31 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः 

एकत्रिंशः सर्गः

अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ ।

ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ।। 1.31.1 ।।

एवं कृतार्थो विश्वामित्रो जनकसुतात्वेनावतीर्णया श्रिया रामं योजयितुं व्याजेन मिथिलाप्रस्थानं प्रस्तौत्येकत्रिंशे अथेत्यादि । कृतार्थौ कृतविश्वामित्रप्रयोजनौ । प्रहृष्टेन सन्तुष्टेन अन्तरात्मना अन्तःकरणेन उपलक्षितौ ।। 1.31.1 ।।

प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।

विश्वामित्रं मुनींश्चान्यान् सहितावभिजग्मतुः ।। 1.31.2 ।।

प्रभातायामिति । सहितौ अविनाभूतौ ।। 1.31.2 ।।

अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।

ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ।। 1.31.3 ।।

अभिवाद्येति । मधुरोदारोक्तौ हेतुः मधुरभाषिणाविति ।। 1.31.3 ।।

इमौ स्म मुनिशार्दूल किङ्करौ समुपस्थितौ ।

आज्ञापय यथेष्टं वै शासनं करवाव किम् ।। 1.31.4 ।।

इमाविति । स्मेति भूतार्थसूचकमव्ययम् । इमौ स्म आज्ञापितं सर्वमनुष्ठितवन्तावित्यर्थः । मुनिशार्दूल ब्रह्मध्यायिषु श्रेष्ठ अनेन निरवधिकभक्तिमत्त्वं सूचितम् । किङ्करौ “भक्तिक्रीतो जनार्दनः”

इत्युक्तरीत्या त्वया क्रीतौ । समुपस्थितौ भक्तं त्वां विना क्षणमपि स्थातुमक्षमौ, “शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः । मां ध्याति पुरुषव्याघ्रस्ततो मे तदग्तं मनः ।।” इतिवत्। आज्ञापय यथेष्टं क्षामकाले अल्पद्रव्याय क्रीतो राजपुत्रः पुनर्निवर्तयितुं नार्हः किल। शासनं करवाव किम्, कर्तव्ये न सङ्कोचः कार्य इत्यर्थः। अनेन स्वभक्ताय स्वान्यं न ददाति आहूय न ददाति स्वयं गत्वैव ददाति स्वात्मानमिष्टविनियोगार्हं करोतीत्युक्तम् ।। 1.31.4 ।।

एवमुक्तास्ततस्ताभ्यां सर्व एव महर्षयः ।

विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ।। 1.31.5 ।।

एवमिति । अत्र विश्वामित्रेण प्रतिवक्तव्ये ऋषिभिर्नियोजनं रामभक्त्यतिरेकेण । पुरस्कृत्य तदनुज्ञां लब्ध्वेत्यर्थः । यद्वा विश्वामित्रप्रमुखा मुनय इत्यर्थः ।। 1.31.5 ।।

मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।

यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ।। 1.31.6 ।।

मैथिलस्येति । मिथिलाया ईश्वरो मैथिलः “तस्येदम्” इत्यण् । परमधर्मिष्ठः अतिशयेन धर्मवान्, भगवत्कैङ्कर्यरूपत्वेन काम्यनित्याभ्यामुत्कृष्ट इत्यर्थः । तस्य तस्यकृते ।। 1.31.6 ।।

त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि ।

अद्भुतं धनुरत्नं च तत्र तद्द्रष्टुमर्हसि ।। 1.31.7 ।।

त्वमिति । गमिष्यसि, यदीति शेषः । धनुरत्नं धनुःश्रेष्ठम् । दीर्घाभाव आर्षः । चकाराद्यज्ञं चेत्यर्थः । तत् प्रसिद्धम् ।। 1.31.7 ।।

तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः ।

अप्रमेयबलं घोरं मखे परमभास्वरम् ।। 1.31.8 ।।

तस्य धनूरत्नं कुतः समायातम् ? तत्राह तद्धीति । मखे सदसि दैवतैर्दत्तमित्यन्वयः ।। 1.31.8 ।।

नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।

कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ।। 1.31.9 ।।

नास्येति । आरोपणं ज्यारोपणम् ।। 1.31.9 ।।

धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षितः ।

न शेकुरारोपयितुं राजपुत्रा महाबलाः ।। 1.31.10 ।।

धनुष इति । जिज्ञासन्तः जिज्ञासमानाः ।। 1.31.10 ।।

तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः ।

तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् ।। 1.31.11 ।।

तदिति । यज्ञं द्रक्ष्यसि तत्र तद्धनुश्च द्रक्ष्यसीत्यन्वयः ।। 1.31.11 ।।

तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः ।

याचितं नरशार्दूल सुनाभं सर्वदैवतैः ।। 1.31.12 ।।

मखे किमर्थं दत्तम् ? तत्राह तद्धीति । सुनाभं शोभनमुष्टिबन्धनस्थानम् । दैवतैः दैवतेभ्यः । याचितं दत्तं चेत्यर्थः ।। 1.31.12 ।।

आयागभूतं नृपतेस्तस्य वेश्मनि राघव ।

अर्चितं विविधैर्गन्धैर्माल्यैश्चागरुगन्धिभिः ।। 1.31.13 ।।

आयागेति । आयागभूतं धनुरुत्सवे प्राधान्येनार्चितं धनुरायाग उच्यते । अत्र विश्वामित्रेणैवानुक्तिः सर्वसम्मतत्वद्योतनाय ।। 1.31.13 ।।

एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा ।

सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेवताः ।। 1.31.14 ।।

एवमिति । पूर्वं विश्वामित्रं पुरस्कृत्येत्युक्त्या प्राधान्यात् विश्वामित्र उक्तवानित्यनूद्यते ।। 1.31.14 ।।

स्वस्ति वो ऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् ।

उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ।। 1.31.15 ।।

स्वस्तीति । जाह्नवीतीरे स्थितं हिमवन्तं गमिष्यामीत्यन्वयः । शिलोच्चयं पर्वतं सिद्धाश्रमाद्धिमवद्गमनं मिथिलामार्गेणेतिज्ञेयम् ।। 1.31.15 ।।

प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम् ।।

उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ।। 1.31.16 ।।

प्रदक्षिणमिति । ततः वनदेवतामन्त्रणानन्तरम् ।। 1.31.16 ।।

तं प्रयान्तं मुनिवरमन्वयादनुसारिणम् ।

शकटीशतमात्रं च प्रायेण ब्रह्मवादिनाम् ।। 1.31.17 ।।

तमिति । अनुसारिणम् उत्तरदिगनुसारिणं तम् । प्रायेण बाहुल्येन । ब्रह्मवादिनां शकटीशतमात्रं शकट्यः शकटानि तेषां शतमात्रं शतप्रमाणम् । अन्वयात् अन्वगात् । यद्वा शतमात्रमन्वयात्, इतरत्सर्वं सिद्धाश्रम एव स्थितमित्यर्थः । अत्र शकटीशब्देन शकट्यारोपिताग्निहोत्रसम्भारादिकमुच्यते ।। 1.31.17 ।।

मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः ।

अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् ।। 1.31.18 ।।

मृगेति । तद्भक्त्येति भावः ।। 1.31.18 ।।

निवर्तयामास ततः पक्षिसङ्घान् मृगानपि ।। 1.31.19 ।।

निवर्तयामासेत्यर्द्धम् । अत्र पक्ष्यादिनिवर्तनेन मुनीनां गमनं द्योतितम् ।। 1.31.19 ।।

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।

वासं चक्रुर्मुनिवराः शोणाकूले समागताः ।। 1.31.20 ।।

त इति । शोणः पुन्नदः, स एव शोणेत्यपि व्यपदिश्यते ।। 1.31.20 ।।

ते ऽस्तङ्गते दिनकरे स्नात्वा हुतहुताशनाः ।

विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ।। 1.31.21 ।।

त इति । शोणे स्नात्वा दिनकरे ऽस्तङ्गते सति हुतहुताशना इत्यन्वयः ।। 1.31.21 ।।

रामो ऽपि सह सौमित्रिर्मुनींस्तानभिपूज्य च ।

अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ।। 1.31.22 ।।

राम इति । अभिपूज्य अभिवाद्य ।। 1.31.22 ।।

अथ रामो महातेजा विश्वामित्रं महामुनिम् ।

पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः ।। 1.31.23 ।।

अथेति । स्पष्टम् ।। 1.31.23 ।।

भगवन् कस्य देशो ऽयं समृद्धवनशोभितः ।

श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ।। 1.31.24 ।।

भगवन्निति । अयं शोणकूलस्थः ।। 1.31.24 ।।

चोदितो रामवाक्येन कथयामास सुव्रतः ।

तस्य देशस्य निखिलमृषिमध्ये महातपाः ।। 1.31.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकत्रिंशः सर्गः ।। 31 ।।

चोदित इति । निखिलं वृत्तान्तमित्यर्थः ।। 1.31.25 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणे मणिमञ्जीराख्याने बालकाण्डव्याख्यान एकत्रिंशः सर्गः   ।। 31 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.