75 Sarga अरण्यकाण्डः

दिवं तु तस्यां यातायां शबर्या स्वेन तेजसा ।

लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ।। 3.75.1 ।।

अथ पम्पागमनं पञ्चसप्ततितमे दिवं त्वित्यादि । स्वेन तेजसा उपलक्षितायामिति शेषः ।। 3.75.1 ।।

स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् ।

हितकारिणमेकाग्रं लक्ष्मणं राघवो ऽब्रवीत् ।। 3.75.2 ।।

एकाग्रम् एकचित्तम् ।। 3.75.2 ।।

दृष्टो ऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् ।

विश्वस्तमृगशार्दूलो नानाविहगसेवितः ।। 3.75.3 ।।

बह्वाश्चर्यः अत्यद्भुतपुष्पफलादिसम्पत्तिसकलतीर्थसमागमादिना आश्चर्ययुक्तः । विश्वस्ताः विश्वासं प्राप्ताः । परस्परहिंसकत्वरहिताः मृगाः शार्दूलाश्च यस्मिन् तथा ।। 3.75.3 ।।

सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण ।

उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ।। 3.75.4 ।।

उपस्पृष्टं स्नातम् । अनेन पुण्यतीर्थप्राप्तौ स्नानश्राद्धादिकं कर्तव्यमित्युक्तम् ।। 3.75.4 ।।

प्रनष्टमशुभं तत्तत्कल्याणं समुपस्थितम् ।

तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण सम्प्रति ।। 3.75.5 ।।

तत्तदशुभं प्रनष्टम् । कल्याणं शुभं तेन अशुभनिवृत्तिपूर्वकशुभप्राप्त्या ।। 3.75.5 ।।

हृदये हि नरव्याघ्र शुभमाविर्भविष्यति ।। 3.75.6 ।।

हृदये इत्यर्धमेकम् । शुभं शुभस्मरणम् ।। 3.75.6 ।।

तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ।

ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ।। 3.75.7 ।।

यस्मिन् वसति धर्मात्मा सुग्रीवो ऽशुंमतः सुतः ।

नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरौः ।। 3.75.8 ।।

तदित्यादिश्लोकद्वयम् । अंशुमतः सूर्यस्य ।। 3.75.7,8 ।।

अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ।

तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ।। 3.75.9 ।।

अभीति । मे सीताया इत्यन्वयः ।। 3.75.9 ।।

एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत् ।

गच्छावस्त्वरितं तत्र ममापि त्वरते मनः ।। 3.75.10 ।।

धीरं कृतधैर्यमित्यर्थः ।। 3.75.10 ।।

आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः ।

आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः ।। 3.75.11 ।।

ततः अनन्तरम् । विशां प्रजानां पतिः । ततः तत्र मार्गे । अभिभवतीत्यभुभूः अभिभावक इत्यर्थः । शत्रूणामित्यर्थसिद्धम् । प्रभुरित्यपि पाठः ।। 3.75.11 ।।

स ददर्श ततः पुण्यामुदारजनसेविताम् ।

नानाद्रुमलताकीर्णां पम्पां पानीयवाहिनीम् ।। 3.75.12 ।।

पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः ।

नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव ।। 3.75.13 ।।

स ददर्स ततः पुण्यामित्यादी द्वौ श्लोकौ । उदारजनाः श्रेष्ठजनाः मुनिप्रभृतयः । पानीयवाहीनीं पानार्हशीतलस्वादुजलवतीमित्यर्थः । सौगन्धिकैः कह्लारैः कुवलयोद्घाटैः कुवलयसमूहैः । कुथा चित्रकम्बलम् । ददर्श दूरादिति बोध्यम् । अग्र इत्यनुवादात् ।। 3.75.12,13 ।।

स तामासाद्य वै रामौ दूरादुदकवाहिनीम् ।

मतङ्गसरसं नाम ह्रदं समवगाहत ।। 3.75.14 ।।

उदकवाहीनीं तां दूरादासाद्य मतङ्गसरसं नाम मतङ्गसरसमिति प्रसिद्धम् । “अनोश्मायः सरसां जातिसञ्ज्ञयोः” इति टच् समासान्तः । ह्रदं पम्पासमीपस्थं सरः । समवगाहत सस्नौ, पुण्यतीर्थत्वदिति भावः ।। 3.75.14 ।।

अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् ।

पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ।। 3.75.15 ।।

दूरतः पम्पादर्शनमनुवदन् तत्तीरवनदर्शनमाह षड्भिः अरविन्देत्यादि । अरविन्दं रक्ताब्जम् । पद्मैः सितपद्मैः । आम्रवणं चूतवनम् । बर्हिणोद्घुष्टं मयूरशब्दः तेन नादितां सञ्जातनादाम् ।। 3.75.15 ।।

तिलकैर्बीजपूरैश्च धवैः शुक्लद्रुमैस्तथा ।

पुष्पितैः करवीरैश्च पुन्नागैश्च सुपुष्पितैः ।। 3.75.16 ।।

तिलकैः क्षुरकवृक्षैः बीजपूरैः दाडिमैः । धवैः धवाख्यैर्वृक्षविशेषैः । शुक्लद्रुमैः अर्जुनवृक्षैः । करवीरैः प्रसिद्धैः । पुन्नागैः तुङ्गवृक्षैः ।। 3.75.16 ।।

मालतीकुन्दगुल्मैश्च भाण्डीरैर्निचुलैस्तथा ।

अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः ।। 3.75.17 ।।

अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम् ।

समीक्षमाणौ पुष्पाढ्यं सर्वतो विपुलद्रुमम् ।। 3.75.18 ।।

मालतीति । मालतीगुल्मैः कुन्दगुल्मैश्चेत्यन्वयः । भाण्डीरैः वटैः । निचुलैः वञ्जुलैः । सप्तपर्णैः विषमच्छदवृक्षैः । अतिमुक्तकैः नेमिवृक्षैः । भूषितां शोभिताम् अत एव प्रमदामिव स्थितां सर्वतः चतुर्दिक्प्रदेशे ऽपि ।। 3.75.17,18 ।।

कोयष्टिकैश्चार्जुनकैः शतपत्त्रैश्च कीरकैः ।

एतैश्चान्यैश्च विहगैर्नादितं तु वनं महत् ।। 3.75.19 ।।

ततो जग्मतुरव्यग्रौ राघवौ सुसमाहितौ ।

तद्वनं चैव सरसः पश्यन्तो शकुनैर्युतम् ।। 3.75.20 ।।

कोयष्टिकैः टिट्टिभाख्यैः पक्षिविशेषैः । अर्जुनकैः पक्षिविशेषैः । शतपत्त्रैः दार्वाघाटैः । कीरकैः शुकैः । अव्यग्रौ सुसमाहितौ व्याकुलत्वरहितौ प्रत्युत सावधानौ चेत्यर्थः । राघवौ अरविन्दोत्पलवतीमित्यादिविशेषिताम् तिलकादिभिर्वृक्षैर्भूषिताम् अत एव प्रमदामिव स्थितां पम्पां सर्वतः समीक्षमाणौ ततः पुष्पाढ्यं सर्वतो विपुलद्रुमं कोयष्टिकादिभिर्विहगैर्नादितम् अन्यैः शकुनैश्च युतं सरसः पम्पायाः सम्बन्धि तद्वनं च पश्यन्तावेव सन्तौ अव्यग्रौ सुसमाहितौ च सन्तौ तद्वनं जग्मतुरिति सम्बन्धः । अतो न वनशब्दद्वयदोषः ।। 3.75.19,20 ।।

स ददर्श ततः पम्पां शीतवारिनिधिं शुभाम् ।

प्रहृष्टनानाशकुनां पादपैरुपशोभिताम् ।

[ तिलकाशोकपुन्नागवकुलोद्दालकाशिनीम् ] ।। 3.75.21 ।।

समीपतः पम्पादर्शनमाह स ददर्शेति ।। 3.75.21 ।।

स रामो विविधान् वृक्षान् सरांसि विविधानि च ।

पश्यन् कामाभिसन्तप्तो जगाम परमं ह्रदम् ।। 3.75.22 ।।

अथ पम्पाप्राप्तिमाह स राम इति । परमं ह्रदं पम्पाख्यं सरः ।। 3.75.22 ।।

पुष्पितोपवनोपेतां सालचम्पकशोभिताम् ।

षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् ।। 3.75.23 ।।

स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसन्तताम् ।

स तां दृष्ट्वा पुनः पम्पां पद्मसौगन्धिकैर्युताम् ।

इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः ।। 3.75.24 ।।

पाप्त्यनन्तरं पम्पां दृष्ट्वा लक्ष्मणं प्रत्याह पुष्पितेत्यादि सार्धश्लोकद्वयम् । सालाः सर्जकवृक्षाः । चम्पकाः चाम्पेयवृक्षाः ।। 3.75.23,24 ।।

अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ।

ऋश्यमूक इति ख्यातः पुण्यः पुष्पितपादपः ।। 3.75.25 ।।

अस्या इति । पूर्वोक्तः कबन्धेनेति शेषः ।। 3.75.25 ।।

हरेर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः ।

अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ।। 3.75.26 ।।

हरेर्वानरस्य । तस्य प्रसिद्धस्य । तमृश्यमूकम् ।। 3.75.26 ।।

सुग्रीवमभिगच्छ त्वं वानरेन्दं नरर्षभ ।

इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ।। 3.75.27 ।।

सुग्रीवमिति । अभिगच्छेत्यनन्तरमित्युक्त्वेति शेषः । इति वक्ष्यमाणप्रकारेण सुग्रीवमभिगच्छेत्युक्त्वा लक्ष्मणं पुनरित्युवाचेत्यन्वयः ।। 3.75.27 ।।

राज्यभ्रष्टेन दीनेन तस्यामासक्तचेतसा ।

कथं मया विना शक्यं सीतां लक्ष्मण जीवितुम् ।। 3.75.28 ।।

राज्यभ्रष्टेन अत एव दीनेन सर्वदैन्यपरिहारार्थं तस्यां सीतायाम् आसक्तचेतसा मया, सीतां विना कथं जीवितुं शक्यम् ।। 3.75.28 ।।

इत्येवमुक्त्वा मदनाभिपिडितः स लक्ष्मणं वाक्यमनन्यचेतसम् ।

विवेश पम्पां नलीनीं मनोहरां रघूत्तमः शोकविषादयन्त्रितः ।। 3.75.29 ।।

अनन्यचेतसं स्ववाक्यश्रवणे सावधानम् । विवेश स्नानायेति शेषः । नलिनीं सरसीम् । शोकः, दुःखम्, विषादः तत्कृतः कार्यकरणापाटवरूपशरीरावसादः ताभ्यां यन्त्रितः नियमितः, तत्परवश इत्यर्थः ।। 3.75.29 ।।

ततो महद्वर्त्म सुदूरसङ्क्रमः क्रमेण गत्वा प्रतिकूलधन्वनम् ।

ददर्श पम्पां शुभदर्शकाननामनेकनानाविधपक्षिजालकाम् ।। 3.75.30 ।।

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये श्रीमद्वाल्मीकीये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदारण्यकाण्डे पञ्चसप्ततितमः सर्गः ।। 75 ।।

।। श्रीरामचन्द्रार्पणमस्तु ।।

।। इत्यरण्यकाण्डम् ।।

सर्गार्थं सङ्गृह्णाति तत इति । सुदूरं सङ्क्रमः गमनं यस्य तथा दूरादागत इत्यर्थः । प्रतिकूलधन्वनं पथिकजनप्रतिकूलभूतमरुकान्तारम्, कबन्धवनमित्यर्थः । क्रमेण अनेकविघ्ननिवृत्तिपूर्वकं गत्वा शुभः शोभनः दर्शः दर्शनं यस्य तादृशं काननं यस्यास्ताम् । अनेके नानाजातीयाः बहवो वा नानाविधाः नानासंस्थानाः पक्षिणः शुकशारिकाकोकिलप्रभृतयः तेषां जालकानि समूहाः यस्यां ताम् । यद्वा अनेकानि नानाविधपक्षिजालकानि यस्यां ताम्, काननद्वारा पक्षिजालवत्त्वम्, तादृशीं पम्पां ददर्श । अस्मिन्सर्गे त्रिंशच्छ्लोकाः । न्यूनातिरेकसद्भावस्तु कोशेषु बहुधा दृश्यते ।। 3.75.30 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चसप्ततितमः सर्गः ।। 75 ।।

इत्थं कौशिकदिव्यवंशकलशीवाराशिराकाशशी पादाम्भोजमरन्दभोगरसिकः श्रीमच्छठारेर्गुरोः ।

आलोक्याखिलदेशिकोत्तमकृतव्याख्यानशैलीश्चिरं व्याचख्यौ तदरण्यकाण्डमखिलं गोविन्दराजाभिधः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.