श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुर्विंशः सर्गः
ततः प्रभाते विमले कृत्वाह्निकमरिन्दमौ ।
विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ।। 1.24.1 ।।
एवं कामाश्रमपदं रामचरणनलिनविन्यासेन कृतार्थीकृत्य ताटकावनमपि निष्कल्मषीकर्तुं रामं प्रापयति मुनिश्चतुर्विंशे तत इत्यादि । विमले सूर्योदय इत्यर्थः । नद्याः गङ्गायाः ।। 1.24.1 ।।
ते च सर्वे महात्मानो मुनयः संशितव्रताः ।
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ।। 1.24.2 ।।
ते चेति । उपस्थाप्य आनाय्य ।। 1.24.2 ।।
आरोहतु भवान्नावं राजपुत्रपुरस्कृतः ।
अरिष्टं गच्छ पन्थानं माभूत्कालविपर्ययः ।। 1.24.3 ।।
आरोहत्विति । राजपुत्राभ्यां पुरस्कृतः पूजितः । ताटकावधाभिप्रायेणाहुः अरिष्टमिति । अरिष्टं शुभं यथा भवति तथा । “अरिष्टं पापशुभयोः” इति हलायुधः । कालविपर्ययः कालविलम्ब इति यावत् ।। 1.24.3 ।।
विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च ।
ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ।। 1.24.4 ।।
विश्वामित्र इति । ततार तरितुं प्रवृत्तः । सरितं गङ्गां, सागरं गच्छतीति सागरङ्गमाम् । खश्प्रकरणे “गमेस्सुप्युपसङ्ख्यानम्” इति खश् ।। 1.24.4 ।।
ततः शुश्राव वै शब्दमतिसंरम्भवर्द्धितम् ।
मध्यमागम्य तोयस्य सह रामः कनीयसा ।। 1.24.5 ।।
तत इति । अतिसंरम्भेण तरङ्गपरस्परसङ्घट्टजक्षोभेण । वर्द्धितम् अतिप्रवृद्धम् ।। 1.24.5 ।।
अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ।
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ।। 1.24.6 ।।
अथेति । भिद्यमानस्य परस्परं मिलितस्य वारिणः । तुमलः निबिडो ऽयं ध्वनिः । किं वारिसम्भेदकृतः उतान्यकृत इतिप्रश्नः ।। 1.24.6 ।।
राघवस्य वचः श्रुत्वा कौतूहलसमन्वितः ।
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ।। 1.24.7 ।।
राघवस्येति । निश्चयं कारणनिश्चयम् ।। 1.24.7 ।।
कैलासपर्वते राम मनसा निर्मितं सरः ।
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ।। 1.24.8 ।।
अस्य ध्वनेः कारणं वारिसम्भेद एवेति वक्ष्यन् कस्या वारिण इति प्रक्ष्यतीति मत्वा सरय्वा इति वक्तुं सरयूवैभवमाह कैलासेति । कैलासपर्वते कुबेरभवने । ब्रह्मणा मनसा निर्मितं सरो ऽस्ति । तेन
मनसा निर्मितत्वेन इदं सरः मानसमित्युच्यते ।। 1.24.8 ।।
तस्मात्सुस्राव सरसः सा ऽयोध्यामुपगूहते ।
सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ।। 1.24.9 ।।
तस्मादिति । उपगूहते आवृत्य प्रवहते । अयोध्यायाः पश्चिमभागमारभ्य उत्तरदिग्भागेन पूर्वभागमागत्य अङ्गदेशे गङ्गया सह युज्यते सरयूः, तयोः नद्योः सम्भेदे स्थाण्वाश्रमः, तस्मात् सरयूयुक्तगङ्गातरणदशायां सरयूजलमुन्नतात् भागीरथ्यां पततीति तस्य ध्वनिरिति ज्ञयेम् । सरयूशब्दं निर्वक्ति सर इति । सरसो यौतीति सरयूः । पाठान्तरं सरसो यातीति सरयूः । सकारस्य शकन्ध्वादित्वात्पररूपम्, “ऊङुतः” इति स्त्रीप्रत्यय ऊकारः । कस्मात्सरसः प्रवृत्तेत्यत आह ब्रह्मसरश्च्युतेति ।। 1.24.9 ।।
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ।
वारिसङ्क्षोभजो राम प्रणामं नियतः कुरु ।। 1.24.10 ।।
तस्येति । या गङ्गामभिवर्त्तते गङ्गया संयुज्यते । अयमतुलः शब्दः तस्याः वारिसङ्क्षोभजः । सन्धिरार्षः । नियतः नियतमनस्कः सन् ताभ्यां नदीभ्यां प्रणामं कुरु । को ऽयं ध्वनिरिति रामेण पृष्टे सरयूवारिसङ्घट्टज इति वक्तव्ये तदुत्पत्तिकथनं नन्तव्यत्वाय ।। 1.24.10 ।।
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ।
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ।। 1.24.11 ।।
ताभ्यामिति । तीरं दक्षिणमिति नदीसम्भेदे रात्रिमुषित्वाप्रातर्दक्षिणाभिमुखा गङ्गां तेरुः । ततो गङ्गादक्षिणतीरे ताटकावनमिति ज्ञेयम् ।। 1.24.11 ।।
स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः ।
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ।। 1.24.12 ।।
स इति । सङ्काशत इति सङ्काशः, घोरसङ्काशं घोररूपमिति यावत् । अविप्रहतम् अक्षुण्णम्, जनसञ्चाररहितमित्यर्थः ।। 1.24.12 ।।
अहो वनमिदं दुर्गं झिल्लिकागणनादितम् ।
भैरवैः श्वापदैः पूर्णं शकुन्तैर्दारुणारुतैः ।। 1.24.13 ।।
नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवैः स्वनैः ।
सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम् ।। 1.24.14 ।।
धवाश्वकर्णककुभैर्मरुतिन्दुकपाटलैः ।
सङ्कीर्णं बदरीभिश्च किं न्वेतद्दारुणं वनम् ।। 1.24.15 ।।
अहो इत्यादिश्लोकत्रयम् । झिल्लिका भूतलाद्यन्तरितकीटविशेषः । भैरवैः भयङ्करैः । श्वापदैः क्रूरमृगैः । शकुन्तै भासैः । “शकुन्तौ भासपक्षिणौ” इत्यमरः । शकुनैः पक्षिभिः । वाश्यद्भिः कुत्सितं शब्दायमानैः । धवः अश्वकर्णः ककुभः मरुतिन्दुकः पाटलः इदं वनमेतादृशम् । अहो इदं वनं दारुणम् । किन्नु किन्नामकमित्यन्वयः ।। 1.24.13 15 ।।
तमुवाच महातेजा विश्वामित्रो महामुनिः ।
श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् ।। 1.24.16 ।।
तमिति । एतद्दारुणं वनं यस्य प्राणिनः स श्रूयतामिति योजना ।। 1.24.16 ।।
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ।
मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ ।। 1.24.17 ।।
एताविति । स्फीतौ प्रवृद्धधनधान्यौ । मलदाश्च करूशाश्च मलदकरूशनामधेयौ । अवयवबहुत्वाद्बहुवचनम् । मत्स्याः पाञ्चाला इतिवत् । देवनिर्माणेन देवनिर्माणतुल्यनिर्माणेन निर्मितौ, देवलोकसमसंस्थानावित्यर्थः ।। 1.24.17 ।।
पुरा वृत्रवधे राम मलेन समभिप्लुतम् ।
क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ।। 1.24.18 ।।
मलदकरूशसञ्ज्ञानिमित्तमाह पुरेत्यादि । वृत्रवधे कृते सति, मलेन अशुचित्वेन क्षुधा बुभुक्षया च समभिप्लुतं व्याप्तम् इन्द्रं ब्रह्महत्या समाविशत् । ब्रह्महत्यावशेन मलक्षुधाविन्द्रस्याभूतामित्यर्थः ।। 1.24.18 ।।
तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधनाः ।
कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् ।। 1.24.19 ।।
तमिति । स्नापयन् गङ्गादितीर्थेषु स्नापयन्, पुनर्मन्त्रपूतैः कलशैः कलशोदकैः स्नापयामासुः । तेन स्नापनेनास्येन्द्रस्य मलं चकारात् कारूशं प्रमोचयन् प्रामोचयन् ।। 1.24.19 ।।
इह भूम्यां मलं दत्त्वा दत्त्वा कारूशमेव च ।
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ।। 1.24.20 ।।
इहेति । करूशमेव कारूशम् । स्थानप्रमाणात् क्षुधमित्यर्थः ।। 1.24.20 ।।
निर्मलो निष्करूशश्च शुचिरिन्द्रो यदा ऽभवत् ।
ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ।। 1.24.21 ।।
निर्मल इति । शुचिः ब्रह्महत्यातः पूतः ।। 1.24.21 ।।
इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ।
मलदाश्च करूशाश्च ममाङ्गमलधारिणौ ।। 1.24.22 ।।
वरमेवाह इमाविति । मलं द्यति खण्डयतीति मलदः । “अन्येभ्योपि दृश्यते” इति खच् । करूशमस्यास्तीति करूशः । अङ्गमलधारिणौ करूशस्याप्युपलक्षणमिदम् । एतौ ममाङ्गमलकरूशधारणान्मलदाः करूशाश्चेति ख्यातिं गमिष्यत इत्यर्थः ।। 1.24.22 ।।
साधु साध्विति त देवाः पाकशासनमब्रुवन् ।
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ।। 1.24.23 ।।
साध्विति । स्पष्टम् ।। 1.24.23 ।।
एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम ।
मलदाश्च करूशाश्च मुदितौ धनधान्यतः ।। 1.24.24 ।।
एताविति । अत इत्यादावध्याहार्यम् ।। 1.24.24 ।।
कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी ।
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ।
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ।। 1.24.25 ।।
एवं पालनीयत्वाय देशस्य पुण्यत्वमुक्त्वा तस्य दारुणत्वहेतुमाह कस्यचिदिति अर्द्धत्रयम् । कस्मिंश्चित्काले गते सति । तदा जन्मकाल एव । नागसहस्रस्य गजसहस्रस्य । बलं धारयन्ती ताटकानाम यक्षी अभूत् । ते तुभ्यं भद्रमस्तु, ताटकातो भयं माभूदित्यर्थः ।। 1.24.25 ।।
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ।। 1.24.26 ।।
मारीच इत्यर्द्धम् ।। 1.24.26 ।।
वृत्तबाहुर्महावीर्यो विपुलास्यतनुर्महान् ।
राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ।। 1.24.27 ।।
वृत्तेति । अत्र य इति शेषः । यः प्रजाः नित्यं त्रासयते स मारीचो यस्याः पुत्रः सा यक्षी अभूदिति पूर्वेणान्वयः ।। 1.24.27 ।।
इमौ जनपदौ नित्यं विनाशयति राघव ।
मलदांश्च करूशांश्च ताटका दुष्टचारिणी ।। 1.24.28 ।।
अस्तु ताटका, किं ततः तत्राह इमाविति ।। 1.24.28 ।।
सेयं पन्थानमावार्य वसत्यध्यर्द्धयोजने ।
अत एव च गन्तव्यं ताटकाया वनं यतः ।। 1.24.29 ।।
सेयमिति । आवार्य्य आवृत्य । यतः यस्मिन्मार्गे ताटकायाः वनम् । अत एव मार्गेण
गन्तव्यम् ।। 1.24.29 ।।
स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ।
मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ।। 1.24.30 ।।
स्वेति । निष्कण्टकं निरुपद्रवम् ।। 1.24.30 ।।
न हि कश्चिदिमं देशं शक्नोत्यागन्तुमीदृशम् ।
यक्षिण्या घोरया राम उत्सादितमसह्यया ।। 1.24.31 ।।
न हीति । ईदृशम् अतीव पुण्यम्, असह्यया इतरैरजेयया ।। 1.24.31 ।।
एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम् ।
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ।। 1.24.32 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ।। 24 ।।
एतदिति । यथा येन प्रकारेण । दारुणं यथा च उत्सादितं निर्जनीकृतं यथा चोत्सादनान्न निवर्त्तते तदेतत्सर्वमाख्यातमिति योजना ।। 1.24.32 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुर्विंशः सर्गः ।। 24 ।।