41 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकचत्वारिंशः सर्गः

आज्ञप्तो ऽराजवद्वाक्यं प्रतिकूलं निशाचरः ।

अब्रवीत् परुषं वाक्यं मरीचो राक्षसाधिपम् ।। 3.41.1 ।।

येन सर्वात्मना वर्ज्यं प्रातिकूल्यं हितैषिणाम् । सर्वलोकानुकूलं तमाश्रये रघुनायकम् ।। आज्ञप्त इत्यादि । अराजवत् यदा रामप्रातिकूल्ये प्रवृत्तस्तदैव राजत्वं गतमिति मुनेराशयः । यद्वा राजवत् राजार्हं “तदर्हम्” इत्यर्हार्थं वतिः । यद्वा राजवदिति पूर्वसर्गोक्तमौद्धत्यं लक्ष्यते । वाक्यं वाक्यार्थानुष्ठानं मृगरूपमासाद्य त्वया गन्तव्यमित्येवंरूपं प्रतीत्यर्थः । यद्वा प्रतिकूलं वाक्यम् आज्ञप्तः चोदितः उक्त इत्यर्थः ।। 3.41.1 ।।

केनायमुपदिष्टस्ते विनाशः पापकर्मणा ।

सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ।। 3.41.2 ।।

विनाशः विनाशोपायः ।। 3.41.2 ।।

कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत् ।

केनेदमुपदिष्टं ते मुत्युद्वारमुपायतः ।। 3.41.3 ।।

सुखिना त्वया, अवस्थानमिति शेषः । मृत्युद्वारं मृत्युद्वारतुल्यमिदं कार्यम् । उपायतः व्याजेन ।। 3.41.3 ।।

शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचराः ।

इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ।। 3.41.4 ।।

बलीयसा रामेण । उपरुद्धम् आक्रान्तम् । अत एव विनश्यन्तं त्वामिच्छन्ति त्वद्विनाशं रामविरोधमुखेनेच्छन्तीत्यर्थः ।। 3.41.4 ।।

केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना ।

यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर ।। 3.41.5 ।।

न केवलं शत्रवः तत्रापि क्षुद्रा एवेदं कार्यमिच्छन्तीत्याह केनेति । स्वकृतेन त्वत्कृताकृत्येन ।। 3.41.5 ।।

वध्याः खलु न हन्यन्ते सचिवास्तव रावण ।

ये त्वामुत्पथमारुढं न निगृङ्णन्ति सर्वशः ।। 3.41.6 ।।

ये उत्पथं लोकशास्त्रविरुद्धमार्गम् । आरूढं प्रविष्टं त्वां न निगृह्णन्ति तस्मान्मार्गान्न निवर्तयन्ति ते सचिवाः वध्याः वधार्हाः ।। 3.41.6 ।।

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।

निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ।। 3.41.7 ।।

एतदुपयुक्तत्वेन सचिवकर्तव्यं दर्शयन् प्रकृते तदभावं चतुर्थपादेनाह अमात्यैरिति । कापथं कुमार्गम् । निग्राह्यः निवर्तनीयः ।। 3.41.7 ।।

धर्ममर्थं च कामं च यशश्च जयतां वर ।

स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ।। 3.41.8 ।।

स्वामिप्रसादात् स्वामिनः प्रसन्नभावात्, स्वामिसाद्गुण्यादित्यर्थः ।। 3.41.8 ।।

विपर्यये तु तत्सर्वं व्यर्थं भवति रावण ।

व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ।। 3.41.9 ।।

विपर्यये स्वामिवैगुण्ये । स्वामिवैगुण्यान्न केवलममात्या एव नश्यन्ति किन्तु तदितरे ऽपि जना इत्याह व्यसनमिति ।। 3.41.9 ।।

राजमूलो हि धर्मश्च जयश्च जयतां वर ।

तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः ।। 3.41.10 ।।

उक्तमर्थमुपसंहरति तस्मादिति ।। 3.41.10 ।।

राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर ।

न चापि प्रतिकूलेन नाविनीतेन राक्षस ।। 3.41.11 ।।

तीक्ष्णेन क्रूरदण्डेन । प्रतिकूलेन प्रजाविरुद्धेन । अविनीतेन इन्द्रियजयरहितेन । “विनयो हीन्द्रियजयः” इति कामन्दकः ।। 3.41.11 ।।

ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै ।

विषमे तुरगाः शीघ्रा मन्दसारथयो यथा ।। 3.41.12 ।।

तीक्ष्णमन्त्राः तीक्ष्णोपायप्रयोक्तारः । तेन स्वमन्त्रग्राहिणा राज्ञा सह । विषमे निम्नोन्नतप्रदेशे । शीघ्रगास्तुरगाः मन्दसारथयः अपटुसारथयः सन्तः । यथा सारथिना सह नश्यन्ति नथेत्यर्थः ।। 3.41.12 ।।

बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः ।

परेषामपराधेन विनष्टाः सपरिच्छदाः ।। 3.41.13 ।।

उत्तरश्लोके वक्ष्यमाणस्य सामान्यन्यायं दर्शयति बहव इति । साधवो धर्मज्ञाः । युक्ताः नीतिमार्गनिष्ठाः । धर्मम् अनुष्ठिताः अनुष्ठितवन्तः । “गत्यर्थाकर्मक” इत्यादिना कर्तरिक्तः । सपरिच्छदाः सपरिवाराः ।। 3.41.13 ।।

स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण ।

रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ।। 3.41.14 ।।

गोमायुना क्रोष्ट्रा । स हि मेषघातुक इति प्रसिद्धिः ।। 3.41.14 ।।

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ।

येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ।। 3.41.15 ।।

कर्कशः क्रूरबुद्धिः ।। 3.41.15 ।।

तदिदं काकतालीयं घोरमासादितं मया ।

अत्रैव शोचनीयस्त्वं ससैन्यो विनशिष्यसि ।। 3.41.16 ।।

काकतालीयं यादृच्छिकम् । घोरं भयङ्करमिदं कृत्यं मया आसादितं ततो नाहं शोच्यः, नहि प्रमादविपन्नः शोच्य इति भावः । यद्वा ससैन्यस्त्वं विनशिष्यसीत्यत्रैव कृत्ये त्वं मे शोचनीयः बुद्धिपूर्वकारी त्वमेव हि शोच्य इति भावः । यद्वा ससैन्यो विनशिष्यसीति यत् तदिदं काकतालीयं घोरं कार्यं त्वया आसादितम् । अत्रैव मया त्वं शोचनीयः । हन्त दैवान्महाननर्थो राज्ञ उपस्थित इति शोचामीत्यर्थः ।। 3.41.16 ।।

मां निहत्य तु रामश्च नचिरात्त्वां वधिष्यति ।

अनेन कृतकृत्यो ऽस्मि म्रिये यदरिणा हतः ।। 3.41.17 ।।

दर्शनादेव रामस्य हतं मामुपधारय ।

आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ।। 3.41.18 ।।

आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया ।

नैव त्वमसि नाहं च नैव लङ्का न राक्षसाः ।। 3.41.19 ।।

त्वयि विद्यमाने मम का हानिरित्यत्राह मामिति । नचिरात् क्षणेनैव । अहं न शोयनीय इत्यत्र हेतुमाह अनेनेति । तवारिणा रामेण हतो म्रिये इति यत् अनेन हेतुना कृतकृत्यो ऽस्मि । विश्वामित्रयागसंरक्षणप्रभृतिखरादिवधान्तातिमानुषचारित्रानुस्मृतिकृतासाधारणमहिमस्फूर्त्या राघवं परमपुरुषं निश्चितवतो मम तत्करप्रापितमरणस्य परमपुरुषार्थत्वादिति भावः । तथोक्तं नृसिंहपुराणे “रामादपि हि मर्तव्यं मर्तव्यं रावणादपि । उभयोरपि मर्तव्ये वरं रामान्न रावणात् ।।” इति। यद्वा त्वत्तो निरुपाधिकवधाच्छत्रुहस्ताद्वधो निःश्रेयसकर इति भावः ।। 3.41.1719 ।।

निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर ।

परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ।। 3.41.20 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकचत्वारिंशः सर्गः ।। 41 ।।

उक्तमर्थं न्यायप्रदर्शनेन प्रतिपादयति निवार्यमाण इति । हिर्हेतौ । यस्मात् गतायुषो नराः हितं न गृह्णन्ति तस्माद्वाक्यमिदं न मृष्यसे न सहसे, गतायुष्कत्वाद्धितं न गृह्णासीत्यर्थः । परेतकल्पाः आसन्नमरणाः । ईषदसमाप्तौ कल्पप्प्रत्ययः ।। 3.41.20 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकचत्वारिंशः सर्गः ।। 41 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.