श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षड्विंशः सर्गः
दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः ।
सन्दिदेश महाबाहुर्भीमवेगान् दुरासदान् ।
राक्षसान् पञ्च साहस्रान् समरेष्वनिवर्तिनः ।। 3.26.1 ।।
अथ दुषणप्रमुखसर्वसैन्यविनाशः षङ्विंशे दूषणस्त्वित्याद्यर्धत्रयमेकं वाक्यम् । निरीक्ष्य चेति खिन्नश्चेत्यर्थः । भीमवेगान् भयङ्करधावनान् अत एव दुरासदान् । पञ्चसहस्रानित्यनेन पञ्चसाहस्री पूर्वं हतेति व्यज्यते ।। 3.26.1 ।।
ते शूलैः पट्टिशै खङ्गैः शिलावर्षेर्द्रुमैरपि ।
शरवर्षैरविच्छिन्नं ववृषुस्तं समन्ततः ।। 3.26.2 ।।
त इति । तं रामम् ।। 3.26.2 ।।
स द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ।
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ।। 3.26.3 ।।
स इति । प्राणहरम् अन्येशामिति शेषः । प्रतिजग्राह प्रतिरुरोध । धर्मात्मेत्यनेन कूटयोधित्वव्युदासः ।। 3.26.3 ।।
प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः ।
रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ।। 3.26.4 ।।
निमीलित इवर्षभ इत्यनेन शरवर्षे ऽपि निर्व्यथत्वमनायासत्वं च द्योत्यते ।। 3.26.4 ।।
ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ।
शरैरवाकिरत्सैन्यं सर्वतः सहदूषणम् ।। 3.26.5 ।।
ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः ।
शरैरशनिकल्पैस्तं राघवं समवाकिरत् ।। 3.26.6 ।।
क्रोधसमाविष्ट इति राम इति शेषः । प्रदीप्त इव तेजसेति तजोयुक्तत्वेन प्रदीप्त इव स्थित इत्यर्थः । सहदूषणं दुषणसहितम् । दूषणः खरस्य सेनापतिः ।। 3.26.5,6 ।।
ततो रामः सुसङ्क्रुद्धः क्षुरेणास्य महद्धनुः ।
चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् ।। 3.26.7 ।।
तत इति । चतुर्भिरिति शरैरित्यनुषङ्गः ।। 3.26.7 ।।
हत्वा चाश्वन् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः ।
शिरो जहार तद्रक्षस्रिभिर्विव्याध वक्षसि ।। 3.26.8 ।।
हत्वेति । तद्रक्षः दूषणं वक्षसि विव्याधेति सम्बन्धः ।। 3.26.8 ।।
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् ।। 3.26.9 ।।
वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम् ।
आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् ।। 3.26.10 ।।
वज्राशनिसमस्पर्शं परगोपुरदारणम् ।। 3.26.11 ।।
तं महोरगसङ्काशं प्रगृह्य परिघं रणे ।
दूषणोभ्यद्रवद्रांमं क्रूरकर्मा निशाचरः ।। 3.26.12 ।।
परितो हन्यते ऽनेनेति परिघः तम् । पट्टैः बन्धनैः । परवसोक्षितं शत्रुमेदस्सिक्तम् । “हृन्मेदस्तु वपा वसा” इत्यमरः । वज्राशनिसमस्पर्शं वज्रं वज्राख्यरत्नम् । अशनिः वज्रायुधम्, तदुभयसदृशकाठिन्यम् । परगोपुरदारणं परेषां शत्रूणां यत् गोपुरं पुरद्वारं तस्य दारणं भेदकम् । “पुरद्वारं तु गोपुरम्” इत्यमरः ।। 3.26.912 ।।
तस्याभिपतमानस्य दूषणस्य स राघवः ।
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ।। 3.26.13 ।।
तस्येति । अभिपतमानस्य अभिपततः । सहस्ताभरणावित्यनेन शौर्यबिरुदवत्त्वं लक्ष्यते ।। 3.26.13 ।।
भ्रष्टस्तस्य महाकायः पपात रणमूर्द्धिनि ।
परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ।। 3.26.14 ।।
रणमूर्धनि छिन्नहस्तस्य तस्य दूषणस्य भ्रष्टः हस्ताच्च्युतः महाकायः महाप्रमाणः परिघः शक्रध्वज इवाग्रतः पपातेत्यन्वयः ।। 3.26.14 ।।
स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ।
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ।। 3.26.15 ।।
स इति । कराभ्यां सह पपातेत्यन्वयः । मनस्वी धीरः ।। 3.26.15 ।।
तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे ।
साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ।। 3.26.16 ।।
एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः ।
संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः ।। 3.26.17 ।।
तमिति । अपूजयन् अस्तुवन् ।। 3.26.16,17 ।।
महाकपालः स्थूलाक्षः प्रमाक्षी च महाबलः ।
महाकपालो विपुलं शूलमुद्यम्य राक्षसः ।
स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् ।। 3.26.18 ।।
त्रीनेवाह महाकपाल इति । कः किमायुधं गृहीत्वा ऽभ्यद्रवदित्यत्राह महाकपाल इति । 3.26.18 ।।
दृष्ट्वैवापततस्तूर्णं राघवः सायकैः शितैः ।
तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव ।। 3.26.19 ।।
दृष्ट्वेति । शितैः शाणोल्लीढैः । प्रतिजग्राह तेषु बाणानर्पयामासेत्यर्थः । यथा गृहं प्राप्तानतिथीनुपचारैः प्रतिगृह्णाति तथेत्यर्थः ।। 3.26.19 ।।
महाकपालस्य शिरश्चिच्छेद परमेषुभिः ।
असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् ।। 3.26.20 ।।
प्रतिजग्राहेत्युक्तं विवृणोति महाकपालस्येत्यादिना । प्रममाथ चूर्णीचकारेत्यर्थः ।। 3.26.20 ।।
स पपात हतो भूमौ विटपीव महाद्रुमः ।
स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ।। 3.26.21 ।।
दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात् ।
बाणौघैः पञ्चसाहस्रैरनयद्यमसादनम् ।। 3.26.22 ।।
दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान् ।
व्यदिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान् ।। 3.26.23 ।।
चूर्णशरीरत्वे दृष्टान्ततयोक्तं विटपीति ।। 3.26.2123 ।।
अयं विनिहतः सङ्ख्ये दूषणः सपदानुगः ।
महत्या सेनया सार्धं युध्वा रामं कुमानुषम् ।। 3.26.24 ।।
शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः ।
एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे ।। 3.26.25 ।।
अयमिति । हनध्वं घ्नत ।। 3.26.24,25 ।।
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः ।
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।। 3.26.26 ।।
मेघमाली महामाली सर्पास्यो रुधिराशनः ।
द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः ।। 3.26.27 ।।
राममेवाभ्यवर्तन्त विसृजन्तः शरोत्तमान् ।। 3.26.28 ।।
सेनाध्यक्षानेवाह श्येनगामीत्यादिना ।। 3.26.2628 ।।
ततः पावक सङ्काशैर्हेमवज्रविभूषितैः ।
जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ।। 3.26.29 ।।
तत इति । वज्रं वज्रमणिः । चेजस्वी राम इति शेषः ।। 3.26.29 ।।
ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः ।
निजध्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ।। 3.26.30 ।।
सधूमा इत्यनेन दहनोन्मुखत्वं व्यज्यत इत्यङ्गारावस्थाव्यावृत्तिः । वज्रा इवेति “वज्रमस्त्रियाम्” इत्युभयलिङ्गो वज्रशब्दः ।। 3.26.30 ।।
रक्षसां तु शतं रामः शतेनैकेन कर्णिना ।
सहस्रं च सहस्रेण जघान रणमूर्धनि ।। 3.26.31 ।।
रक्षसामिति । कर्णिना कर्णाकारशरीरेण ।। 3.26.31 ।।
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः ।
निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ।। 3.26.32 ।।
छिन्नं खण्डितम् । भिन्नं विदारितम् । आदिग्धाः आलिप्ताः ।। 3.26.32 ।।
तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः ।
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ।। 3.26.33 ।।
तैर्मुक्तेति रणाग्रपरतितत्वातिशयात्कुशसाम्योक्तिः ।। 3.26.33 ।।
क्षणेन तु महाघोरं वनं निहतराक्षसम् ।
बभूव निरयप्रख्यं मांसशोणितकर्दमम् ।। 3.26.34 ।।
निरयप्रख्यं नरकतुल्यम् । मांसशोणितैः कृतः कर्दमः पङ्को यस्य तत्तथा ।। 3.26.34 ।।
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ।
हतान्येकेन रामेण मानुषेण पदातिना ।। 3.26.35 ।।
मानुषेण ऋजुना । पदातिना वाहनरहितेनेत्यद्भुतोक्तिः ।। 3.26.35 ।।
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।
राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ।। 3.26.36 ।।
शेषा हता महासत्त्वा राक्षसा रणमूर्धनि ।
घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ।। 3.26.37 ।।
सैन्यस्य युद्धप्रवृत्तस्य अतो रामस्यापि तत्रान्तर्भावः । खरादित्रयं शेषः अवशिष्टांश इत्यर्थः । शेषाः सर्वे राक्षसा हता इत्यन्वयः । महासत्त्वा इत्यादिविशेषणैर्महारथा एव हताः, क्षुद्राः केचन भीरवो न हता इति गम्यते । अत एवोत्तरसर्गे हतशेषा इति वक्ष्यति । लक्ष्मणस्याग्रजेनेति रामस्य विष्ण्वर्धांशभाक्त्वेनाधिकबलत्वोक्तिः ।। 3.26.36,37 ।।
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा ।
रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः ।। 3.26.38 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षड्विंशः सर्गः ।। 26 ।।
भीमबलं भीमसैन्यम् । उद्यताशनिः उद्यतवज्रः ।। 3.26.38 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षड्विंशः सर्गः ।। 26 ।।