36 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्त्रिंषः सर्गः

मारीच श्रूयतां तात वचनं मम भाषतः ।

आर्तो ऽस्मि मम चार्तस्य भावन् हि परमा गतिः ।। 3.36.1 ।।

महासमरमध्ये ऽपि गाम्भीर्यं यस्य निश्चलम् । तमहं शिरसा वन्दे जानकीप्राणवल्लभम् ।। मारीचेत्यादि । भाषतः भाषमाणस्य ।। 3.36.1 ।।

जानीषे त्वं जनस्थाने यथा भ्राता खरो मम ।

दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ।। 3.36.2 ।।

त्रिशिराश्च महातेजा राक्षसः पिशिताशनः ।

अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ।। 3.36.3 ।।

वसन्ति मन्नियोगेन नित्यवासं च राक्षसाः ।

बाधमाना माहरण्ये मुनीन् वै धर्मचारिणः ।। 3.36.4 ।।

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।

शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ।। 3.36.5 ।।

कर्तव्यं वक्ष्यन् पूर्ववृत्तं स्मारयति जानीष इत्यादिना, अनुवर्तिनामित्यन्तमेकं वाक्यम् । खरादयश्चतुर्दशसहस्रराक्षसान्ताः जनस्थाने नित्यवासं यथा तथा वसन्तीति जानीष इत्यन्वयः । रतिवासमिति पाठे रत्या प्रीत्या वासो यस्मिन् कर्मणि तत्तथा ।। 3.36.25 ।।

ते त्विदानीं जनस्थाने वसमाना महाबलाः ।

सङ्गताः परमायत्ता रामेण सह संयुगे ।

नानाप्रहरणोपेताः खरप्रमुखराक्षसाः ।। 3.36.6 ।।

ते त्विति । वसमानाः । ताच्छील्ये शानच् । संयुगे रामेण सह सङ्गताः रामेण सह युद्धमकुर्वन्नित्यर्थः । परम् अत्यन्तम् । आयात्ताः सन्नद्धाः । प्रहरणं आयुधम् ।। 3.36.6 ।।

तेन सञ्जातरोषेण रामेण रणमूर्द्धनि ।

अनुक्त्वा परुषं किञ्चिच्छरैर्व्यापारितं धनुः ।। 3.36.7 ।।

चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् ।

निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना ।। 3.36.8 ।।

खरश्च निहतः सङ्ख्ये दूषणश्च निपातितः ।

हतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः ।। 3.36.9 ।।

पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ।

स हन्ता तस्य सैन्यस्य रामः क्षत्ित्रयपांसनः ।। 3.36.10 ।।

तेनेति । अनुक्त्वा परुषं किञ्चिदित्यनेन गाम्भीर्यं विवक्ष्यते । व्यापारितं सन्धानमोक्षणव्यापारविशिष्टं कृतम् । सङ्ख्ये युद्धे । “युद्धमायोधनम्” इत्यारभ्य “मृधमास्कन्दनं सङ्ख्यम्” इत्यमरः ।। 3.36.710 ।।

दुःशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धो ऽजितेन्द्रियः ।

त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः ।। 3.36.11 ।।

कर्कशः कठिनहृदयः ।। 3.36.11 ।।

येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम् ।

कर्णनासापहरणाद्भगिनी मे विरुरिता ।। 3.36.12 ।।

तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम् ।

आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ।। 3.36.13 ।।

सत्त्वं बलं केवलमाश्रित्य न तु धर्ममित्यर्थः । “सत्त्वं बले च जन्तौ च” इति विश्वः । आनयिष्यामि आनेष्यामि । इडार्षः ।। 3.36.12,13 ।।

त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल ।

भ्रातृभिश्च सुरान् युद्धे समग्रान्नाभिचिन्तये ।। 3.36.14 ।।

तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षम ।

वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव ।। 3.36.15 ।।

उपायज्ञो महान् शूरः सर्वमायाविशारदः ।

एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ।। 3.36.16 ।।

भ्रातृभिः कुम्भकर्णादिभिः । समग्रान् सम्पूर्णान् । नाभिचिन्तये न गणयामि ।। 3.36.1416 ।।

शृणु तत् कर्म साहाय्ये यत्कार्यं वचनान्मम ।। 3.36.17 ।।

शृणु तत् कर्मेत्यत्र तदिति भिन्नं पदम् । प्रकृते कार्यसाहाय्ये यत्कर्म कार्यं कर्तव्यं तन्मम वचनाच्छृण्विति सम्बन्धः ।। 3.36.17 ।।

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।

आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।। 3.36.18 ।।

प्रमुखे अग्रे ।। 3.36.18 ।।

त्वां तु निस्संशयं सीता दृष्ट्वा तु मृगरूपिणम् ।

गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ।। 3.36.19 ।।

गृह्यतामिति अयमिति शेषः ।। 3.36.19 ।।

ततस्तयोरपाये तु शून्ये सीतां यथासुखम् ।

निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ।। 3.36.20 ।।

तयोः रामलक्ष्मणयोः । अपाये अपगमे सति शून्ये प्रदेशे । निराबाधः अप्रतिबन्धः ।। 3.36.20 ।।

ततः पश्चात्सुखं रामे भार्याहरणकर्शिते ।

विश्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना ।। 3.36.21 ।।

विश्रब्धः निश्शङ्कः । अन्तरात्मना अन्तस्स्थधैर्येण ।। 3.36.21 ।।

तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः ।

शष्कं समभवद्वक्त्रं परित्रस्तो बभूव सः ।। 3.36.22 ।।

सः मारीचः रामकथां श्रुत्वा परित्रस्तो बभूव । तेन त्रासेन तस्य वक्रं शुष्कं समभवदित्यन्वयः ।। 3.36.22 ।।

ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिषैरिव ।

मृतभूत इवार्तस्तु रावणं समुदैक्षत ।। 3.36.23 ।।

भयकार्यान्तरमाह ओष्ठाविति । शुष्कौ ओष्ठौ परिलिहन् सः । अनिमिषैः निमेषरहितैः नैत्रैः नेत्रव्यापारैः । मृतभूत इव मृतजन्तुरिवार्तः सन् रावणं समुदैक्षत ।। 3.36.23 ।।

स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः ।

कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च ।। 3.36.24 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्त्रिंषः सर्गः ।। 36 ।।

उत्तरसर्गार्थं सङ्गृह्णाति स इति । त्रस्तविषण्णचेताः भीतदुःखितमनाः । तत्र हेतुः रामपराक्रमज्ञ इति । पूर्वं दण्डकारण्ये यो रामपराक्रम आसीत् तज्ज्ञ इत्यर्थः । तस्मै रावणाय । हितम् अनपायम् । “हितयोगे च” इति वार्तिकेन चतुर्थी ।। 3.36.24 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्त्रिंशः सर्गः ।। 36 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.