62 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विषष्टितमः सर्गः

सीतामपश्यन् धर्त्मात्मा कामोपहतचेतनः ।

विललाप महाबाहू रामः कमललोचनः ।। 3.62.1 ।।

अथ रामस्य “दृङ्मनः सङ्गसङ्कल्पा जागरः कृशाता ऽरतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश ।।” इत्युक्तावस्थास्वरतिं नाम षष्ठीमवस्थां प्रदर्शयति द्विषष्टितमे सीतामित्यादि। धर्मात्मा कामोपहतचेतन इत्याभ्यां धर्माविरुद्धकामस्यानिन्द्यत्वमुक्तम्। महाबाहुरित्यूर्ध्वबाहुत्वमुच्यते। कमललोचन इत्यनेन समधुपद्मसाम्यादश्रुकालुष्यमुच्यते। कामेन सीताविप्रलम्भजनितव्यामोहेन उपहता अप्रकृतिस्था चेतना चैतन्यं यस्य स तथा ।। 3.62.1 ।।

पश्यन्निव स तां सीतामपश्यन्मदनार्दितः ।

उवाच राघवो वाक्यं विलापाश्रयदुर्वचम् ।। 3.62.2 ।।

पश्यन्निवेति । पुरोवर्तित्वाभावेन सीतामपश्यन्नपि मदनार्दितो मदनपरवशः तां पश्यन्निव सम्बोध्योवाच । तद्वाक्यं विलापाश्रयत्वेन दुर्वचं गद्गदकण्ठत्वादिति भावः । यद्वा विलापसम्बन्धादस्माभिर्वक्तुमशक्यम् अनुवदितुमशक्यमित्यर्थः ।। 3.62.2 ।।

त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये ।

आवृणोषि शरीरं ते मम शोकविवर्धनी ।। 3.62.3 ।।

पश्यन्निवेत्युक्तमुपपादयति, सार्द्धैस्त्वमित्यादिपञ्चभिः । त्वम् अशोकस्य शाखाभिः पुष्पिततया स्वर्णसदृशीभिः स्वयं पुष्पप्रियतया स्वशरीरं मम शोकविवर्धनी सती आवृणोषि किं तेनावरणेन मया दृष्टत्वादिति भावः ।। 3.62.3 ।।

कदलीकाण्डसदृशौ कदल्या संवृतावुभौ ।

ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम् ।। 3.62.4 ।।

कदलीकाण्डसदृशौ कदलीदण्डतुल्यत्वेन कदल्या संवृतावपि ते ऊरू पश्यामि तेन तौ निगूहितुम् आच्छादितुं न शक्तासि, दृष्टस्याच्छादनासम्भवादिति भावः ।। 3.62.4 ।।

कर्णिकारवनं भद्रे हसन्ती देवि सेवसे ।

अलं ते परिहासेन मम बाधावहेन वै ।। 3.62.5 ।।

हसन्ती हासार्थं कर्णिकारवनं सेवसे ।। 3.62.5 ।।

परिहासेन किं सीते परिश्रान्तस्य मे प्रिये ।

अयं स परिहासो ऽपि साधु देवि न रोचते ।। 3.62.6 ।।

हे सीते परिहासेन किं किंप्रयोजनम्? हि यस्मात् परिश्रान्तस्य मे मह्यं सः पूर्वं प्रियः अयं परिहासः साधु सम्यक् न रोचते ।। 3.62.6 ।।

विशेषेणाश्रमस्थाने हासो ऽयं न प्रशस्यते ।

अवगच्छामि ते शीलं परिहासप्रियं प्रिये ।

आगच्छ त्वं विशालाक्षि शून्यो ऽयमुटजस्तव ।। 3.62.7 ।।

विशेषेणेति । शीलं स्वभावः । परिहासेन प्रीणातीति परिहासप्रियम् । “इगुपधज्ञाप्रीकिरः कः” इति कः । आगच्छेत्यर्द्धमेकं वाक्यम् ।। 3.62.7 ।।

सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा ।

नहि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण ।। 3.62.8 ।।

सुव्यक्तमिति । हिर्हेतौ । उपसम्प्रैति उपेक्षत इत्यर्थः ।। 3.62.8 ।।

एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण ।

शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः ।। 3.62.9 ।।

एतानीति । शंसनप्रकारः साश्रुनेत्राणीति ।। 3.62.9 ।।

हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि ।

हा सकामा त्वया देवी कैकेयी सा भविष्यति ।। 3.62.10 ।।

मम मदीये । आर्ये पूज्ये । लोकैरिति शेषः । सकामा स्वाभीष्टास्मन्मरणसिद्धेरिति भावः ।। 3.62.10 ।।

सीतया सह निर्यातो विना सीतामुपागतः ।

कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः ।। 3.62.11 ।।

सीतां विना ऽ ऽगतत्वाच्छून्यम् ।। 3.62.11 ।।

निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति ।

कातरत्वं प्रकाशं हि सीतापनयनेन मे ।। 3.62.12 ।।

कातरत्वम् अधीरत्वम् । जीवितधारणाशक्तेरिति भावः ।। 3.62.12 ।।

निवृत्तवनवासश्च जनकं मिथिलाधिपम् ।

कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम् ।। 3.62.13 ।।

निवृत्तवनवासः समाप्तवनवासः । “समाप्तौ वृत्त इत्यदः” इति शब्दार्णवे । निरीक्षितुं प्रतिवक्तुं सुतरामिति भावः ।। 3.62.13 ।।

विदेहराजो नूनं मां दृष्ट्वा विरहितं तया ।

सुतास्नेहेन सन्तप्तो मोहस्य वशमेष्यति ।। 3.62.14 ।।

तया सीतया ।। 3.62.14 ।।

अथवा न गमिष्यामि पुरीं भरतपालिताम् ।

स्वर्गो ऽपि सीतया हीनः शून्य एव मतो मम ।। 3.62.15 ।।

भरतपालितां सुसमृद्धामपीत्यर्थः ।। 3.62.15 ।।

मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम् ।

न त्वहं तां विना सीतां जीवेयं हि कथञ्चन ।। 3.62.16 ।।

कथञ्चन त्वत्कृताश्वासनेनापीत्यर्थः ।। 3.62.16 ।।

गाढमाश्लिष्य भरतो वाच्यो मद्वचनात्त्वया ।

अनुज्ञातो ऽसि रामेण पालयेति वसुन्धराम् ।। 3.62.17 ।।

पालयेति वाच्य इत्यन्वयः ।। 3.62.17 ।।

अम्बा च मम कैकेयी सुमित्रा च त्वया विभो ।

कौसल्या च यथान्यायमभिवाद्या ममाज्ञया ।। 3.62.18 ।।

अम्बेति । प्रथमोक्तिः शोकजाग्रहात् ।। 3.62.18 ।।

रक्षणीया प्रयत्नेन भवता सोक्तकारिणा ।। 3.62.19 ।।

रक्षणीयेत्यर्धम् । सा कौसल्या ।। 3.62.19 ।।

सीतायाश्च विनाशो ऽयं मम चामित्रकर्शन ।

विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत् ।। 3.62.20 ।।

सीतायाश्चेति । मम विनाशः भवतीति शेषः ।। 3.62.20 ।।

इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या ।

भयविकलमुखस्तु लक्ष्मणो ऽपि व्यथितमना भृशमातुरो बभूव ।। 3.62.21 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विषष्टितमः सर्गः ।। 62 ।।

इतीति । तया विनाकृतं वनमुपगम्येत्यर्थः । सुकेश्येति विलापहेतुः । भयेन विकलमुखः विवर्णमुखः । आतुरः तप्तशरीरः ।। 3.62.21 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्विषष्टितमः सर्गः ।। 62 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.