42 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विचत्वारिंशः सर्गः

एवमुक्त्वा तु वचनं मारीचो रावणं ततः ।

गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिञ्चरप्रभोः ।। 3.42.1 ।।

क्षणं क्षणार्धमपि वा वियोगो यस्य दुःखदः । तमहं शिरसा वन्दे जानकीप्राणवल्लभम् ।। एवमित्यादि । भयात् रावणादधुनैव वधो भविष्यतीति भयात् ।। 3.42.1 ।।

दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा ।

मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे ।। 3.42.2 ।।

दीन इत्युक्तं दौस्थ्यमुपपादयति दृष्ट इत्यादिना । यद्यहं तेन दृष्टः मे जीवितं विनष्टमित्यन्वयः ।। 3.42.2 ।।

नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते ।

वर्तते प्रतिरूपो ऽसौ यमदण्डहतस्य ते ।। 3.42.3 ।।

किन्नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि ।

एष गच्छाम्यहं तात स्वस्ति ते ऽस्तु निशाचर ।। 3.42.4 ।।

यमदण्डहतस्य ते प्रतिरूपः सदृशः असौ जनो वर्तते त्वमिवाहमपि यमदण्डहत इत्यर्थः ।। 3.42.3,4 ।।

प्रहृष्टस्त्वभवत्तेन वचनेन स रावणः ।

परिष्वज्य सुसंश्लेष्यमिदं वचनमब्रवीत् ।। 3.42.5 ।।

सुसंश्लिष्टं दृढम् ।। 3.42.5 ।।

एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम् ।

इदानीमसि मारीचः पूर्वमन्यो निशाचरः ।। 3.42.6 ।।

शौण्डीर्यं वीरत्वम् । “कृशृपृकटिपटिशौण्डिभ्य ईरन्” इत्यौणादिकसूत्रेण “शौडि गर्व” इत्यस्मादीरन् प्रत्ययः । “शौण्डीरो वीरः” इति वृत्तिकारः । “शोण्डीरस्त्यागिवीरयोः” इति निघण्टुः । तत्कर्म तद्भावो वा शोण्डीर्यं गुणवचनत्वात् ष्यञ् । शोण्डीर्ययुक्तमेतत्ते भाषितं मच्छन्दादिव मदभिप्रायादिव भाषितं मत्सदृशं भाषितमित्यर्थः । पूर्वमन्यो यः कश्चन निशाचरो ऽसि विक्लवभाषणात् इदानीं मारीचो ऽसि मारीच इति लोकप्रसिद्धनामधेयानुरूपव्यापारो ऽसि स्वप्रकृतिं प्राप्तो ऽसीत्यर्थः ।। 3.42.6 ।।

आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः ।

मया सह तथा युक्तः पिशाचवदनैः खरैः ।। 3.42.7 ।।

प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ।

तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ।। 3.42.8 ।।

तथेति समुच्चये । खरैर्युक्तो रत्नविभूषितश्चेत्यर्थः ।। 3.42.7,8 ।।

ततो रावणमारीचौ विमानमिव तं रथम् ।

आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात् ।। 3.42.9 ।।

तस्मात् मारीचीयात् ।। 3.42.9 ।।

तथैव तत्र पश्यन्तौ पत्तनानि वनानि च ।

गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च ।। 3.42.10 ।।

समेत्य दण्डकारण्य राघवस्याश्रमं ततः ।

ददर्श सहमारीचो रावणो राक्षसाधिपः ।। 3.42.11 ।।

तथैव रथारूढावेव । सहैव स्थितावित्यर्थः । पत्तनानि नगरविशेषान् । नगाः वृक्षाः सन्त्येष्विति नगराणि, उद्यानाकीर्णपुराणीत्यर्थः । “नगपांसुपाण्डुभ्यश्च” इति मत्वर्थीयो रप्रत्ययः । नगरपत्तनादि लक्ष्णमुक्तं वास्तुशास्त्रे “ग्रामश्च नगरं चैव पत्तनं खर्वटं पुरम् । खेटकं कुसुमं चैव शिबिरं राजवासिकम् । सैनामुखमिति त्वेवं दशधा कीर्तितं बुधैः । विप्राणां च सभृत्यानां वासो ग्राम इतीरितः । स एव विप्रैराकीर्णस्त्वग्रहार इति स्मृतः । कुटुम्बिभेदैरेकोनत्रिंशद्भिश्च समन्वितः । अनेकनारीसम्बद्धं नानाशिल्पिजनैर्वृतम् । क्रयविक्रयकैः कीर्णं सर्वदेवैः समन्वितम् । नगरं त्विति विख्यातं पत्तनं शृणु साम्प्रतम् । द्वीपान्तरागतद्रव्यक्रयविक्रयकैर्युतम् । पत्तनं त्वब्धितीरे स्यात्तयोर्मिश्रं तु खर्वटम् । क्रयविक्रयकैर्युक्तं नानाजातिसमन्वितम् । तन्तुवायसमायुक्तं तत्पुरं त्विति कथ्यते । एतैरधिष्ठितं यत्तत् खेटकं परिकीर्तितम् । तेषामेकान्तरेष्वेव वासः कुसुममुच्यते ।” इत्यादिना ।। 3.42.10,11 ।।

अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात् ।

हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ।। 3.42.12 ।।

हस्ते गृहीत्वेत्यनेनावश्यकत्वं द्योत्यते ।। 3.42.12 ।।

एतद्रामाश्रमपदं दृश्यते कदली वृतम् ।

क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः ।। 3.42.13 ।।

स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा ।

मृगो भूत्वा ऽ ऽश्रमद्वारि रामस्य विचचार ह ।। 3.42.14 ।।

यदर्थं यत्कार्यार्थम् । तत् कार्यं क्रियताम् आगमप्रयोजननिर्वाहकं मृगरूपं भजस्वेत्यर्थः ।। 3.42.13,14 ।।

स तु रूपं समास्थाय महदद्भुतदर्शनम् ।

मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः ।। 3.42.15 ।।

सङ्ग्रहेणोक्तं विवृणोति स त्वित्यादिना । अद्भुतं विस्मयावहं दर्शनं यस्य तत्तथा । मणिप्रवरः इन्द्रनीलः तत्तुल्ये शृङ्गाग्रे यस्य स तथा । क्वचित्सिता क्वचिदसिता च मुखस्याकृतिः शोभारेखा यस्य । “वर्णो वर्णेन” इति समानाधिकरणसमासः । अवयवद्वारेण सितासितश्ब्दौ समुदाये वर्तमानौ समानाधिकरणौ भवतः ।। 3.42.15 ।।

रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः ।

किञ्चिदभ्युन्नतग्रीव इन्द्रनीलदलाधरः ।। 3.42.16 ।।

रक्तपद्मोत्पलमुखः मुखपुटयोरेको रक्तपद्मवर्णः अन्यस्तूत्पलवर्ण इत्यर्थः । इन्द्रनीलोत्पलश्रवाः श्रवसोरिन्द्रनीलसादृश्यं नीलभास्वररूपेण उत्पलसादृश्यं रूपेण इन्द्रनीलदलवदधरो यस्य स तथा ।। 3.42.16 ।।

कुन्देन्दुवज्रसङ्काशमुदरं चास्य भास्वरम् ।

मधूकनिभपार्श्वश्च पद्मकिञ्जल्कसन्निभः ।। 3.42.17 ।।

कुन्देति । अस्य मृगरूपस्य कुन्देन्दुवज्रसङ्काशमुदरमासीत् तस्मात्तादृशोदर इति विपरिणमयितव्यम् । अन्यथा पूर्वापरविरोधः । मधूकनिभपार्श्वः गुडपुष्पतुल्यवर्णैकपार्श्वः, पार्श्वान्तरे हेमवर्णस्य वक्ष्यमाणत्वात् । पद्मकिञ्जल्कसन्निभः उक्तावयवव्यतिरिक्तपृष्ठसर्वप्रदेशे पद्मकेसरवर्णः ।। 3.42.17 ।।

वैडूर्यसङ्काशखुरस्तनुजङ्घः सुसंहतः ।

इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजता ।। 3.42.18 ।।

मनोहरः स्निग्धवर्णो रत्नैर्नानाविधैर्वृतः ।

क्षणेन राक्षसो जातो मृगः परमशोभनः ।

वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् ।। 3.42.19 ।।

सुसंहतः सुश्लिष्टसन्धिबन्धः । ऊर्ध्वं पुच्छोर्ध्वपार्श्वः, इन्द्रायुधसवर्णेन इन्द्रधनुर्वन्नानावर्णेन पुच्छेनोपलक्षितः । स्निग्धवर्ण इति पूर्वोक्तसर्ववर्णानां स्निग्धत्वं विशेषणम् । रत्नैः रत्नाकारबिन्दुभिः । उपसंहरति क्षणेनेति । प्रज्वलयन् प्रकाशयन् मृगो जात इति पूर्वेणान्वयः ।। 3.42.18,19 ।।

मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ।

प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् ।। 3.42.20 ।।

विचरन् गच्छते तस्माच्छाद्वलानि समन्ततः ।। 3.42.21 ।।

मनोहरमित्यदिसार्धश्लोक एकान्वयः । धातुर्वर्णः । शाद्वलानि शादाः बालतृणानि । “शादो जम्बालशष्पयोः” इत्यमरः । तद्वन्ति स्थलानि शाद्वलानि । “नडशादाड् ड्वलच्” इति ड्वलच् प्रत्ययः । विचरन् भक्षयन् । “चर गतिभक्षणयोः” । गच्छते गच्छति ।। 3.42.20,21 ।।

रूप्यैर्बिन्दुशतैश्चित्रो भूत्वा स प्रियदर्शनः ।

विटपीनां किसलयान् भङ्क्त्वा ऽदन् विचचार ह ।। 3.42.22 ।।

विटपीनामिति दीर्घश्छान्दसः । किसलयान् पल्लवान् । पुँल्लिङ्गत्वमार्षम् ।। 3.42.22 ।।

कदलीगृहकं गत्वा कर्णिकारानितस्ततः ।

समाश्रयन्मन्दगतिः सीतासन्दर्शनं तथा ।। 3.42.23 ।।

कदलीगृहकं कृत्रिमकदलीमयगृहम् । तदनन्तरं कर्णिकारान् गत्वा ततः सीता सन्दृश्यते ऽस्मिन्निति सीतासन्दर्शनम् । अधिकरणे ल्युट् । सीतासन्दर्शनयोग्यस्थानमित्यर्थः । तथेति समुच्चये । तदपि गत्वा मन्दगतिः सन् इतस्ततः समाश्रयत् ।। 3.42.23 ।।

राजीवचित्रपृष्ठः स विरराज महागृगः ।

रामाश्रमपदाभ्याशे विचचार यथासुखम् ।। 3.42.24 ।।

रीजीवचित्रपृष्ठः राजीवकेसरवदाश्चर्यकरपृष्ठदेशः । चित्रत्वं पूर्वस्माद्विशेषः । रामाश्रमपदाभ्याशे रामाश्रमस्थानसपीपे ।। 3.42.24 ।।

पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः ।

गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते ।। 3.42.25 ।।

पुनर्गत्वेति पुनर्निवृत्तश्चेत्यन्वयः । निवृत्य गमनमुक्त्वा गत्वा निवर्तनमाह गत्वेति ।। 3.42.25 ।।

विक्रीडंश्च क्वचिद्भूमौ पुनरेव निषीदति ।

आश्रमद्वारमागम्य मृगयूथानि गच्छति ।। 3.42.26 ।।

एवं गमनागमनाभ्यां विक्रीडन् सन् पुनः क्वचित्तूष्णीं निषीदति ।। 3.42.26 ।।

मृगयूथैरनुगतः पुनरेव निवर्तते ।

सीतादर्शनमाकाङ्क्षन् राक्षसो मृगतां गतः ।

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ।। 3.42.27 ।।

विनिष्पतन् सञ्चरन् ।। 3.42.27 ।।

समुद्वीक्ष्य च तं सर्वे मृगा ह्यन्ये वनेचराः ।

उपागम्य समाघ्राय विद्रवन्ति दिशो दश ।। 3.42.28 ।।

समाघ्रायेति घ्राणेन विशेषं जानन्ति तिर्यञ्च इति प्रिसिद्धिः ।। 3.42.28 ।।

राक्षमः सो ऽपि तान्वन्यान् मृगान् मृगवधे रतः ।

प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ।। 3.42.29 ।।

भावस्य क्रौर्यस्य । प्रच्छादनार्थं मृगवधे रतो ऽपि मृगान्न भक्षयति किन्तु संस्पृशन्नास्ते ।। 3.42.29 ।।

तस्मिन्नेव ततः काले वैदेही शुभलोचना ।

कुसुमापचयव्यग्रा पादपानभ्यवर्तत ।। 3.42.30 ।।

ततः आश्रमादभ्यवर्ततेत्यन्वयः ।। 3.42.30 ।।

कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा ।

कुसुमान्यपचिन्वन्ती चचार रुचिरानना ।। 3.42.31 ।।

मदिरम् आनन्दजनकम् ईक्षणं यस्याः सा मदिरेक्षणा । अनेन रुचिराननेत्यनेन च वक्ष्यमाणकार्योपयोग्युल्लसो द्योत्यते ।। 3.42.31 ।।

अनर्हा ऽरण्यवासस्य सा तं रत्नमयं मृगम् ।

मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ।। 3.42.32 ।।

अरण्यवासस्यानर्हेत्यनेन सन्निहितव्रतसमाप्तिकालत्वकथनान्मृगग्रहणत्वरातिशयो द्योत्यते । रत्नमयं श्रेष्ठभूतम् । स्वार्थे मयट् । “रत्नं स्वजातौ श्रेष्ठे ऽपि” इत्यमरः । मुक्तामामणिशब्देन तत्तुल्यबिन्दुमत्त्वमुक्तम् ।। 3.42.32 ।।

सा तं रुचिरदन्तोष्ठी रूप्यधातुतनूरुहम् ।

विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ।। 3.42.33 ।।

रुचिरदन्तोष्ठीत्यनेन कुतुकानुभाव उक्तः । रूप्यं रजतम् धातवः ताम्रगैरिकादयः तत्तुल्यतनूरुहम् । “तनूरुहं रोम लोम” इत्यमरः ।। 3.42.33 ।।

स च तां रामदयितां पश्यन् मायामयो मृगः ।

विचचार पुनश्चित्रं दीपयन्निव तद्वनम् ।। 3.42.34 ।।

अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम् ।

विस्मयं परमं सीता जगाम जनकात्मजा ।। 3.42.35 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विचत्वारिंशः सर्गः ।। 42 ।।

स इति । दीपयन् प्रकाशयन् ।। 3.42.34,35 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ।। 42 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.