50 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चाशः सर्गः

तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे ।

निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ।। 3.50.1 ।।

अथ स्वामिविषये दासेन यावच्छक्ति शेषवृत्तिरवश्य कर्तव्येत्यमुमर्थं लोके प्रवर्तयितुं जटायुवृत्तान्तमुपक्षिपति सर्गद्वयेन । अत्र प्रथमं जटायुः सान्त्वनभर्त्सनाभ्यां रावणमनुकूलयितुमिच्छतीत्याह तं शब्दमित्यादि । अवसुप्तः ईषत्सुप्तो जटायुः । अथ सीतावचनानन्तरम् । तं शब्दं शुश्रुवे । आत्मनेपदमार्षम् । ततः प्रथमं महाशरीरतया रावणं निरीक्ष्य सः वैदहीं ददर्श ।। 3.50.1 ।।

ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः ।

वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् ।। 3.50.2 ।।

तीक्ष्णतुण्डः तीक्ष्णमुखः । “वक्त्रास्ये वदनं तुण्डम्” इत्यमरः । श्रीमान् कैङ्कर्यश्रीसमृद्धः । शुभां रावणस्य शोभनावहाम् ।। 3.50.2 ।।

दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः ।

जटायुर्नाम नाम्ना ऽहं गृध्रराजो महाबलः ।। 3.50.3 ।।

पुराणे सनातने धर्मे, दास्यवृत्तावित्यर्थः । स्थितः तदेकपरायणः । सत्यम् “सत्यं ज्ञानमनन्तं ब्रह्म” इत्युक्तः परमात्मा सश्रयः आलम्बनं यस्य सः । भगवदेकोपायनिष्ठ इत्यर्थः । नाम्ना जटायुर्नाम जटायुरिति प्रसिद्धः । तथा च मयि दासे स्थिते तव सीतापहरणं न युक्तमिति भावः ।। 3.50.3 ।।

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।

लोकानां च हिते युक्तो रामो दशरथात्मजः ।। 3.50.4 ।।

स्वस्वरूपमुक्त्वा स्वामिस्वरूपमाह राजेति । महेन्द्रवरुणोपमत्वमेकदेशसाम्यात् । सर्वलोकस्य राजा स्वामी, भवतो ऽपि स्वामीत्यर्थः ।। 3.50.4 ।।

तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ।

सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि ।। 3.50.5 ।।

तथा च राजदारापहारो न युक्त इत्याह तस्येति । सहधर्मचारिणीति धर्मपत्नीशब्दार्थः ।। 3.50.5 ।।

कथं राजा स्थितो धर्मे परदारान् परामृशेत् ।

रक्षणीया विशेषेण राजदारा महाबल ।। 3.50.6 ।।

मा भूत्तव रामे स्वामित्वबुद्धिः, मनुष्यमात्रबुद्धिं राजाबुद्धिं वा कृत्वा सीतां परिहरेत्याह कथमिति । राजा भवानिति शेषः ।। 3.50.6 ।।

निवर्तय मतिं नीचां परदाराभिमर्शनात् ।

न तत् समाचरेद्धीरो यत्परो ऽस्य विगर्हयेत् ।।

यथात्मनस्तथान्येषां दारा रक्ष्या विपश्चिता ।। 3.50.7 ।।

राजत्वबुद्धिस्तव रामे मा भूत् तथापि परदाराभिमर्शनं न कार्यमित्याह निवर्तयेति । परदाराभिमर्शनान्मतिं निवर्तय तद्विषयमतिं न कुर्वित्यर्थः । नीचत्वमेवाह नेति । धीरः धीमान् तत्कर्म न समाचरेत् । अस्य धीरस्य यत् कर्म । परो विगर्हयेत् निन्देत् । यथेत्यर्धमेकं वाक्यम् । विपश्चिता विवेकिना ।। 3.50.7 ।।

अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् ।

व्यवस्यन्ति न राजानो धर्मं पौलस्त्यनन्दन ।। 3.50.8 ।।

शिष्टाः सन्तः राजानः शास्त्रेष्वनागतमनुपदिष्टं धर्ममर्थं वा । यदि वा कामं कामं वा । न व्यवस्यन्ति नेच्छन्तीत्यर्थः । लोके यथ तथा वा भवतु, राज्ञस्तव सुतरां नेदमुचितमिति भावः ।। 3.50.8 ।।

राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः ।

धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ।। 3.50.9 ।।

न केवलं स्वार्थं लोकनिग्रहार्थम्, चेदं परिहर्तव्यमित्याह राजेति । अत्र धर्मादिशब्दौ धर्मादिप्रवर्तकपरौ । द्रव्याणामर्थानामुत्तमो निधिराश्रयः । यस्मादेवं तस्मात् धर्मः धर्मादिः राजमूलं यथा तथा प्रवर्तते । शुभं शुभाचारः पापं वा राजमूलं प्रवर्तते राजानुसारेण लोकाः धर्माधर्मादिषु प्रवर्तन्ते । अतो राज्ञा पापं विहाय धर्मादिकमेव कर्तव्यमित्यर्थः ।। 3.50.9 ।।

पापस्वभावश्चपलः कथं त्वं रक्षसां वर ।

ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृतिः ।। 3.50.10 ।।

परदाराभिमर्शनमैश्वर्याद्भ्रंशकं चेत्याह पापस्वभाव इति । पापं स्वभावः सहजधर्मो यस्य स पापस्वभावः । अत एव चपलः विषयप्रवणः त्वं दुष्कृतिः विमानं देवार्हं विमानमिव । ऐश्वर्यमभि ऐश्वर्यं प्रति कथं सम्प्राप्तः योग्यः । एवं विषयचपलश्चेदैश्वर्याद्भ्रष्टो भविष्यसीति भावः ।। 3.50.10 ।।

कामं स्वभावो यो यस्य न शक्यः परिमार्जितुम् ।

नहि दुष्टात्मनामार्यमावसत्यालये चिरम् ।। 3.50.11 ।।

एवं बहुसान्त्वने ऽपि सीताविसर्जनाकरणात् भवादृशे उपदेशो निरर्थक इत्याह काममिति । यो स्वभावः औत्पत्तिकः स धर्मः कामम् अत्यन्तं परिमार्जितुं न शक्यः । उपदेशेन निवर्तयितुं न शक्य इत्यर्थः । तथाहि आर्यं सदुपदेशः दुष्टात्मनाम् आलये हृदये चिरं नावसति न तिष्ठति ।। 3.50.11 ।।

विषये वा पुरे वा ते यदा रामो महाबलः ।

नापराद्ध्यति धर्मात्मा कथं तस्यापराद्ध्यसि ।। 3.50.12 ।।

शत्रुभार्यापहरणं मम स्वभाव इत्याशङ्क्य शात्रवप्रसक्तिरत्र नास्तीत्याह विषये वेति । विषये राज्ये यदा नापराध्यति तदा तस्य कथमपराध्यसि ।। 3.50.12 ।।

यदि शूर्पणखाहेतोर्जस्थानगतः खरः ।

अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ।। 3.50.13 ।।

अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ।

यस्य त्वं लोकनाथस्य भार्यां हृत्वा गमिष्यसि ।। 3.50.14 ।।

खरवध एव ममापराध इत्याशङ्क्याह द्वाभ्याम् यदीत्यादि । वृत्तं मर्यादामतिक्रान्तो ऽतिवृत्तः । अत्र हननविषये । यस्येति । तस्येति पूर्वशेषः ।। 3.50.13,14 ।।

क्षिप्रं विसृज वैदहीं मा त्वा घोरेण चक्षुषा ।

दहेद्दहनभूतेन वृत्रमिन्द्राशनिर्यथा ।। 3.50.15 ।।

प्रकृतमुपसंहरति क्षिप्रमिति । अत्र राम इत्यध्याहार्यम् । चक्षुषेत्यनेन दर्शनमात्रेण वधो लक्ष्यते । अशनिः वज्रम् ।। 3.50.15 ।।

सर्पमाशीविषं बध्वा वस्त्रान्ते नावबुद्ध्यसे ।

ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ।। 3.50.16 ।।

सीताग्रहणमवश्यं मृत्युकरमित्याह सर्पमित्यादिना । आशीविषम् आशीविषाख्यम् । प्रतिमुक्तम् आमुक्तम् । यथा वस्त्रबद्धः सर्पो ऽवश्यं नाशयति तद्वात् इयं सीता गृहीता त्वां नाशयिष्यतीति भावः । व्याजस्तुतिरलङ्कारः ।। 3.50.16 ।।

स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ।

तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ।। 3.50.17 ।।

भारः भारद्रव्यम् । वावसादयेत् न पीडयेत् । अनामयं व्याध्यनुत्पादकम् । अत्रापि पूर्ववद्व्याजस्तुतिः ।। 3.50.17 ।।

यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि ।

शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ।। 3.50.18 ।।

यत्कार्यं कृत्वा स्थितस्य न धर्मो भवेत्, कीर्तिः ऐश्वर्यादिजनिता प्रथा वा न भवेत्, यशः भोगित्वाकृतप्रथा वा न भवेत्, प्रत्युत शरीरदुःखमेव भवेत्, तत्कर्म कः समाचरेत्? मूढ एवाचरेत् । तथाविधकर्मकरणाद्भवान्मूढ एवेति भावः ।। 3.50.18 ।।

षष्टिर्वर्षसहस्त्राणि मम जातस्य रावण ।

पितृपैतामहं राज्यं यथावदनुतिष्ठतः ।। 3.50.19 ।।

वृद्धोहं त्वं युवा धन्वी सशरः कवची रथी ।

तथाप्यादाय वैदेहीं कुशली न गमिष्यसि ।। 3.50.20 ।।

मयि वृद्धत्वेनावमतिं मा कृथा इत्याशयेनाह द्वाभ्याम् षष्टिरित्यादि । षष्टिर्वर्षसहस्राणि गतानीति शेषः । जातस्येत्यनेन वयसा जीर्णत्वमुच्यते । राज्यं यथावत् अनुतिष्ठतः पालयत इत्यनेन कर्मणा जीर्णत्वमुक्तम् । अहं धनुराद्युपकरणरहितः ।। 3.50.19,20 ।।

न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः ।

हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव ।। 3.50.21 ।।

एतदेव दृष्टान्तमुखेन द्रढयति न शक्त इति । मम पश्यतः मयि पश्यति सति । सीतां बलाद्धर्तुं न शक्तः न समर्थः । कथमिव न्यायसंसिद्धैः न्यायशास्त्रसंसिद्धैः हेतुभिः अनुमानैः । ध्रुवां निश्चलाम् अविचाल्यप्रामाण्यामिति यावत् । वेदश्रुतीमिव वेदश्रुतिमिव । दीर्घ आर्षः । वेदयतीति वेदः स्वतः प्रमाणभूतां श्रुतिमित्यर्थः । यथा वेदविदग्रेसरे पश्यति सति हैतुकैः न्यायसिद्धैर्हतुभिः श्रुतिः अन्यथा अन्यपरा नेतुं न शक्यते तद्वदिति भावः । अन्यपरार्थवादादिव्यावृत्त्यर्थो वेदशब्दः । यथा तामन्यथा कुर्वन् स्वयमेव विनश्यति न वेदश्रुतेः कापि हानिः एवं सीतामपहरंस्त्वमेव नशिष्यसि, न तु सीतायाः कापि हानिरित्याकूतम् । यथा वेदविदग्रेसरो वेदश्रुतिमन्यथा नीयमानामवलोकयन् तदसहमानो यावच्छक्ति निवर्तयति तथा ऽहमापि त्वया बलान्नीयमानामपि सीतां यावच्छक्ति निवर्तयिष्यामीत्यर्थः ।। 3.50.21 ।।

यद्ध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण ।

शयिष्यसे हतो भूमौ यथा पूर्वं करस्तथा ।। 3.50.22 ।।

युद्ध्यस्वेति । यदि शूरो ऽसि मुहूर्तं तिष्ठ । मा पलायस्व मया युद्ध्यस्व । युद्धे मया हतस्त्वं पूर्वं रामेण हतः खर इव भूमौ शयिष्यसे । यद्वा यदि शूरोसि तदा मया युद्ध्यस्व । अथवा रामागमनपर्यन्तं मुहूर्तं तिष्ठ तेन हतः शयिष्यस इति । यद्वा यदि शूरोसि मुहूर्तं तिष्ठ स्थित्वा तेन युद्ध्यस्व ।। 3.50.22 ।।

असकृत्संयुगे येन निहता दैत्यदानवाः ।

न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति ।। 3.50.23 ।।

न केवलं स्वापराधप्रतीकारः किन्तु “देवानां दानवानां च सामान्यमधिदैवतम्” इत्युक्तस्य रामस्य स्वकीयापराधप्रतीकारोपि भविष्यतीत्याह असकृदिति ।। 3.50.23 ।।

किनु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ ।

क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः ।। 3.50.24 ।।

एवमुक्ते ऽपि पुनः पलायमानं प्रत्याह किन्विति । किन्नु शक्यं किं वा शक्यम् । नश्यसे अदर्शनं प्राप्नोषि । तयोः ताभ्याम् ।। 3.50.24 ।।

न हि मे जीवमानस्य नयिष्यसि शुभामिमाम् ।

सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम् ।। 3.50.25 ।।

तथापि त्वां नाहं गमयामीत्याह नहीति । जीवमानस्य जीवतः मयि जीवतीत्यर्थः ।। 3.50.25 ।।

अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः ।

जीवितेनापि रामस्य तथा दशरथस्य च ।। 3.50.26 ।।

त्वया किं कर्तुं शक्यमित्यत्राह अवश्यमिति । जीवितेनापि जीवितव्ययेनापि ।। 3.50.26 ।।

तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण ।

युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ।। 3.50.27 ।।

तिष्ठेति । यथाप्राणं यथाबलम् ।। 3.50.27 ।।

वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् ।। 3.50.28 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चाशः सर्गः ।। 50 ।।

वृन्तादित्यर्धमेकान्वयम् । “वृन्तं प्रसवबन्धनम्” इत्यमरः ।। 3.50.28 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चाशः सर्गः ।। 50 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.