33 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयस्त्रिंशः सर्गः

ततः शूर्पणखा दीना रावणं लोकरावणम् ।

आमात्यमध्ये सङ्क्रुद्धा परुषं वाक्यमब्रवीत् ।। 3.33.1 ।।

अमर्यादो भृशं मूर्खो वध्यो यस्य निशाचरः । तमहं नीतिसम्पन्नं रघुनाथं समाश्रये ।। तत इति । दीना रामपरिभूतत्वात् । स्वपरिभवदर्शने ऽपि भ्रातुर्निश्चलतया सङ्क्रुद्धा ।। 3.33.1 ।।

प्रमत्तः कामभोगेषु स्वैरवृतो निरङ्कुशः ।

समुत्पन्नं भयं घोरं बोद्धव्यं नावबुद्ध्यसे ।। 3.33.2 ।।

कामभोगेषु स्वैरवृत्तः स्वतन्त्रः, सदा कामपरवश इत्यर्थः । निरङ्कुशः कामभोग एव निष्प्रतिबन्धः । घोरं भयं शृण्वतामपि भयङ्करमित्यर्थः । बोद्धव्यं चारमुखेनेति शेषः ।। 3.33.2 ।।

सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् ।

लुब्धं न बहुमन्यन्ते श्मशानाग्निमिव प्रजाः ।। 3.33.3 ।।

एवं कामवृत्तस्य सम्भावितां हानिं लोकरीत्या दर्शयति सक्तमित्यादिना । ग्राम्येषु मैथुनादिषु । कामवृत्तं यथेच्छव्यापारम् ।। 3.33.3 ।।

स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः ।

स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ।। 3.33.4 ।।

कार्याणि पालनादीनि ।। 3.33.4 ।।

अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् ।

वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः ।। 3.33.5 ।।

अयुक्तचारम् अनियोजितचारम् । दुर्दर्शम् उचितकाले सभायां प्रजादर्शनप्रदानरहितम् । अस्वाधीनं पत्न्यादिपरतन्त्रं परप्रत्ययनेयबुद्धिं वा । पङ्के ऽपि विशेषणद्वयं योज्यम् । अयुक्तश्चारो यस्मिन् स्वस्य सञ्चारकर्तुरधीनो न भवतीत्यर्थः ।। 3.33.5 ।।

ये न रक्षन्ति विषयमस्वाधीना नराधिपाः ।

ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ।। 3.33.6 ।।

विषयं स्वराज्यम् । वृद्ध्या वर्तमानयापीति शेषः ।। 3.33.6 ।।

आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः ।

अयुक्तचारश्चपलः कथं राजा भविष्यसि ।। 3.33.7 ।।

आत्मवद्भिः यत्नवद्भिः, त्वत्प्रतीकारदत्तावधानैरित्यर्थः । चपलः विषयचपलः ।। 3.33.7 ।।

त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस ।

ज्ञातव्यं तु न जानीषे कथं रजा भविष्यसि ।। 3.33.8 ।।

उक्तमेवार्थं पुनरपि प्रलपति रावणस्याग्रहोत्पादनाय त्वमित्यादिना । बालस्येव स्वभावो विवेकशून्यत्वं यस्य स तथा । बुद्धिहीनः विवेकहेतुर्बुद्धिः तया हीनः ।। 3.33.8 ।।

येषां चारश्च कोशश्च नयश्च जयतां वर ।

अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः ।। 3.33.9 ।।

स्वपरराष्ट्रकार्याकार्यज्ञापकश्चारः । कोशो धनसमृद्धिः । नयो नीतिः । प्राकृतैर्जनैः साधारणैर्जनैः ।। 3.33.9 ।।

यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान्नराधिपाः ।

चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ।। 3.33.10 ।।

चारप्रयोजनमाह यस्मादिति ।। 3.33.10 ।।

अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् ।

स्वजनं तु जनस्थानं हतं यो नावबिद्ध्यसे ।। 3.33.11 ।।

चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् ।

हतान्येकेन रामेण खरश्च सहदूषणः ।। 3.33.12 ।।

एवं लोकरीत्योक्तं रावणे उपसंहरति अयुक्तेत्यादिना । जनस्थानं जनस्थानस्थम् ।।

3.33.11,12 ।।

ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ।

धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा ।। 3.33.13 ।।

स्वजनवधादपि दुःसहं कार्यान्तरमाह ऋषीणामिति ।। 3.33.13 ।।

त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण ।

विषये स्वे समुत्पन्नं भयं यो नावबुद्ध्यसे ।। 3.33.14 ।।

लुब्धः चारादीनामभिमताप्रदाता ।। 3.33.14 ।।

तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् ।

व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ।। 3.33.15 ।।

तीक्ष्णं क्रूरम् । शठं गूढविप्रियकारिणम् । व्यसने व्यसनकाले । सर्वभूतानि भृत्यामात्यादीनि । नाभिधावन्ति तद्रक्षणाय न प्रवर्तन्ते ।। 3.33.15 ।।

अतिमानिनमग्राह्यमात्मसम्भावितं नरम् ।

क्रोधिनं व्यसने हन्ति स्वजनो ऽपि महीपतिम् ।। 3.33.16 ।।

अग्राह्यं सद्भिरिति शेषः । आत्मना स्वेनैव बहुमानं प्राप्तः सोयमात्मसम्भावितः तम् । क्रोधिनम् अस्थाने क्रोधवन्तम् । व्यसने व्यसनकाले । स्वजनो ऽपि अमात्यादिरपि ।। 3.33.16 ।।

नानुतिष्ठति कार्याणि भयेषु न बिभेति च ।

क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति ।। 3.33.17 ।।

शुष्कैः काष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः ।

न तु स्थानात् परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः ।। 3.33.18 ।।

भयेषु भयहेतुषु । न बिभेति साशङ्को न वर्तत इत्यर्थः ।। 3.33.17,18 ।।

उपभुक्तं यथा वासस्स्रजो वा मृदिता यथा ।

एवं राज्यात् परिभ्रष्टः समर्थो ऽपि निरर्थकः ।। 3.33.19 ।।

उपभुक्तवस्त्रादिदृष्टान्तः परेषामयोग्यत्वप्रदर्शनाय ।। 3.33.19 ।।

अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ।

कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ।। 3.33.20 ।।

चिरं तिष्ठत इत्यत्र आर्षमात्मनेपदम् ।। 3.33.20 ।।

नयनाभ्यां प्रसुप्तोपि जागर्ति नयचक्षुषा ।

व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ।। 3.33.21 ।।

जागार्ति अप्रमत्तो भवतीत्यर्थः ।। 3.33.21 ।।

त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः ।

यस्य ते ऽविदितश्चारै रक्षसां समुहान् वधः ।। 3.33.22 ।।

यस्य ते येन त्वया । अविदित इति छेदः ।। 3.33.22 ।।

परावमन्ता विषयेषु सङ्गतो नदेशकालप्रविभागतत्त्ववित् ।

अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो न चिराद्विपत्स्यसे ।। 3.33.23 ।।

इति स्वदोषान् परिकीर्तितांस्तया समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः ।

धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः ।। 3.33.24 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयस्त्रिंशः सर्गः ।। 33 ।।

सर्गार्थमेकेन सङ्गृह्णाति परेति । परावमन्ता शत्रुषु उपेक्षावान् । विषयेषु शब्दादिषु । सङ्गतः सङ्गवान् । नदेशकालप्रविभागतत्त्वविदित्येकं पदम् । नगनैकादिवन्न समासः । देशकालभेदातत्त्वज्ञ इत्यर्थः । गुणदोषनिश्चये विषये अयुक्तबुद्धिः अनियोजितबुद्धिः, अप्रवृत्तबुद्धिरित्यर्थः । न चिरात् क्षिप्रम् । विपत्स्यसे आपदं प्राप्स्यसीत्यर्थः । त्वमिति शेषः ।। 3.33.23,24 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ।। 33 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.