20 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः विंशः सर्गः

तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।

मुहूर्तमिव निःसञ्ज्ञः सञ्ज्ञावानिदमब्रवीत् ।। 1.20.1 ।।

कौशिकवचनश्रवणाद्दशरथविषादो विंशे तच्छ्रुत्वेत्यादि । निःसंज्ञ इव चेतनारहित इव, मूर्च्छित इत्यर्थः ।। 1.20.1 ।।

ऊनषोडशवर्षो मे रामो राजीवलोचनः ।

न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ।। 1.20.2 ।।

“यज्ञे विघ्नकरं हन्याम्” इत्युक्तरीत्या निजयज्ञविघ्ननिवर्तको ऽयं भविष्यतीति मत्वा आगत्य प्रार्थयमाने विश्वामित्रे वत्सलो दशरथः प्रेमान्धतया कलुषितहृदयः अहं वेद्मीति तदुक्तमपि मनस्यकुर्वन् रामस्य बाल्यमेव पुरस्कुर्वन्नाह ऊनेति । ऊनाः असम्पूर्णाः षोडशवर्षा यस्य स तथोक्तः, द्वादशवर्ष इति यावत् । “बालो द्वादशवर्षो यमकृतास्त्रश्च राघवः” इति विशिष्यवक्ष्यमाणत्वात् । परिपूर्णषोडशवर्षो हि युद्धक्षमो भवति । द्वादशवर्षो बालः कथं युद्धाय प्रभवतीति भावः । एवं वयःस्वरूपे विचार्यमाणे नास्य युद्धयोग्यतेत्युक्तम् । राक्षसैस्तु सुतरां नेत्याह राजीवलोचन इति । पद्मतुल्यनयनः, पद्मं हि रात्रौ मुकुलीभवति, तत्तुल्यतोक्तौ रात्रौ निद्रालसो रामो रात्रिञ्चरैः कथं योद्धुं शक्नोतीति भावः । मे रामः सदा मदुत्सङ्गपरिवर्तितया मद्विरहासहिष्णुरित्यर्थः । यद्वा पुत्रालाभेन षष्टिवर्षसहस्रणि लालप्यमानस्यातिक्लेशेनोत्पन्नः । रामः “रामो रतिकरः पितुः” इति रतिकरः सर्वस्वभूतः । अस्य काकपक्षधरत्वादिवेषयुतो विद्याभ्यासादपि क्रीडनकस्वीकारकुतूहलीति हस्तेन निर्दिशति । युद्धयोग्यतां न पश्यामि, किन्तु क्रीडनकस्वीकारयोग्यतामेव पश्यामीत्यर्थः । युद्धयोग्यतां राक्षसशब्दश्रवणमात्रेणैव बिभ्यतां कथं युद्धयोग्यता । सह राक्षसैः मनुष्येणापि युद्धव्यापारमजानतः कथं राक्षसैः युद्धम् । एकेनापि राक्षसेन न योग्यता कुतो बहुभिः । अत्र शङ्क्यते अत्र दशरथेन पित्रा ऊनषोडशवर्ष इत्युक्तम् । ऊनत्वं च मासेन मासत्रयेण षण्मासैर्वा स्यात्, न त्वेकवर्षद्विवर्षादिभिः । तस्मिन्नेव वर्षे सीताविवाहः । तदनु द्वादशवर्षाण्ययोध्यावासः । “समा द्वादश तत्राहं राघवस्य निवेशने । भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी” इति सीतया वक्ष्यमाणत्वात् । तथा च वनप्रवेशकाले रामस्याष्टाविंशतिवर्षाणीति प्रतिभाति । तदनुपपन्नम् “मम भर्ता महातेजा वयसा पञ्चविंशकः । अष्टादश हि वर्षाणि मम जन्मनि गण्यते ।।” इति सीतावचनात्। कौसल्यया च वनप्रवेशसमये प्रोच्यते “दश सप्त च वर्षाणि जातस्य तव पुत्रक। आसितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम्।।” इति । तस्मात् अष्टाविंशतेः पञ्चविंशतेः सप्तदशानां च कथमविरोध इति । अत्र केचित्, कौसल्यावाक्ये जातस्येति द्वितीयं जन्मोच्यते क्षत्रियस्यापि द्विजत्वात् । द्वितीयं जन्म च उपनयनम्, तच्चवृद्धेन दशरथेन काम्यपक्षमाश्रित्य गर्भाष्टम एव कृतम् । तथा च द्वितीयजन्मापेक्षया सप्तदशत्वम् । उपनयनात्पूर्वं सप्तवर्षाणीति “वयसा पञ्चविंशकः” इति सीतावचनमप्युपपन्नम् ।

“ऊनषोडशवर्षः” इत्यत्र पादोनत्वम्, द्वादशवर्ष इत्यन्यत्रोक्तत्वात् । अतः सर्वथा वनप्रवेशकाले पञ्च विंशतिवर्ष एव राम इत्याहुः । अन्ये बहुक्लेशं सहमाना एवं व्याचख्युः अष्टाविंशतिवर्ष एव वनप्रवेशे रामः । ऊनषोडशवर्ष इति यत्किञ्चिन्मासोन षोडशवर्षवयस्क इत्यर्थः । “बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम्” इति दशरथवचने बाल्ययौवनसन्धौ बाल इति व्यवहर्तुं शक्यत्वात् । “बाल आषोडशाद्वर्षात्पौगण्डश्चेति कीर्त्यते” इति वचनात् । “बालो द्वादशवर्षो ऽयमकृतास्त्रश्च राघवः । अजातव्यञ्जनः श्रीमान् पद्मपत्रनिभेक्षणः ।।” इति मारीचवचनन्तु युद्धभीरुतया भ्रान्तिकृतम्, रावणविभीषिकयोक्तं वा, अत एव स्वयं वायव्यास्त्रभग्नोऽप्यकृतास्त्र इत्याह। अजातव्यञ्जनत्वं च निरुदरा कन्येतिवदल्पश्मश्रुत्वम्। “एकवस्त्रधरो धन्वी शिखी कनकमालया” इत्यपि दृढपरिहितोत्तरीयतया सन्नद्धत्वमाह। वयसा पञ्चविंशक इति तु पञ्चविंशतुल्यत्वमाह। इवार्थे कनो विधानात्। तेन नित्ययौवनत्वं ज्ञापयति। देवा हि सदा पञ्चविंशतिवार्षिका इत्युच्यन्ते। कौसल्यावाक्यमपि “गर्भैकादशेषु राजन्यम्” इति विहितोपनयनापेक्षया। तस्मान्न किञ्चिदनुपपन्नमिति। वस्तुतो वयसा पञ्चविंशक इति सीतायाः शापभीतायाः सन्न्यासिनं प्रति वचनमेव यथार्थम्। दश सप्त च वर्षाणीति कौसल्यावाक्ये तु चकारेण सप्तवर्षाणि समुच्चीयन्ते, तेन जन्मापेक्षयैव पञ्चविंशतित्वसिद्धिः। ननु विवाहानन्तरमेव सम्भोगः श्रूयते “रामस्तु सीतया सार्द्धं विजहार बहुनृतून्”इति। स कथं द्वादशवर्षस्य बालस्य सम्भवति ? सम्भवत्येव, सौकुमार्यातिशयेन प्रौढशरीरतया। अत एव हि देव्याश्च षड्वर्ष एव यौवनारम्भः। “अष्टादश हि वर्षाणि मम जन्मनि गण्यते” इति वनप्रवेशेऽष्टादशत्वम्, विवाहकाले सीतायाः षड्वर्षत्वमवगमयतीति सर्वं सुस्थम् ।। 1.20.2 ।।

इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः ।

अनया संवृतो गत्वा योद्धा ऽहं तैर्निशाचरैः ।। 1.20.3 ।।

तर्हि तव प्रतिज्ञा व्यर्था स्यात्तत्राह इयमिति । अक्षो रथावयवः, तस्य ऊहः । तद्योगादिनिः । “ऋन्नेभ्यो ङीप्” इति ङीपि “पूर्वपदात्सञ्ज्ञायामगः” इति णत्वम् । “अक्षादूहिन्याम् ” इति वृद्धिः । अक्षौहिणी स्वरूपमुक्तमादिपर्वणि “एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते । पत्तिं तु त्रिगुणामेकं विदुः सेनामुखं वुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते । त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः । चमूस्तु पृतनास्तिस्रस्ताश्च तिस्रस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ।।” इति। यस्याहं पतिरिति सन्धिरार्षः। पतिः पालयिता। पातेर्डतिः। ईश्वरः नियन्ता। योद्धा योत्स्ये, लुट्। तैर्यज्ञविघ्नकरैः ।। 1.20.3 ।।

इमे शूराश्च विक्रान्ता भृत्या मे ऽस्त्रविशारदाः ।

योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ।। 1.20.4 ।।

इम इति । विक्रान्ताः अक्षतविक्रमाः ।। 1.20.4 ।।

अहमेव धनुष्पाणिर्गोप्ता समरमूर्द्धनि ।

यावत्प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः ।। 1.20.5 ।।

अहमिति । गोप्ता, यज्ञस्येति शेषः सेनानां वा ।। 1.20.5 ।।

निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ।

अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ।। 1.20.6 ।।

निर्विघ्नेति । अहं गमिष्यामि, तेन सुरक्षिता भविष्यतीति योजना ।। 1.20.6 ।।

बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।

न चास्त्रबलसंयुक्तो न च युद्धविशारदः ।। 1.20.7 ।।

बाल इति । बालः ऊनषोडशवर्षः, अत एव अकृतविद्यः अशिक्षितधनुर्विद्यः । बलाबलम्, शत्रूणामिति शेषः । “येषां च विरोधः शाश्वतिकः” इति एकवद्भावः ।। 1.20.7 ।।

न चासौ रक्षसां योग्यः कूटयुद्धा हि ते भृशम् ।। 1.20.8 ।।

न चेति । रक्षसाम्, युद्ध इति शेषः । कूटयुद्धाः कपटयुद्धाः । इदमर्द्धम् ।। 1.20.8 ।।

विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ।

जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि ।। 1.20.9 ।।

तिष्ठतु रामस्वभावः, मत्स्वभावश्चैवमित्याह विप्रयुक्तः विश्लिष्टः ।। 1.20.9 ।।

यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत ।

चतुरङ्गसमायुक्तं मया च सहितं नय ।। 1.20.10 ।।

यदीति । चत्वारि अङ्गानि चतुरङ्गानि । “दिक्सङ्ख्ये सञ्ज्ञायाम्” इति समासः ।। 1.20.10 ।।

षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ।

दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि ।। 1.20.11 ।।

षष्टिरिति । वर्षसहस्राणि, अतीतानीति शेषः । तदनन्तरं दुःखेन उपवासदीक्षादिक्लेशेन उत्पादितः ।। 1.20.11 ।।

चतुर्णामात्मजानां हि प्रीतिः परमिका मम ।

ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि ।। 1.20.12 ।।

चतुर्णामिति । चतुर्णां पुत्राणां मध्ये रामे परमिका प्रीतिः । स्वार्थे कप्रत्ययः । “प्रत्ययस्थात् कात् ” इतीत् । तस्माज्ज्येष्ठत्वादेश्च न नेतुमर्हसीति योजना ।। 1.20.12 ।।

किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते ।

कथम्प्रमाणाः के चैतान् रक्षन्ति मुनिपुङ्गव ।। 1.20.13 ।।

अथ सर्वथा रामनयनमयुक्तमिति वक्तुं योद्धव्यस्वरूपं पृच्छति किमिति । के च किन्नामधेयाः । कथम्प्रमाणाः, कीदृशाकारा इत्यर्थः । के रक्षन्ति, के तेषां प्रधाना इत्यर्थः ।। 1.20.13 ।।

कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ।

मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् ।। 1.20.14 ।।

कथं चेति । प्रतिकर्तव्यं प्रतिविधेयम् ।। 1.20.14 ।।

सर्वं मे शंस भगवन् कथं तेषां मया रणे ।

स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः ।। 1.20.15 ।।

तस्य तद्वचनं श्रुत्वा विश्वामित्रो ऽभ्यभाषत ।। 1.20.16 ।।

सर्वमिति । तेषां रणे कथं मया स्थातव्यमिति व्यूहप्रकारप्रश्नः ।। 1.20.15,16 ।।

पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ।। 1.20.17 ।।

पौलस्त्येति । राक्षसः अस्तीति शेषः ।। 1.20.17 ।।

स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ।

महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः ।। 1.20.18 ।।

किंवीर्या इत्यस्योत्तरमाह स इति ।। 1.20.18 ।।

श्रूयते हि महावीर्यो रावणो राक्षसाधिपः ।

साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ।। 1.20.19 ।।

प्रसिद्धश्चायमित्याह श्रूयत इति ।। 1.20.19 ।।

यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः ।

तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महाबलौ ।

मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ।। 1.20.20 ।।

यदेति अर्द्धत्रयमेकान्वयम् । यदा यज्ञस्य स्वयं न विघ्नकर्ता, अलक्ष्यत्वादिनेति शेषः ।। 1.20.20 ।।

इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा ।

न हि शक्तो ऽस्मि सङ्ग्रामे स्थातुं तस्य दुरात्मनः ।। 1.20.21 ।।

इतीति । तस्य रावणस्य ।। 1.20.21 ।।

स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके ।

मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ।। 1.20.22 ।।

स इति । अल्पभाग्यस्येति, त्वन्नियोगाकरणेनेति शेषः । प्रसादकरणे हेतुः दैवतमिति ।। 1.20.22 ।।

देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ।

न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ।। 1.20.23 ।।

देवेति । रावणसङ्ग्रामवैमुख्यं न दोषाय, सर्वाशक्यत्वादित्याशयः ।। 1.20.23 ।।

स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः ।

तेन चाहं न शक्नोमि संयोद्धुं तस्य वा बलैः ।

सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ।। 1.20.24 ।।

स हीति, अर्द्धत्रयम् । वीर्यमादत्ते स्वीकरोति, नाशयतीत्यर्थः । तस्य बलैः मारीचादिभिः ।। 1.20.24 ।।

कथमप्यमरप्रख्यं सङ्ग्रामाणामकोविदम् ।

बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ।। 1.20.25 ।।

कथमिति । कथमिति प्रश्ने । राक्षसान् प्रतीति शेषः ।। 1.20.25 ।।

अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ।

यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् ।। 1.20.26 ।।

अथेति । अथ शत्रुस्वरूपज्ञानानन्तरं सुन्दोपसुन्दयोः सुतौ मारीचसुबाहू, सुन्दपुत्रः मारीचः उपसुन्दपुत्रः सुबाहुः । पुत्रकम्, अनुकम्पायां कन् । अतो न दास्यामीत्युपस्कार्यम् ।। 1.20.26 ।।

मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ।

तयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः ।। 1.20.27 ।।

मारीच इति । स्पष्टम् ।। 1.20.27 ।।

इति नरपतिजल्पनाद्द्विजेन्द्रं कुशिकसुतं सुमहान् विवेश मन्युः ।

सुहुत इव समिद्भिराज्यसिक्तः समभवदुज्ज्वलितो महर्षिवह्निः ।। 1.20.28 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे विंशः सर्गः ।। 20 ।।

उत्तरसर्गार्थमन्ते सङ्गृह्णानि इतीति । जल्पनात् असङ्गतोक्तेः । कोपाविष्टत्वे दृष्टान्तमाह सुहुत इति । आदौ समिद्भिः सुहुतः तत आज्यसिक्तो वह्निरिव महर्षिवह्निर्महर्षिश्रेष्ठः उज्ज्वलितस्समभवत् सञ्जातज्वालो बभूव । मुनिपक्षे क्रोधवृद्धिः । पुष्पिताग्रावृत्तम् “अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा” इति लक्षणात् ।। 1.20.28 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने विंशः सर्गः ।। 20 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.