68 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टषष्टितमः सर्गः

रामः सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम् ।

सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ।। 3.68.1 ।।

अथ भगवत्कार्यार्थं त्यक्तशरीरस्य गृध्रराजस्य मोक्षपदप्रापणमष्टषष्टितमे राम इत्यादि । रौद्रेण रावणेन । मित्रसम्पन्नं सर्वजनमित्रमित्यर्थः । यद्वा परनिपातः सम्पन्नमित्रम्, अत्यन्तरामविषयसौहार्दयुक्तमित्यर्थः ।। 3.68.1 ।।

ममायं नूनमर्थेषु यतमानो विहङ्गमः ।

राक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्षति दुस्त्यजान् ।। 3.68.2 ।।

अर्थेष्विति निमित्तसप्तमी । मम प्रयोजनार्थमित्यर्थः । सङ्ख्ये युद्धे ।। 3.68.2 ।।

अयमस्य शरीरे ऽस्मिन् प्राणो लक्ष्मण विद्यते ।

तथाहि स्वरहीनो ऽयं विक्लवः समुदीक्षते ।। 3.68.3 ।।

अयं प्राणः सूक्ष्मप्राणः । स्वरहीनः हीनस्वरः । विक्लवः विह्वलः ।। 3.68.3 ।।

जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः ।

सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ।। 3.68.4 ।।

व्याहरितुं व्याहर्तुम् । वधं वधप्रकारम् ।। 3.68.4 ।।

किन्निमित्तो ऽहरत्सीतां रावणस्तस्य किं मया ।

अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ।। 3.68.5 ।।

किन्निमित्तः किं निमित्तं यस्यासौ किन्निमित्तः, केन हेतुना अहरदित्यर्थः । किं भोगार्थम् उत अपकारप्रतीकारार्थमित्यर्थः । चरमपक्षे तत्स्वरूपं पृच्छति तस्येति । यम् अपराधम् ।। 3.68.5 ।।

कथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् ।

सीतया कानि चोक्तामि तस्मिन् काले द्विजोत्तम ।। 3.68.6 ।।

कथं कीदृशप्रकारम् । कानि वाक्यानि ।। 3.68.6 ।।

कथंवीर्यः कथंरूपः किङ्कर्मा स च राक्षसः ।

क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ।। 3.68.7 ।।

तात पितृतुल्य ।। 3.68.7 ।।

तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् ।

वाचा ऽतिसन्नया रामं जटायुरिदमब्रवीत् ।। 3.68.8 ।।

दीनात्मा दीनमनाः । अतिसन्नया अतिकार्श्यं प्राप्तया ।। 3.68.8 ।।

हृता सा राक्षसेन्द्रेण रावणेन विहायसा ।

मायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम् ।। 3.68.9 ।।

किं कर्मेत्यस्योत्तरमाह हृता सेति । वातेन दुर्दिनेन च सङ्कुलाम् । “मेघच्छन्ने ऽह्नि दुर्दिनम्” इत्यमरः । मायया महावातं मेघच्छादनं चोत्पाद्य हृतवानित्यर्थः ।। 3.68.9 ।।

परिश्रान्तस्य मे तात पक्षौ छित्त्वा स राक्षसः ।

सीतामादाय वैहेहीं प्रयातो दक्षिणां दिशम् ।। 3.68.10 ।।

वधमाख्याहीत्यस्योत्तरमाह परिश्रान्तस्येति । युद्धपरिश्रान्तस्येत्यर्थः ।। 3.68.10 ।।

उपरुद्ध्यन्ति मे प्राणा दष्टिर्भ्रमति राघव ।

पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान् ।। 3.68.11 ।।

प्रश्नान्तरे प्रत्युत्तरकथनाशक्तिमाह उपरुध्यन्तीति । उपरुध्यन्ति उपरुध्यन्ते मरणवेदनया पीड्यन्त इत्यर्थः । सौवर्णान् मरणकाले तथा प्रतीयन्त इति प्रसिद्धम् । उशीरैः लामज्जकैः कृताः कल्पिताः मूर्धजाः केशाः येषां ते तथा ।। 3.68.11 ।।

येन यातो मुहूर्तेन सीतामादाय रावणः ।

विप्रनष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ।। 3.68.12 ।।

किमिह बहुनोक्तेन, सर्वथा सीता पुनर्लप्स्यत इत्याह येनेति । येन मुहूर्तेन निमित्तभूतेन रावणः सीतामादाय याति स्म, तन्मुहूर्तबलेन स्वामी धनस्वामी विप्रनष्टं धनं क्षिप्रम् अचिरेण पुनः प्रतिपद्यते प्राप्नोति ।। 3.68.12 ।।

विन्दो नाम मूहूर्तो ऽयं स च काकुत्स्थ नाबुधत् ।

त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः ।

झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति ।। 3.68.13 ।।

को ऽसौ मुहूर्त इत्यत्राह विन्द इति । नष्टं धनं विन्दति लभते ऽस्मिन्निति विन्दः, स रावणस्तु नाबुधत् नाबुध्यत । विकरणव्यत्ययश्छान्दसः । तस्मात् बडिशं गृह्य गृहीत्वा झषवत् मत्स्य इव विनश्यति । वर्तमानसामीप्ये वर्तमानवत् । “बडिशं मत्स्यवेधनम्” इत्यमरः ।। 3.68.13 ।।

न च त्वया व्यथा कार्या जनकस्य सुतां प्रति ।

वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ।। 3.68.14 ।।

फलितमाह न चेति ।। 3.68.14 ।।

असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः ।

आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ।। 3.68.15 ।।

असम्मूढस्येति । एतावत्पर्यन्तमिति शेषः । अनुभाषतः उत्तरं भाषमाणस्य । सामिषं मांससहितं रुधिरम् ।। 3.68.15 ।।

पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।

इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ।। 3.68.16 ।।

अथ रावणवंशं वक्तुमुपक्रमते पुत्र इति । साक्षात्पुत्रः औरस इत्यर्थः । अस्योत्तरार्धम् “अध्यास्ते नगरीं लङ्कां रावणो राक्षसेश्वरः ।” इति बोध्यम् । उत्तरत्र सम्पातिवचने इदमेव पूर्वार्धमुपादाय अस्योत्तरार्धस्य कथनादिति लोकाचार्योक्तम् । इत्युक्त्वा, एतावन्मात्रमुक्त्वा भवनादिकथनात् पूर्वमित्यर्थः । दुर्लभान् ब्रूहि ब्रूहीति पृच्छते रामाय साकल्येन विज्ञापनपर्यन्तं प्राणा न स्थिताः । हन्तेति ऋषिः शोचति ।। 3.68.16 ।।

ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः ।

त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ।। 3.68.17 ।।

ब्रूहीति । ब्रुवाणस्य ब्रुवाणे सति । प्राणः सूक्ष्मशरीरेन्द्रियप्राणसहित आत्मेत्यर्थः ।। 3.68.17 ।।

स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ।

विक्षिप्य च शरीरं स्वं पपात धरणीतले ।। 3.68.18 ।।

स इति । निक्षिप्य मरणवेदनयेति भावः । विक्षिप्य विधूय पपातेत्युक्तिरौपचारिकी ।। 3.68.18 ।।

तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् ।

रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ।। 3.68.19 ।।

ताम्राक्षम् अधःशिरस्कतया पतनजक्षोभात् ।। 3.68.19 ।।

बहूनि रक्षसां वासे वर्षाणि वसता सुखम् ।

अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ।। 3.68.20 ।।

रक्षसां वासे दण्डकारण्ये । बहूनि वर्षाणि निर्भयतया सुखं वसता ऽनेन पक्षिणा विशीर्णँ देहविशरणं प्राप्तम् । इहैव सुखम् उषित्वा इहैव मृतमनेनेति भावः । विचीर्णमिति पाठे अत्रैव वसता अनेन अत्रैव सुखं विचीर्णम् अनुभूतमित्यर्थः ।। 3.68.20 ।।

अनेकवार्षिको यस्तु चिरकालसमुत्थितः ।

सो ऽयमद्य हतः शेते कालो हि दुरतिक्रमः ।। 3.68.21 ।।

एतदेव विवृणोति अनेकेति । अनेकवार्षिकः बहुवयःप्राप्तः । चिरकालसमुत्थितः चिरकालमभ्युदयं प्राप्तः ।। 3.68.21 ।।

पश्य लक्ष्मण गृध्रो ऽयमुपकारी हतश्च मे ।

सीतामभ्यवपन्नो वै रावणेन बलीयसा ।। 3.68.22 ।।

पश्येति । अनेन मोक्षप्रदानोचितं तदीयसुकृतविशेषं दर्शयति सीतामभ्यवपन्नो मे उपकारी सन् हतः ।। 3.68.22 ।।

गृध्रराज्यं परित्यज्य पितृपैतामहं महत् ।

मम हेतोरयं प्राणान् मुमोच पतगेश्वरः ।। 3.68.23 ।।

गृध्रराज्यं परित्यज्येति प्राप्याभ्यासपरित्याग उक्तः । महदिति स्वकीयेक्ष्वाकुराज्यव्यावृतिः,

एकमुखत्वात् । ममेत्यादिना उपायानुष्ठानोक्तिः । पतगेश्वरः पितुर्मरणात् इतःपरमस्य पक्षानाश्रित्य सुखं स्थास्यामीति स्थितो ऽहम् अयं तातवन्मत्कृते प्राणत्यागं कृतवानिति भावः ।। 3.68.23 ।।

सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः ।

शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ।। 3.68.24 ।।

सर्वत्रेति सर्वजातिष्वपीत्यर्थः । तिर्यग्योनिगतस्यास्य कथमेतादृशी बुद्धिरिति न मन्तव्यमिति भावः ।। 3.68.24 ।।

सीता हरणजं दुःखं न मे सौम्य तथागतम् ।

यथा विनाशे गृध्रस्य मत्कृते च परन्तप ।। 3.68.25 ।।

मत्कृते च मत्कृत एव यथा ऽस्य विनाशः प्राप्तः तथा सीताहरणजं दुःखं नागतं न प्राप्तम् । अत्र विनाशशब्देन तज्जं दुःखमुच्यते ।। 3.68.25 ।।

राजा दशरथः श्रीमान् यथा मम महायशाः ।

पूजनीयश्च मान्यश्च तथा ऽयं पतगेश्वरः । 3.68.26 ।।

अथ संस्कारयोग्यतामाह राजेति । पूज्यः पैतृकविधिना अर्चनीयः । मान्यः श्लाघ्यः ।। 3.68.26 ।।

सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ।

गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ।। 3.68.27 ।।

दिधक्षामि दग्धुमिच्छामि । दहेस्सन्नन्तात् घत्वभष्भावौ ।। 3.68.27 ।।

नाथं पतगलोकस्य चितामारोप्य राघव ।

इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ।। 3.68.28 ।।

नाथमिति । चितां काष्ठभारम् ।। 3.68.28 ।।

या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः ।

अपरावर्तिनां या च या च भूमिप्रदायिनाम् । 3.68.29 ।।

मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ।

गृध्रराज महासत्त्व संस्कृतश्च मया व्रज ।। 3.68.30 ।।

या गतिरित्यादिश्लोकद्वयमेकान्वयम् । गम्यत इति गतिः लोकः । यज्ञशीलानां यज्ञाः शीलं सद्वृत्तं येषां ते तथा, सदा यज्ञानुष्ठानपराणां गृहस्थानामित्यर्थः । आहिताः परितः स्थापिताः अग्नयः पञ्चाग्नयोः यस्य स तथा, सर्वदा तपःशीलस्य वानप्रस्थस्येत्यर्थः । अग्न्याधानस्य पूर्वेणैव सिद्धत्वात् पृथक् फलाभावाच्च । अपरावर्तिनाम् “अरण्यमियात्ततो न पुनरेयात्” इत्युक्तानां सन्न्यासिनामित्यर्थः । रणादपलायितानामित्यर्थवर्णने जटायोस्तादृशत्वेन तत्फलस्य स्वतःसिद्धत्वेनानुज्ञातव्यत्वाभावात् मुक्तानां धर्मप्रकरणे उक्त्यसम्भवात् । भूमिप्रदायिनां भूमिभोगत्यागिनां नैष्ठिकानामित्यर्थः । ता गतीरिति यत्तदोर्नित्यसम्बन्धात्सिद्धम् । ता गतीः “प्राजापत्यं गृहस्थानां ब्राह्मं सन्न्यासिनां स्मृतम् ।” इत्याद्युक्तस्थानानि । यद्वा यज्ञदानतपःसन्न्यासिनामित्यर्थः । तेषां या या गतिः शास्त्रविहिता तां मया संस्कृतो व्रज मया समनुज्ञातस्तु अनुत्तमान् सर्वश्रेष्ठान् लोकान् । “अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु” इत्यादिश्रुतिप्रसिद्धान् विष्णुलोकान् गच्छ । अवयवबहुत्वाद्वबुवचनम्, अन्यथा गतिशब्देन पौनरुक्त्यम् अनन्वयश्च, समनुज्ञातः संस्कृतश्चेति पदद्वयानर्थक्यं च । ननु मानुषभावं भावयतः श्रीरामस्य कथं मुक्तिप्रदानं तस्य परत्वासाधारणचिह्नत्वादिति चेत् “सत्येन लोकान् जयति” इत्युक्तरीत्या स्वार्जितधर्मविशेषेण स्वाधीनसर्वलोकत्वाविरोधात् । केचित्तु मया संस्कृतस्ततोनुज्ञातस्त्वं यज्ञशीलादीनां या गतयः तान् लोकान् गच्छ सर्वान्ते मां व्रज । “सो ऽश्नुने सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इत्युक्तरीत्या मुक्तभोगं प्राप्नुहि, न च निर्हेतुकमुक्तिप्रदाने ऽतिप्रसङ्गः । स्वकार्यमुद्दिश्य प्राणत्यागस्यैव हेतुत्वात् । अत एव नृसिंहपुराणे “मत्कृते निधनं यस्मात्त्वया प्राप्तं द्विजोत्तम । तस्मान्मम प्रसादेन विष्णुलोकमवाप्स्यसि” इत्युक्तम् । “कर्मणैव हि संसिद्धिमास्थिता जनकादयः” इति हि कर्मणो ऽपि मुक्तिहेतुत्वमुक्तम् । “नान्यः पन्थाः” इति श्रुतिः परमात्मनो ऽन्यत्र साक्षान्मुक्तिहेतुत्वं निषेधति तस्यैव प्राधान्येन प्रकृतत्वादित्याहुः । यद्वा हे गृध्रराज महासत्त्व मया संस्कृतस्त्वं मया ऽनुज्ञातो भूत्वा अनुत्तमान् लोकान् मल्लोकानित्यर्थः । गच्छ आनुषङ्गिकतया यज्ञशीलादीनां या या गतयस्ता अपि गच्छ । गम्यत इति गतिः लोकः । आहिताग्नेः गार्हपत्याहवनीयदक्षिणाग्निनिरतस्य या गतिः “अग्नयो वै त्रयी विद्या” इत्यारभ्य “तस्मादग्नीन् परमं वदन्ति” इत्याहिताग्नित्वस्यापि पृथक् धर्मत्वश्रवणात् । अपरावर्तिनां युद्धादपरावर्तमानानाम् । या गतिः दृष्टान्तार्थमिदमुक्तम्, जटायोस्तादृशत्वेन तत्फलस्येदानीमदेयत्वात् तिरश्चां यज्ञाद्यधिकाराभावेन तत्फलमात्रस्य देयत्वत् । यथा ऽपरावर्तिनां गतिं प्राप्स्यसि तथा यज्ञशीलादीनां लोकानपि ब्रह्मप्राप्तौ वसुत्वादिकमिव प्राप्नुहीत्यर्थः । अस्मिन् कल्पे भूमिप्रद्रायिनामित्यस्य प्रतीयमानार्थकत्वमेव व्रज एवं गच्छ । यद्वा मया प्रथमं संस्कृतः । “अथ तृतीयेन ज्योतिषा संविशस्व” इत्यादिमन्त्रेणानुज्ञातो मया त्वं यज्ञाधिकारिणां लोकान् गच्छ, ब्रह्ममेधसंस्कारबलेन प्राप्नुहीत्यर्थः । इदं च फलं संस्कारोत्तरक्षण एवानुतिष्ठतीत्युच्यते संस्कृतो व्रजेति । “गृध्रराज महासत्त्व संस्कृतश्च महाव्रते”ति पाठे संस्कृतश्च भवेति वार्थः ।। 3.68.29,30 ।।

एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् ।

ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ।। 3.68.31 ।।

दीप्तां दीपनार्हाम्, स्वबन्धुमिवेत्यनेन मन्त्रपूर्वकत्वं दाहस्योच्यते ।। 3.68.31 ।।

रामो ऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान् ।

स्थूलान् हत्वा महारोहीननु तस्तार तं द्विजम् । 3.68.32 ।।

राम इति । महारोहीन् महामृगान् । तान् द्विजमनु जटायुषमुद्दिश्य हत्वा तस्तार पिण्डदानार्थं दर्भानास्तृतवान् ।। 3.68.32 ।।

रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः ।

शकुनाय ददौ रामो रम्ये हरितशाद्वले ।। 3.68.33 ।।

रोहीति । उत्कृत्य उद्धृत्य । पेशीकृत्य पिण्डीकृत्य । हरितशाद्वले नवीनतृणास्तृतप्रदेशे । शकुनाय पक्षिणे ददौ ।। 3.68.33 ।।

यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।

तत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह ।। 3.68.34 ।।

प्रेतस्य मर्त्यस्य मुनुष्यस्य यत्तत् प्रसिद्धं मन्त्रजातम् । स्वर्गगमनं स्वर्गो गम्यते ऽनेनेति स्वर्गगमनं स्वर्गप्रापकं वदन्ति । पित्र्यं पितृदेवताकम् । तज्जजाप याम्यसूक्तादिकं जजापेत्यर्थः ।। 3.68.34 ।।

ततो गोदावरीं गत्वा नदीं नरवरात्मजौ ।

उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ।। 3.68.35 ।।

चक्रतुरिति । लक्ष्मणस्य कर्तृत्वं सहकारितया । उदकम् उदकदानमित्यर्थः ।। 3.68.35 ।।

शास्त्रदृष्टेन विधिना जले गृध्राय राघवौ ।

स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ।। 3.68.36 ।।

उक्तस्यैवार्थस्य स्नानपूर्वकत्वविधिपूर्वकत्वप्रदर्शनाय पुनरप्याह शास्त्रेति । तदा तौ राघवौ । शास्त्रदृष्टेन विधिना । गृध्राय गृध्रमुद्दिश्य । जले स्नात्वा गृध्रराजायोदकं चक्रतुरित्यन्वयः । अयमत्र क्रमः गृध्रराजं दग्ध्वा स्वर्गगमनसूक्तं जप्त्वा गोदावरीं गत्वा स्नात्वा उदकं दत्त्वा रोहिमांसपिण्डं ददाविति । ननु वैदिकोत्तमो रामः कथं हीनजातिं तिर्यञ्चं वैदिकेन कर्मणा संस्कृतवान्? मैवम्, तस्यात्यन्तभक्तत्वेन जातेरपगमात् । “न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः । सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने ।।” इत्युक्तेः। न चेदं वचनम् “अपशवो वा अन्ये गोऽश्वेभ्यः” इतिवत् प्रशंसापरमिति वक्तुं शक्यम्, बाधकाभावात्। ब्राह्मणत्वादिजातिर्हि शास्त्रैकसमधिगम्या न तु गोत्वादिवदाकृतिगम्या, येन तत्तुल्यत्वमाशङ्क्येत। अत एव विश्वामित्रस्यापि क्षत्ित्रयत्वजातिरपनीता उपनीता च ब्राह्मणत्वजातिरित्युपपादितं बालकाण्डे। अयमर्थ उपपादयिष्यते च श्रमणीवृत्तान्ते। इदं च द्रौपदीविवाहादिवदैतिहासिकविलक्षणव्यक्तिविशेषनियतमिति च नातिप्रसङ्गावकाशः ।। 3.68.36 ।।

स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः ।

महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ।। 3.68.37 ।।

उक्तमर्थमादरातिशयेन पुनः सङ्गृह्णाति स इति । रणे सीतानिमित्तं दुष्करं कर्म प्राणविनाशपर्यन्तं व्यापारं कृतवान् । स गृध्रराजः रावणेन निपातितः महर्षिकल्पेन महर्षितुल्येन रामेण संस्कृतश्च तदा तदुत्तरक्षण एव पुण्यां पुण्यफलभूताम् आत्मनः सुखावहां गतिं लोकं जगाम ।। 3.68.37 ।।

कृतोदकौतावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः ।

प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ ।। 3.68.38 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टषष्टितमः सर्गः ।। 68 ।।

कतोदकाविति । इदं पिण्डदानस्याप्युपलक्षणम् । पक्षिसत्तमे स्थिरां बुद्धिं प्रणिधाय सीतामवश्यं प्राप्स्यसीत्युक्तं तद्वचनं विश्वस्येत्यर्थः । सीताधिगमे मनः प्रवेश्य वनं जग्मतुः । सुरेन्द्रौ विष्णुवासवाविव स्थितावित्यनेन सीतान्वेषणं भावनामात्रामिति सूच्यते । अस्मिन् सर्गे सार्धाष्टात्रिंशच्छ्लोकाः ।। 3.68.38 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टषष्टितमः सर्गः ।। 68 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.