक्यम् । अभ्ययुः आवव्रुः ।। 3.25.34 ।।

तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः ।

राक्षसैरुद्यतप्रासैः शरवर्षाभिवर्षिभिः ।। 3.25.35 ।।

स कृत्वा भैरवं नादमस्रं परमभास्वरम् ।

संयोजयत गान्धर्वं राक्षसेषु महाबलः ।। 3.25.36 ।।

इदमनुवदन्नाह तैश्चेत्यादिश्लोकद्वयमेकं वाक्यम् । महाबलः स रामः । दिशः प्रदिशश्च तैरावृताः दृष्ट्वा । भैरवं भयङ्करं नादं कृत्वा । राक्षसेषु राक्षसनिमित्तं गान्धर्वमस्त्रं धनुषि संयोजयत समयोजयत् । शरवर्षाभिवर्षिभिः शरवर्षकारिभिरित्यर्थः ।। 3.25.35,36 ।।

ततः शरसहस्राणि निर्ययुश्चापमण्डलात् ।

सर्वा दश दिशो बाणैरावार्यन्त समागतैः ।। 3.25.37 ।।

तत इति । चापमण्डलात् संहितगान्धर्वास्त्रात् आकर्षणातिशयेन मण्डलीकृताच्चापान्निर्ययुः । समागतैस्तैः बाणैर्दशदिशः । सर्वाः अन्यूनाः अवार्यन्त ।। 3.25.37 ।।

नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान् ।

विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ।। 3.25.38 ।।

नाददानमिति । राक्षसा रामस्य शरादानकर्षणमोचनानि नापश्यन् किन्तु स्वहिंसनमेवापश्यन्निति क्रियाप्रधानो निर्देशः । यद्यपि गान्धर्वास्त्रप्रयोगे विचित्रबाणनिर्गमो ऽस्ति तदस्मिन् श्लोके नोच्यते किन्तु तदनन्तरभाविकेवलशरमोक्ष इति ज्ञेयम् ।। 3.25.38 ।।

शरान्धकारमाकाशमावृणोत्सदिवाकरम् ।

बबूवावस्थितो रामः प्रवमन्निव तान् शरान् ।। 3.25.39 ।।

शरान्धकारमिति । अन्धकारमिति क्लीबत्वमार्षम् । प्रवमन् उद्गिरन् ।। 3.25.39 ।।

युगपत्पतमानैश्च युगपच्च हतैर्भृशम् ।

युगपत्पतितैश्चैव विकीर्णा वसुधा ऽभवत् ।। 3.25.40 ।।

युगपच्छरनिर्गमः समुत्प्रेक्ष्यते युगपदिति । पतमानैः पतद्भिः एककाले शरहतैः एककाले भूमौ पतद्भिः एककाले पतितैश्च राक्षसैः वसुधा विकीर्णा व्याप्ता ऽभवदिति युगपच्छरनिर्गमनकार्योक्तिः ।। 3.25.40 ।।

निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः ।

तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ।। 3.25.41 ।।

अथ हिंसावैचित्र्यमाह निहता इति । निहताः केवलं प्रहताः । पतिताः अशनिपात इव भयेन भूमौ पतिताः । क्षीणाः कण्ठगतप्राणाः । छिन्नाः द्विधा कृताः । भिन्नाः खण्डितावयवाः । विदारिताः नृसिंहेन हिरण्यवदानाभिकण्ठमुद्भिन्नशरीराः । तत्र तत्रेत्यनेन कश्चिद्भिन्नः कश्चिद्विदारितः पुनः कश्चित् भिन्नः इत्येवं विचित्रशववत्त्वमुक्तम् ।। 3.25.41 ।।

सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा ।

ऊरुभिर्जानुभिश्छिन्नैर्नानारूपविभूषणैः ।। 3.25.42 ।।

हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः ।

चामरैर्व्यजनैश्छत्त्रैर्ध्वजैर्नानाविधैरपि ।। 3.25.43 ।।

रामस्य बाणाभिहतैर्विचित्रैः शूलपट्टिशैः ।

खङ्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः ।। 3.25.44 ।।

चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः ।

विच्छिन्नैः समरे भूमिः विकीर्णा ऽभूद्भयङ्करा ।। 3.25.45 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चविंशः सर्गः ।। 25।।

चित्रवधं दर्शयति सोष्णीषैरित्यादिना । सोष्णीषैः शिरोवेष्टनवद्भिः । उत्तमाङ्गैः केवलशिरोभिः । नानारूपविभूषणैरित्यूरुजानूनां विशेषणम् । सार्धोरुकैरूरुभिः सकटकैर्जानुभिश्चेत्यर्थः । अनेकशो भिन्नैरिति हयादित्रयविशेषणम् । विच्छिन्नैरिति चामरादिसर्वविशेषण्, विचित्रैरिति शूलादिविशेषणम्, नानाविधैरिति चामरादिविशेषणम्, पूर्वोक्तैरेतैर्विकीर्णा अत एव भयङ्करा ऽभूदिति योजना । एतावता ग्रन्थेन रामशरप्रभावातिशयो दर्शितः । अस्मिन् सर्गे पञ्चचत्वारिंशच्छ्लोकाः ।। 3.25.4245 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चविंशः सर्गः ।। 25 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.