27 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तविंशः सर्गः

अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।

प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ।। 1.27.1 ।।

अस्त्रगणलाभः सप्तविंशे अथेत्यादि । उष्य उषित्वा । प्रहस्य प्रहर्षेण मन्दहासं कृत्वा ।। 1.27.1 ।।

परितुष्टो ऽस्मि भद्रं ते राजपुत्र महायशः ।

प्रीत्या परमया शुक्तो ददाम्यस्त्राणि सर्वशः ।। 1.27.2 ।।

परीति । महायश इति सम्बुद्धित्वान्न दीर्घः । प्रीत्या परमया युक्त इति परितुष्टो ऽस्मीत्यस्यानुवादः । सर्वशः सर्वाणि ।। 1.27.2 ।।

देवासुरगणान् वापि सगन्धर्वोरगानपि ।

यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ।। 1.27.3 ।।

देवेति । आजौ युद्धे । जयिष्यसि, स्वार्थे णिच् ।। 1.27.3 ।।

तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।

दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ।। 1.27.4 ।।

तानीति । दण्डचक्रादयश्चक्रभेदाः ।। 1.27.4 ।।

धर्मचक्रं ततो वीर कालचक्रं तथैव च ।

विष्णुचक्रं तथात्युग्रमैन्द्रमस्त्रं तथैव च ।। 1.27.5 ।।

वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।

अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ।

ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ।। 1.27.6 ।।

धर्मेति । सार्द्धश्लोकद्वयमेकान्वयम् । शूलवरं शूलश्रेष्ठम् । ब्रह्मशिरः ब्रह्मास्त्रादन्यत् ।। 1.27.5,6 ।।

गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे ।

प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ।। 1.27.7 ।।

गदे इति । मोदकीशिखरीसञ्ज्ञे ये द्वे गदे स्तः ते उभे दास्यामीति सम्बन्धः ।। 1.27.7 ।।

धर्मपाशमहं राम कालपाशं तथैव च ।

पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ।। 1.27.8 ।।

धर्मेति । वारुणमित्यस्य काकाक्षिन्यायेनोभयत्रान्वयः ।। 1.27.8 ।।

अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ।

ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ।। 1.29.9 ।।

अशनी इति । शुष्काशनिराद्राशनिरित्यन्वयः । पिनाकिन इदं पैनाकम् ।। 1.27.9 ।।

आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ।

वायव्यं प्रथनं नाम ददामि च तवानघ ।। 1.27.10 ।।

आग्नेयमिति । आग्नेयम् अग्निदेवताकम् । दयितम्, अग्नेरिति शेषः ।। 1.27.10 ।।

अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ।

शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ।। 1.27.11 ।।

अस्त्रमिति । शक्तिद्वयं विष्णुशक्तिः रुद्रशक्तिश्चेति ।। 1.27.11 ।।

कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् ।

धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ।। 1.27.12 ।।

कङ्कालमिति । स्पष्टम् ।। 1.27.12 ।।

वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ।

असिरत्नं महाबाहो ददामि नृवरात्मज ।। 1.27.13 ।।

वैद्याधरमिति । वैद्याधरं नन्दनं नामासिरत्नम्, महास्त्रमित्यर्थः । असिर्हि विद्याधरास्त्रम् ।। 1.27.13 ।।

गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ।

प्रस्वापनप्रशमने दद्मि सौरं च राघव ।। 1.27.14 ।।

गान्धर्वमिति । प्रस्वापनप्रशमने च गान्धर्वे ।। 1.27.14 ।।

दर्पणं शोषणं चैव सन्तापनविलापने ।

मदनं चैव दुर्द्धर्षं कन्दर्पदयितं तथा ।। 1.27.15 ।।

दर्पणमिति । विलापयति परिदेवयतीति विलापनम् । मदयतीति मदनम् ।। 1.27.15 ।।

पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।

प्रतीच्छ नरशार्दूल राजपुत्र महायशः ।। 1.27.16 ।।

पैशाचमिति । प्रतीच्छ गृहाण ।। 1.27.16 ।।

तामसं नरशार्दूल सौमनं च महाबल ।

संवर्तं चैव दुर्द्धर्षं मौसलं नाम नामतः ।। 1.27.17 ।।

तामसमिति । मुसलान्मौसलमन्यत् ।। 1.27.17 ।।

सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ।

घोरं तेजःप्रभं नाम परतेजो ऽपकर्षणम् ।। 1.27.18 ।।

सत्यमिति । स्पष्टम् ।। 1.27.18 ।।

सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुकामदम् ।

दारुणं च भगस्यापि शीतेषुमथ मानवम् ।। 1.27.19 ।।

सौम्येति । शीतेषुं शीतेषुनामकम् ।। 1.27.19 ।।

एतान् राम महाबाहो कामरूपान् महाबलान् ।

गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ।। 1.27.20 ।।

एतानिति । कामरूपान् ऐच्छिकशरीरान् ।। 1.27.20 ।।

स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ।

ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ।। 1.27.21 ।।

स्थित इति । मन्त्रग्राममित्यनेन पूर्वोक्तास्त्रप्रदानं नाम तत्तन्मन्त्रप्रदानमित्युक्तं भवति । तेषां कृशाश्वजन्यत्वमधिष्ठातृदेवताद्वारा ।। 1.27.21 ।।

सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम् ।

तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ।। 1.27.22 ।।

सर्वेति । सर्वसङ्ग्रहणं कार्त्स्न्येन सङ्ग्रहणम् ।। 1.27.22 ।।

जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।

उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ।। 1.27.23 ।।

जपत इति । अस्त्रमन्त्रान् दत्त्वा मन्त्रदेवता अपि रामाज्ञानुवर्तिनीः कारयितुं ताः स्मृत्वा जपतो विश्वामित्रस्याज्ञया राघवम् उपतस्थुः सिषेविरे ।। 1.27.23 ।।

ऊचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा ।

इमे स्म परमोदाराः किङ्करास्तव राघव ।। 1.27.24 ।।

ऊचुरिति । राघवेत्यनन्तरमितिकरणं बोध्यम् ।। 1.27.24 ।।

प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।

मानसा मे भविष्यध्वमिति तानभ्यचोदयत् ।। 1.27.25 ।।

प्रतिगृह्य अस्त्रसेवामङ्गीकृत्य । समालभ्य संस्पृश्य “आलम्भः स्पर्शहिंसयोः” इत्यमरः । मानसाः मनो ऽनुसारिणः, चिन्तामात्रे उपस्थिता इति यावत् । भविष्यध्वं भवत, मानसास्सन्तो मां प्राप्नुतेति वार्थः । “भू प्राप्तौ” इतिधातुः ।। 1.27.25 ।।

ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।

अभिवाद्य महातेजा गमनायोपचक्रमे ।। 1.27.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ।। 27 ।।

तत इति । गमनाय गन्तुम् “तुमर्थाच्च भाववचनात्” इति चतुर्थी ।। 1.27.26 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तविंशः सर्गः ।। 27 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.