69 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनसप्ततितमः सर्गः

कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ ।

अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ।। 3.69.1 ।।

अथायोमुखीविरूपकरणपूर्वकं कबन्धदर्शनमेकोनसप्ततितमे कृत्वैवमित्यादि । अवेक्षन्तौ अवेक्षमाणौ । पश्चिमां दक्षिणपश्चिमामित्यर्थः ।। 3.69.1 ।।

तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ ।

अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ।। 3.69.2 ।।

ताविति । दक्षिणां दिशमिति दक्षिणपश्चिमा ह्युभयथा व्यवहर्तुं शक्या । अविप्रहतम् अक्षुण्णम् । ऐक्ष्वाकौ “दाण्डिनायन” इत्यादिसूत्रे निपातितः । प्रतिपेदतुः प्रतिपेदाते ।। 3.69.2 ।।

गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् ।

आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ।। 3.69.3 ।।

व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम् ।

सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ।। 3.69.4 ।।

गुल्मैरित्यादिश्लोकद्वयमेकान्वयम् । गुल्मैः कीचकप्रभृतिभिः वृक्षैश्च प्रवेष्टितं लताभिश्चावृतं दुर्गमं विषमं गहनं दुष्प्रवेशं घोरदर्शनम् अत एव सुभीमं तत् महारण्यं दण्डकारण्यं व्यतिक्रम्य अतीत्य व्यतियातौ गतौ ।। 3.69.3,4 ।।

ततः परं जनस्थानात् त्रिक्रोशं गम्य राघवौ ।

क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ।। 3.69.5 ।।

ततः परं गमनानन्तरम् । जनस्थानात् त्रिक्रोशं गम्य गत्वा । कौञ्चारण्याख्यं गहनं वनं विविशतुः । “गहनं काननं वनम्” इत्यमरः ।। 3.69.5 ।।

नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः ।

नानापक्षिगणैर्जुष्टं नानाव्यालमृगैर्युतम् ।। 3.69.6 ।।

दिदृक्षमाणौ वैहेहीं तद्वनं तौ विचिक्यतुः ।

तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ ।। 3.69.7 ।।

नानेत्यादिश्लोकद्वयमेकान्वयम् । नानामेघघनप्रख्यं नानावर्णमेघसमूहसदृशम् । प्रहृष्टमिव पुष्पोद्गमादिभिः सन्तुष्टमिव । व्यालमृगैः सर्पैः मृगैश्च । तद्वनं क्रोञ्चारण्यम् । तत्र तत्र वृक्षमूले । विश्रान्त्यै तिष्ठन्तौ सन्तौ विचिक्यतुः मृगयामासतुः ।। 3.69.6,7 ।।

ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा ।

क्रोञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे ।। 3.69.8 ।।

दृष्ट्वा तु तद्वनं घोरं बहुभीममृगद्विजम् ।

नानासत्त्वसमाकीर्णं सर्वं गहनपादपम् ।। 3.69.9 ।।

ददृशाते तु तौ तत्र दरीं दशरथत्मजौ ।

पातालसमगम्भीरां तमसा नित्यसंवृताम् ।। 3.69.10 ।।

तत इत्यादिश्लोकत्रयमेकान्वयम् । ततः क्रोञ्चारण्यमतिक्रम्य मतङ्गाश्रमं पूर्वेण मतङ्गाश्रमपूर्वदिग्भागे । “एनपा द्वितीया” इति द्वितीया । त्रिक्रोशं गत्वा अन्तरे मतङ्गाश्रमक्रोञ्चारण्ययोर्मध्ये । तद्वनं मतङ्गाश्रमसम्बन्धि किञ्चिद्वनं दृष्ट्वा तत्र दरीं ददृशाते ददृशतुः । अत्रोपरिष्टाच्च कर्तरि लिट्यात्मनेपदमार्षम् ।। 3.69.810 ।।

आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः ।

ददृशाते महारूपां राक्षसीं विकृताननाम् ।। 3.69.11 ।।

आसाद्योत्यादि । तस्याविदूरत इत्यार्षः सन्धिः । महारूपां महाशरीराम् ।। 3.69.11 ।।

भयदामल्पसत्त्वानां बीभत्सां सौद्रदर्शनाम् ।

लम्बोदरीं तीक्ष्णदंष्ट्रां करालां परुषत्वचम् ।। 3.69.12 ।।

भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम् ।

प्रैक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ ।। 3.69.13 ।।

सामान्यतो दर्शनमुक्त्वा विशेषतो दर्शनमाह भयदामित्यादि ।। 3.69.12,13 ।।

सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः ।

एहि रंस्यावहेत्युक्त्वा समालम्बत लक्ष्मणम् ।। 3.69.14 ।।

सेति । रंस्यावहेत्युक्त्वेत्यत्र सन्धिरार्षः । समालम्बत हस्ते गृहीतवती ।। 3.69.14 ।।

उवाच चैनं वचनं सौमित्रिमुपगुह्य सा ।। 3.69.15 ।।

उवाचेत्यर्धम् । उपग्रह्य आलिङ्ग्य ।। 3.69.15 ।।

अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः ।

नाथ पर्वतकूटेषु नदीनां पुलिनेषु च ।

आयुःशेषमिमं वीर त्वं मया सह रंस्यसे ।। 3.69.16 ।।

अहमित्यादिसार्धश्लोकः । अयोमुखीत्यन्वर्थनामा । हयमुखीत्यपि पाठः । ते लाभः लाभभूता । त्वमपि मम प्रियो ऽसि । नाथेति । आयुःशेषमित्यत्यन्तसंयोगे द्वितीया ।। 3.69.16 ।।

एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः ।

कर्णनासौ स्तनौ चास्या निचकर्तारिसूदनः ।। 3.69.17 ।।

एवमिति । कर्णनासावित्यत्र एकवद्भावाभाव आर्षः । नासाशब्दस्य पुँल्लिङ्गता चार्षी ।। 3.69.17 ।।

कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च ।

यथागतं प्रदुद्राव राक्षसी भीमदर्शना ।। 3.69.18 ।।

कर्णेति । एकवद्भावे सप्तमी ।। 3.69.18 ।।

तस्यां गतायां गहनं विशन्तौ वनमोजसा ।

आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ ।। 3.69.19 ।।

तस्यामिति । गहनं दुष्प्रवेशं वनं विशन्तौ वनमध्यं गच्छन्तौ आसेदतुः, वक्ष्यमाणनिमित्तानीति शेषः ।। 3.69.19 ।।

लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः ।

अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम् ।। 3.69.20 ।।

लक्ष्मणस्त्विति । महातेजा इत्यदीनतोक्तिः । सत्त्ववान् निर्मलमनस्कः शीलवान् सद्वृत्तवान् शुचिः कायशुद्धियुक्तः एभिर्विशेषणैर्भ्रातृभक्तिरुक्ता ।। 3.69.20 ।।

स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः ।

प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ।। 3.69.21 ।।

स्पन्दत इति । बाहुः वाम इति शेषः । उद्विग्नं कम्पितम् । अनिष्टानि अनिष्टसूचकानि ।। 3.69.21 ।।

तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् ।

ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम् ।। 3.69.22 ।।

तस्मादिति । मम वचनमित्यन्वयः । सम्भ्रमं भयम् ।। 3.69.22 ।।

एष वञ्चुलको नाम पक्षी परमदारुणः ।

आवयोर्विजयं युद्धे शंसन्निव विनर्दति ।। 3.69.23 ।।

एष इति । वञ्चुलकः कर्णवालाख्यः पक्षिविशेषः “वञ्चुलः कर्णवालः स्यात्” इति निघण्टुः । विनर्दति कूजति ।। 3.69.23 ।।

तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा ।

सञ्जज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम् ।। 3.69.24 ।।

तयोरिति । एवम् एतादृशोक्तिपूर्वकम् अन्वेषतोः अन्वेषमाणयोः । प्रभञ्जन् प्रभञ्जयन् ।। 3.69.24 ।।

संवेष्टितमिवात्यर्थं गगनं मातरिश्वना ।

वनस्य तस्य शब्दोभूद्दिवमापूरयन्निव ।। 3.69.25 ।।

मातरिश्वना वायुना संवेष्टितं पूरितम्, अयमुत्पातविशेषः । शब्दः पूर्वोक्तिः तस्य वनस्य सम्बन्धिनीं दिवम् आकाशम् आपूरयन्निवाभूत् ।। 3.69.25 ।।

तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः ।

ददर्श सुमहाकायं राक्षसं विपुलोरसम् ।। 3.69.26 ।।

तं काङ्क्षमाणः किमस्योत्पत्तिमूलमिति ज्ञातुमिच्छन् । गत्वेति शेषः । कक्षे गुल्मे । ददर्श दूरादिति शेषः ।। 3.69.26 ।।

आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् ।

विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम् ।। 3.69.27 ।।

रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् ।

नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ।। 3.69.28 ।।

अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता ।

महापक्ष्मेण पिङ्गेन विपुलेनायतेन च ।। 3.69.29 ।।

एकेनोरसि घोरेण नयनेनाशुदर्शिना ।

महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् ।। 3.69.30 ।।

भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान् ।

घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ ।। 3.69.31 ।।

कराभ्यां विविधान् गृह्य ऋक्षान् पक्षिगणान् मृगान् ।

आकर्षन्तं विकर्षन्तमनेकान् मृगयूथपान् ।

स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः ।। 3.69.32 ।।

आसेदतुरित्यादिसार्धषट्रछ्लोकी । प्रमुखे अग्रे । विवृद्धम् उन्नतम् । अशिरोग्रीवम् अदृश्यमानशिरोग्रीवम् अत एव कबन्धम् अन्वर्थकबन्धनामकम् । उदरेमुखम् । “अमूर्धमस्तकात्स्वाङ्गादकामे” इत्यलुक् । रोमभिरुपलक्षितम् । निचितैर्निबिडैः । अग्निज्वालानिकाशेन तत्सदृशेन महापक्ष्मेण महापक्ष्मणा । अदन्तत्वमार्षम् । विपुलेन विस्तीर्णेन आयतेन दीर्घेण उरसि उरोन्तर्गतशिरस्कत्वेन उरसि दृश्यमानेनेत्यर्थः । लेलिहानं पुनःपुनर्जिह्वया लेहनं कुर्वन्तम् । महामुखं विपुलास्यरन्ध्रं विकुर्वाणं व्यापारयन्तम् । योजनमिति अध्ववाचित्वादत्यन्तसंयोगे द्वितीया । आकर्षन्तम् आभिमुख्येन कर्षन्तम् । विकर्षन्तं विशेषेण कर्षन्तं मृगयूथपानिति मृगविशेषणम् । प्रपन्नयोः समीपं प्राप्तयोः ।। 3.69.2732 ।।

अथ तौ समभिक्रम्य क्रोशमात्रे ददर्शतुः ।

महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् ।। 3.69.33 ।।

कबन्धमिव संस्थानादतिघोरप्रदर्शनम् ।। 3.69.34 ।।

अथेति सार्धश्लोक एकान्वयः । अथ आसादनानन्तरम् । समभिक्रम्य आभिमुख्येन गत्वा क्रोशमात्रे समीपे ददर्शतुः ददृशतुः । दारुणं भीमम् अतिशयेन भीमम् । भूजाभ्यां मृगान् संवृणोतीति भुजसंवृतम् । संस्थानात् देहस्थित्या कबन्धमिव सर्वदा अशिरस्कत्वलक्षणकबन्धवत् स्थितम् ।। 3.69.33,34 ।।

स महाबाहुरत्यर्थं प्रसार्य विपुलौ भूजौ ।

जग्राह सहितावेव राघवौ पीडयन्बलात् ।। 3.69.35 ।।

स इति । सहितावेव नैकमपि मुक्त्वेत्यर्थः ।। 3.69.35 ।।

खड्गिनौ दृढधन्वानौ तिग्मतेजोवपुर्धरौ ।ड्गि

भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ ।। 3.69.36 ।।

खड्गिनाविति । तिग्मं खरं तेजो यस्य तत्तथा तादृशवपुर्धरौ विवशं पारवश्यं प्राप्तौ ।। 3.69.36 ।।

तत्र धैर्येण शूरस्तु राघवो नैव विव्यथे ।

बाल्यादनाश्रयत्वाच्च लक्ष्मणस्त्वतिविव्यथे ।

उवाच च विषण्णः सन् राघवं राघवानुजः ।। 3.69.37 ।।

तत्रेति । तत्र तस्यामवस्थायां बाल्यात् बालबुद्धित्वात् । रामवदप्रौढबुद्धित्वादित्यर्थः । अनाश्रयत्वात् धैर्यानालम्बनात् अतिविव्यथे अत्यन्तं खिन्नो ऽभूत् उवाच च ।। 3.69.37 ।।

पश्य मां वीर विवशं राक्षसस्य वशं गतम् ।

मयैकेन विनिर्युक्तः परिमुञ्चस्व राघव ।। 3.69.38 ।।

मां हि भूतबलिं दत्त्वा पलायस्व यथासुखम् ।। 3.69.39 ।।

पश्येत्यादि । राक्षसस्य वशङ्गतत्वेन विवशमिति योजना । विनिर्युक्तः वियुक्तः । एतस्यैव विवरणं मामिति । भूतबलिं भूतस्य कबन्धस्य बलिम् ।। 3.69.38,39 ।।

अधिगन्तासि वैदेहीमचिरेणेति मे मतिः ।। 3.69.40 ।।

अधीत्येकार्धम् ।। 3.69.40 ।।

प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम् ।

तत्र मां राम राज्यस्थः स्मर्तुमर्हिसि सर्वदा ।। 3.69.41 ।।

प्रतिलभ्येति । तत्र मह्याम् ।। 3.69.41 ।।

लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत् ।

मा स्म त्रासं कृथा वीर न हि त्वादृग्विषीदति ।। 3.69.42 ।।

लक्ष्मणेनेति । स्पष्टम् ।। 3.69.42 ।।

एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ ।

पप्रच्छ घननिर्घोषः कबन्धो दानवोत्तमः ।। 3.69.43 ।।

एतस्मिन्निति । एतस्मिन्नन्तरे लक्ष्मणाश्वासनावसरे ।। 3.69.43 ।।

कौ युवां वृषभस्कन्धौ महाखङ्गधनुर्धरौ ।

घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ ।। 3.69.44 ।।

काविति । भक्षौ आहारौ ।। 3.69.44 ।।

वदतं कार्यमिह वां किमर्थं चागतौ युवाम् ।

इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः ।। 3.69.45 ।।

वदतमिति । इह वने वां युवयोः कार्यं वदतम् । लोण्मध्यमपुरुषद्विवचनम् । वामिह वने किं कार्यं किं कर्तव्यं किमर्थं कस्य प्रयोजनाय आगतौ न किमप्यस्त्यत्र वां प्रयोजनं प्रत्युतास्मत्प्रयोजनमेव सिद्धमित्याह इममिति । इह तिष्ठतः ममेति शेषः । क्षुधार्तस्य मम सम्बन्धिनमिमं देशमनुप्राप्तावित्यनेन मम क्षुन्निवृत्त्यर्थमेव वामागमनमिति भावः ।। 3.69.45 ।।

सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ ।

ममास्यमनुमम्प्राप्तौ दुर्लभं जीवितं पुनः ।। 3.69.46 ।।

आगमने आवयोः का हानिरित्यत्राह सबाणेति ।। 3.69.46 ।।

तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः ।

उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ।। 3.69.47 ।।

तस्येति । मुखेन उपलक्षित इति शेषः ।। 3.69.47 ।।

कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम ।

व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् ।। 3.69.48 ।।

कृच्छ्रादिति । कृच्छ्रात्कृच्छ्रतरं राज्यभ्रंशवनवाससीताहरणपर्यन्तं प्राप्यावस्थितयोः पुनश्च तां प्रियामप्राप्यैव आवयोर्जीवितान्ताय दारुणं व्यसनं दुःखं प्राप्तम् ।। 3.69.48 ।।

कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण ।

त्वां च मां नरव्याघ्र व्यसनैः पश्य मोहितौ ।। 3.69.49 ।।

अत्र हेतुमाह कालस्येति । सर्वभूतेष्वपि कालस्य वीर्यं सुमहत्, अनर्गलमित्यर्थः । त्वां च मां च महाबलपराक्रमावपि व्यसनैर्मोहितौ करोति पश्य ।। 3.69.49 ।।

नातिभारो ऽस्ति दैवस्य सर्वभूतेषु लक्ष्मण ।

शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ।

कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ।। 3.69.50 ।।

उक्तमर्थमुपपादयति नातीति सार्धश्लोक एकान्वयः । वालुकसेतवः सिकतामयसेतवः ।। 3.69.50 ।।

इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् ।

अवेक्ष्य सौमित्रिमुदग्रपौरुषं स्थिरां तदा स्वां मतिमात्मनाकरोत् ।। 3.69.51 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनसप्ततितमः सर्गः ।। 69 ।।

इतीति । सौमित्रिं दीनमवेक्ष्य स्वां मतिम् आत्मनैव स्थिरामकरोत् ।। 3.69.51 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनसप्ततितमः सर्गः ।। 69 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.