22 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्वाविंशः सर्गः

तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् ।

प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ।। 1.22.1 ।।

अथ प्रसन्नहृदयेन राज्ञा रामविसर्जनं द्वाविंशे तथेत्यादि । सलक्ष्मणं राममिति तयोरविनाभावज्ञानादिति भावः ।। 1.22.1 ।।

कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च ।

पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ।। 1.22.2 ।।

स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् ।

ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ।। 1.22.3 ।।

कृतेत्यादि श्लोकद्वयमेकान्वयम् । पित्रा दशरथेन, स्वेनेति शेषः । कृतस्वस्त्ययनं कृतमङ्गलानुष्ठानम् । मङ्गलैर्मङ्गलसूक्तैः । “स्वस्ति नो मिमीताम्” इत्यादिभिः ।। 1.22.2,3 ।।

ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा ।

विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ।। 1.22.4 ।।

अथ यात्राया शुभनिमित्तसम्पत्तिं दर्शयति तत इत्यादि । गतम् अनुगतम् ।। 1.22.4 ।।

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिःस्वनैः ।

शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ।। 1.22.5 ।।

पुष्पेति । प्रयाते प्रयातुमुपक्रान्ते । देवदुन्दुभिनिस्वनश्च अवतारप्रयोजनोपक्रमत्वात्, शङ्खदुन्दुभिनिर्घोषो दशरथीयः ।। 1.22.5 ।।

विश्वामित्रो ययावग्रे ततो रामो महायशाः ।

काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ।। 1.22.6 ।।

विश्वामित्र इति । धन्वी धनुष्मान् । व्रीह्यादित्वादिनिः ।। 1.22.6 ।।

कलापिनौ धनुष्पाणी शोभयानौ दिशो दश ।

विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ।

अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ।। 1.22.7 ।।

कलापिनावित्यादिसार्द्धश्लोक एकान्वयः । कलापिनौ तूणीरधारिणौ “कलापो भूषणे बर्हे तूणीरे संहतावपि” इत्यमरः । शोभयानौ प्रकाशयन्तौ । आने मुगभावश्छान्दसः । विश्वस्य मित्रं विश्वामित्रः “मित्रेचर्षौ” इति विश्वशब्दस्य दीर्घः । श्रुतिश्च “तस्यों विश्वं मित्रमासीद्यदिदं किञ्च तस्माद्विश्वामित्र इत्याचक्षते” इति । प्रत्येकं तूणीरद्वयधारणाच्छिरोभ्यां च त्रिशीर्षाविवेत्युपमानम्, धनुस्तूणीरशरधरत्वाद्वा । अक्षुद्रौ अनल्परूपवीर्यादिवैभवौ ।। 1.22.7 ।।

तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ ।

बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ।। 1.22.8 ।।

कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ।

अनुयातौ श्रिया दीप्त्या शोभयेतामनिन्दितौ ।

स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ।। 1.22.9 ।।

तदेत्यादिसार्द्धश्लोकद्वयमेकान्वयम् । बद्धं गोधाचर्मकृताङ्गुलित्राणं ययोस्तौ तथा । गोधा हस्तत्राणमित्येके । द्युतिः सामान्यशोभा, श्रीः विशेषशोभा, शोभयेतां व्यत्ययेन लङर्थे लोट् । विश्वामित्रमनुयातौ रामलक्ष्मणौ स्थाणुमनुयातौ कुमाराविवाशोभेतामित्यर्थः । स्थाणुं रुद्रम्, पावकी पावकात्प्रादुर्भूतौ स्कन्दविशाखौ “ततो ऽभवच्चतुर्मूर्तिः क्षणेन भगवान् प्रभुः । स्कन्दो विशाखः शाकश्च नैगमेषश्च पृष्ठतः ।।” इति भारतोक्तेः। अचिन्त्यम् अचिन्त्यवैभवम् ।। 1.22.8,9 ।।

अध्यर्द्धयोजनं गत्वा सरय्वा दक्षिणे तटे ।

रामेति मधुरां वाणीं विश्वामित्रो ऽभ्यभाषत ।। 1.22.10 ।।

अध्यर्द्धेति । अधिकमर्द्धं यस्मिन् तदध्यर्द्धम्, अध्यर्द्धं च तत् योजनं च अध्यर्द्धयोजनम्, सार्द्धयोजनमितियावत् । तावद्दूरगमनेन बालयोः क्षुत्तृट्पीडा माभूदिति तन्निवर्तकविद्याद्वयोपदेशाय आह्वयते रामेति । मधुरां भक्तिपूर्वकोच्चारणात् रामनाम्नः श्रवणानन्दकरत्वाच्च ।। 1.22.10 ।।

गृहाण वत्स सलिलं माभूत् कालविपर्ययः ।

मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ।। 1.22.11 ।।

गृहाणेति । सलिलं गृहाण, शुद्धाचमनं कुर्वित्यर्थः । विपर्ययो ऽतिक्रमः, विलम्ब इति यावत् । मन्त्रग्रामं मन्त्रसमष्टिरूपाम्, इदं बलातिबलयोः प्रत्येकं विशेषणम् ।। 1.22.11 ।।

न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ।

न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैऋताः ।। 1.22.12 ।।

तद्ग्रहणफलमाह न श्रम इत्यादि । विपर्ययः अन्यथाभावः, भविष्यतीति शेषः । सुप्तं, त्वामिति शेषः ।। 1.22.12 ।।

न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ।

त्रिषु लोकेषु वै राम न भवेत् सदृशस्तव ।। 1.22.13 ।।

न बाह्वोरिति । बलामतिबलां च पठतः, तवेति शेषः । अस्ति, स्यादित्यर्थः । त्रिष्वित्यत्र सर्वगुणैः निःसीमत्वमुच्यते ।। 1.22.13 ।।

न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये ।

नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ।। 1.22.14 ।।

नेति । सौभाग्ये सौन्दर्ये । दाक्षिण्ये सामर्थ्ये । बुद्धिनिश्चये बुद्ध्या कार्यनिश्चये समः, भवतीति शेषः ।। 1.22.14 ।।

एतद्विद्याद्वये लब्धे भविता नास्ति ते समः ।

बला चातिबला चैव सर्वज्ञानस्य मातरौ ।। 1.22.15 ।।

सामान्येनोपसंहरति एतदिति । ते समः नास्ति, न भविता चेत्यर्थः । मातरौ कारणभूते ।। 1.22.15 ।।

क्षुत्पिपासे न ते राम भविष्येते नरोत्तम ।

बलामतिबलां चैव पठतः पथि राघव ।। 1.22.16 ।।

क्षुदिति । ते भविष्येते भविष्यतः ।। 1.22.16 ।।

विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि ।

पितामहसुते ह्येते विद्ये तेजःसमन्विते ।। 1.22.17 ।।

विद्येति । अधीयाने त्वयि भवेदिति शेषः । तेजःसमन्विते प्रभावसमन्विते ।। 1.22.17 ।।

प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक ।। 1.22.18 ।।

प्रदातुमिति । तव प्रदातुं त्वमेव सदृशो नान्य इति योजना ।। 1.22.18 ।।

कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ।

तपसा सम्भृते चैते बहुरूपे भविष्यतः ।। 1.22.19 ।।

एतदुपपादयति काममिति । एते पूर्वोक्ताः सौभाग्यादयः । कामं प्रकामं त्वयि सन्ति । यद्यपि तथापि तपसा सम्भृते लब्धे एते विद्ये । त्वदुपदेशात् बहुरूपे लोके बहुधा विस्तृते भविष्यतः ।। 1.22.19 ।।

ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ।

प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ।। 1.22.20 ।।

तत इति । जलं स्पृष्ट्वा, आचम्येत्यर्थः । भावितात्मनः ध्यातात्मस्वरूपात् ।। 1.22.20 ।।

विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ।

सहस्ररश्मिर्भगवान् शरदीव दिवाकरः ।। 1.22.21 ।।

विद्येति । विद्यासमुदितः समुदितविद्यः, लब्धविद्य इति यावत् ।। 1.22.21 ।।

गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।

ऊषुस्तां रजनीं तत्र सरय्वां सुसुखः त्रयः ।। 1.22.22 ।।

गुर्विति । गुरुकार्याणि गुरौ कर्तव्यानि पादसंवाहनादीनि, कुशिकात्मजे नियुज्य कृत्वा, त्रयः स्वयं तौ चेति त्रयः । तत्र सरय्वां सरयूतीरे सुसुखमूषुः । यद्वा एतदर्धस्य पूर्वेणान्वयः । कुशिकात्मजे गुरुकार्याणि नियुज्य विद्यासमुदितो रामः शुशुभ इति ।। 1.22.22 ।।

दशरथनृपसूनुसत्तमाभ्यां तृणशयने ऽनुचिते तदोषिताभ्याम् ।

कुशिकसुतवचो ऽनुलालिताभ्यां सुखमिव सा विबभौ विभावरी च ।। 1.22.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः ।। 22 ।।

दशरथेति । चतुर्थ्यर्थे “बहुलं छन्दसि” इति षष्ठ्यर्थे चतुर्थी । दशरथपुत्रयोर्विभावरी सुखमिव विबभौ, प्रभातेत्यर्थः । इवशब्दो वाक्यालङ्कारे । अत्र रामाय विद्यादानं लक्ष्मणस्याप्युपलक्षणम् । पश्चाद्रामो वा लक्ष्मणायोपदिदेशेति बोध्यम् । पूर्ववत्पुष्पिताग्रावृत्तम् ।। 1.22.23 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्वाविंशः सर्गः ।। 22 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.