29 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनत्रिंशः सर्गः

खरं तु विरथं रामो गदापाणिमवस्थितम् ।

मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ।। 3.29.1 ।।

अहङ्कारस्य हीनस्य व्यक्तां शक्तिमिव स्थिताम् । गदां खरस्य निर्भिद्य राजन्तं राममाश्रये ।। सर्वसाधनवैकल्येन खरस्यानुकूल्यमपि भवेदिति तच्चित्तपरीक्षार्थमाह खरं त्वित्यादिना । मृदुपूर्वं न्यायावलम्बनेनोक्तम् । परुषं मर्मोद्घाटनरूपत्वात् ।। 3.29.1 ।।

गजाश्वरथसम्बाधे बले महति तिष्ठता ।

कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ।। 3.29.2 ।।

तिष्ठता अधिपतित्वेन तिष्ठतेत्यर्थः ।। 3.29.2 ।।

उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।

त्रयाणामपि लोकानामीश्वरो ऽपि न तिष्ठति ।। 3.29.3 ।।

मृदुपूर्वत्वसिद्धये लोकन्यायमाह उद्वेजनीय इति । उद्वेजनीयः उद्वेजकः । नृशंसो घातुकः एवंविधो लोकानामीश्वरोपि न तिष्ठति न जीवेत् किं पुनर्भवादृश इति भावः ।। 3.29.3 ।।

कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर ।

तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ।। 3.29.4 ।।

सर्वजन इति दयालुरपीति भावः ।। 3.29.4 ।।

लोभात् पापानि कुर्वाणः कामाद्वा यो न बुध्यते ।

भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ।। 3.29.5 ।।

लोभत् लब्धस्य त्यागासहिष्णुतया । कामात् अपूर्वलाभेच्छया न बुध्यते न पश्चात्तापं करोतीत्यर्थः । भ्रष्टः ऐश्वर्याद्भ्रष्टः । तस्य कर्मणः । अन्तं फलम् । पश्यति अनुभवति । कथमिव? करकात् ब्राह्मणीव करकाः वर्षोपलाः । “वर्षोपलस्तु करकः” इत्यमरः । तानत्तीति करकात् । ब्राह्मणी रक्तपुच्छिका । “ब्राह्मणी रक्तपुच्छिका” इति निघण्टुः । तस्यास्तद्भक्षणं विषभक्षणवन्मारकमिति प्रसिद्धिः । यथा ब्राह्मणी स्वमारकं कर्म स्वयमेव करोति तथा त्वमपीत्यर्थः ।। 3.29.5 ।।

वसतो दण्डकारण्ये तापसान् धर्मचारिणः ।

किन्नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ।। 3.29.6 ।।

किं पापं मया कृतमित्यत्राह वसत इति ।। 3.29.6 ।।

न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः ।

ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ।। 3.29.7 ।।

ननु तर्हि कथं पापिनो ऽपि बहवो जीवन्तीत्यत्राह न चिरमिति । केवलपापिनो जन्मान्तरे फलं भुञ्जते, क्रूरास्तु पुण्यलेशेन एश्वर्यं प्राप्यापि न चिरं तिष्ठन्ति, क्षिप्रमेव विनश्यन्तीत्यर्थः ।। 3.29.7 ।।

अवश्यं लभते जन्तुः फलं पापस्य कर्मणः ।

घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम् ।। 3.29.8 ।।

पापस्य कर्ता जन्तुः । काले प्राप्ते अवश्यं घोरं दुःखरूपं फलं लभते । ऋतुलक्षणे काले पर्यागते प्राप्ते आर्तवं तत्तदृतुप्राप्तं पुष्पमिव ।। 3.29.8 ।।

नचिरात् प्राप्यते लोके पापानां कर्मणां फलम् ।

सविषाणामिवान्नानां भुक्तानां क्षणदाचर ।। 3.29.9 ।।

नचिरादित्येकं पदम् । अविलम्बेनेत्यर्थः । अत्र पुरुष इति शेषः । पापानाम् अत्युत्कटानामित्यर्थः ।। 3.29.9 ।।

पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् ।

अहमासादितो राज्ञा प्राणान् हन्तु निशाचर ।। 3.29.10 ।।

एवं मृदुपूर्वमुक्त्वा परुषमाह पापमित्यादिना । आसादितः प्राप्तो ऽस्मि । आगमने हेतुमाह राज्ञेति ।। 3.29.10 ।।

अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः ।

विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ।। 3.29.11 ।।

मया मुक्ताः शराः त्वां विदार्य निपतिष्यन्ति प्रवेक्ष्यन्ति । यथा पन्नगाः सर्पाः वल्मीकं प्रविशन्ति । तथा ।। 3.29.11 ।।

ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः ।

तानद्य निहतः सङ्ख्ये ससैन्यो ऽनुगमिष्यसि ।। 3.29.12 ।।

ताननुगमिष्यसीति पापिनामपि समरे हतानां स्वर्गसम्भवादिति भावः ।। 3.29.12 ।।

अद्य त्वां पतितं बाणैः पश्यन्तु परमर्षयः ।

निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ।। 3.29.13 ।।

निरयस्थं नरकसदृशं दुःखं भूमौ पतित्वानुभवन्तमित्यर्थः ।। 3.29.13 ।।

प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम ।

अद्य ते पातयिष्यामि शिरस्तालफलं यथा ।। 3.29.14 ।।

एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः ।

प्रत्युवाच खरो रामं प्रहसन् क्रोधमूर्च्छितः ।। 3.29.15 ।।

तालफलं यथेत्यनेनानायासोक्तिः ।। 3.29.14,15 ।।

प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज ।

आत्मना कथमात्मानमप्रशस्यं प्रशंससि ।। 3.29.16 ।।

आत्मना स्वयमेव ।। 3.29.16 ।।

विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ।

कथयन्ति न ते किञ्चित्तेजसा स्वेन गर्विताः ।। 3.29.17 ।।

तेजसा प्रतापेन ।। 3.29.17 ।।

प्राकृतास्त्वकृतात्मानो लोके क्षत्ित्रयपांसनाः ।

निरर्थकं विकत्थन्ते यथा राम विकत्थसे ।। 3.29.18 ।।

प्राकृताः क्षुद्राः । अकृतात्मानः अप्रतिष्ठितधृतयः । क्षत्ित्रयपांसनाः क्षत्ित्रयाधमाः । निरर्थकं निष्प्रयोजनं यथा तथा विकत्थन्ते श्लाघन्ते ।। 3.29.18 ।।

कुलं व्यपदिशन् वीरः समरे को ऽभिधास्यति ।

मृत्युकाले हि सम्प्राप्ते स्वयमप्रस्तवे स्तवम् ।। 3.29.19 ।।

कुलं व्यपदिशन् आत्मनो महाकुलप्रसूतत्वं प्रकटयन् । को वीरः मृत्युकाले सम्प्राप्ते अप्रस्तवे अनवसरे स्वयं स्तवमभिधास्यतीत्यन्वयः ।। 3.29.19 ।।

सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् ।

सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ।। 3.29.20 ।।

“सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ।।” इति ते कत्थनेन लघुत्वमल्पत्वं सर्वथैव स्पष्टमेव विदर्शितम्। यथा तप्तेन अत एव सुवर्णसदृशेन कुशाग्निना कुशदर्भमाश्रितेनाग्निना लघुत्वं विदर्श्यते तद्वत्। यथा तृणाग्निः सुवर्णतुल्यतया भासमानोऽपि ज्वलन्नप्युत्तरकाले दाहकार्यकरो न भवति तथा कत्थनेन वीरवद्भासमानोऽपि पुरुषः उत्तरकाले लघुरेव भविष्यतीत्यर्थः। शीघ्रं ज्वलन् तृणाग्निः यथा सद्यः शान्तो न दग्धुमीष्टे तथा कत्थमानः पुरुषः स्वकत्थनानुरूपं कार्यं न करोतीति सिद्धमिति ।। 3.29.20 ।।

न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् ।

धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ।। 3.29.21 ।।

इह तव पुरतः । तिष्ठन्तं निश्चलतया स्थितम् । गदाधरं शत्रुरक्तोक्षितगदावन्तम् । मां सर्वनिर्वाहकं पर्वतमिवाकम्प्यं न पश्यसि, त एवैवं कत्थस इति भावः ।। 3.29.21 ।।

पर्याप्तो ऽहं गदापाणिर्हन्तुं प्राणान् रणे तव ।

त्रयाणामपि लोकानां पाशहस्त इवान्तकः ।। 3.29.22 ।।

गदापाणिरहं पाशहस्तो ऽन्तक इव तव त्रयाणां लोकानामपि प्राणान् हन्तुं पर्याप्तः समर्थ इति योजना ।। 3.29.22 ।।

कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् ।

अस्तं गच्छेद्धि सविता युद्धविघ्नस्ततो भवेत् ।। 3.29.23 ।।

त्वयि आत्मश्लाघिनि विषये । कामं यद्यपि बहु पारुष्यं वक्तव्यमस्ति तथापि तन्न वक्ष्यामि । कुतः? हि यस्मात् सविता अस्तं गच्छेत् । ततः अस्तमयेन युद्धविघ्नो भवेत् । यद्यपि स्वस्य रात्रिर्बलायैव तथापि रात्र्यशक्तमनुष्यवधे स्वस्य न कापि कीर्तिरिति खरहृदयम् ।। 3.29.23 ।।

चतुर्दश सहस्त्राणि राक्षसानां हतानि ते ।

त्वद्विनाशात् करोम्येष तेषामश्रुप्रमार्जनम् ।। 3.29.24 ।।

ते त्वया । एष इत्यव्यवधानोक्तिः । तेषां तद्बन्धूनामित्यर्थः । यद्वा तद्वधप्रतिक्रियां करिष्यामीत्यत्र हृदयम् ।। 3.29.24 ।।

[ततो रुधिरधाराभिस्त्वच्छरीरविमर्दनात् ।

करिष्यामि बलिं भूमौ त्वां हत्वा सर्वरक्षसाम् ।। ]

इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदः ।

खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ।। 3.29.25 ।।

परमाङ्गदः गदाप्रहारसामर्थ्यबिरुदयुक्त इत्यर्थः । अशनिं वज्रम् ।। 3.29.25 ।।

खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा ।

भस्म वृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः ।। 3.29.26 ।।

तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदाम् ।

अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ।। 3.29.27 ।।

भस्म कृत्वा तत्समीपमगादित्यन्वयः । समीपत इति सार्वविभक्तिकस्तसिः ।। 3.29.26,27 ।।

सा विकीर्णा शरैर्भग्ना पपात धरणीतले ।

गदा मन्त्रौषधबलैर्व्यालीव विनिपातिता ।। 3.29.28 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनत्रिंशः सर्गः ।। 29 ।।

व्याली पन्नगी ।। 3.29.28 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनत्रिंशः सर्गः ।। 29 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.