श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
पञ्चत्रिंशः सर्गः
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
निशायां सुप्रभातायां विश्वामित्रो ऽभ्यभाषत ।। 1.35.1 ।।
अथ स्वपादोद्भवगङ्गावैभवं लोके प्रवर्तयितुं पृच्छति पञ्चत्रिंशे उपास्येत्यादि । उपास्य स्थित्वा, शयित्वेति यावत् । रात्रिशेषमिति अत्यन्तसंयोगे द्वितीया । सुप्रभातायाम्, निवृत्तायामिति यावत् । अत्र रात्रिशेषमित्यनुवादात् पूर्वसर्गे गतो ऽर्द्धरात्र इत्यत्र निशीथ परत्वं स्वरसमिति गम्यते । यद्वा रात्रिशेषं ब्राह्मे मुहूर्त्ते । उपास्य परमात्मानमिति शेषः । “ब्राह्मे मुहूर्त उत्थाय चिन्तयेदात्मनो हितम्” इतिस्मृतेः ।। 1.35.1 ।।
सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ।। 1.35.2 ।।
सुप्रभातेति । गमनाय गन्तुम् “क्रियार्थोपपदस्य ” इति चतुर्थी ।। 1.35.2 ।।
तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।
गमनं रोचयामास वाक्यं चेदमुवाच ह ।। 1.35.3 ।।
तदिति । पूर्वाह्णे भवा पौर्वाह्णिकी ताम् ।। 1.35.3 ।।
अयं शोणः शुभजलो गाधः पुलिनमण्डितः ।
कतरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम् ।। 1.35.4 ।।
अयमिति । गाधः स्वल्पजलः, अत एव पुलिनमण्डितः सैकतालंकृतः । तथा च नावं विना गन्तुं शक्यते । कतरेण पथा सन्तरिष्यामहे ।। 1.35.4 ।।
एवमुक्तस्तु रामेण विश्वामित्रो ऽब्रवीदिदम् ।
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ।। 1.35.5 ।।
एवमिति । उद्दिष्टः गन्तव्यत्वेन निश्चितः ।। 1.35.5 ।।
एवमुक्ता महर्षयो विश्वामित्रेण धीमता ।
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ।। 1.35.6 ।।
एवमिति स्पष्टम् ।। 1.35.6 ।।
ते गत्वा दूरमध्वानं गते ऽर्द्धदिवसे तदा ।
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ।। 1.35.7 ।।
त इति । जाह्नवीं गङ्गाम् ।। 1.35.7 ।।
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ।। 1.35.8 ।।
तामिति । सारसो हंसविशेषः ।। 1.35.8 ।।
तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ।। 1.35.9 ।।
तस्या इति अर्द्धम् । आवासाय परिगृह्यत इत्यावासपरिग्रहः तं, सम्मार्जनादिना वासस्थानं चक्रुरित्यर्थः ।। 1.35.9 ।।
ततः स्नात्वा यथान्यायं सन्तर्प्य पितृदेवताः ।
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।। 1.35.10 ।।
विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः ।
विश्वामित्रं महात्मानं परिवार्य समन्ततः ।। 1.35.11 ।।
तत इत्यादि श्लोकद्वयम् । यथान्यायं यथाशास्त्रम्, अघमर्षणसूक्तादिजपपूर्वकमित्यर्थः । पितृदेवता इति ऋषीणामप्युपलक्षणम् । अग्निहोत्राणि अग्नौ होतव्यानि पञ्चमहायज्ञादीनि । अमृतवत् अमृततुल्यम् । हविः यज्ञशिष्टमन्नम् “यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्” इति स्मृतेः । शुचौ दृष्टदोषरहिते भोजनस्थानादन्यत्र ।। 1.35.10,11 ।।
अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् ।
भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।। 1.35.12 ।।
अथेति । अथ उपवेशानन्तरम् । तत्र देशे । तदा तस्मिन्नेव काले । द्वितीयो ऽथशब्दः प्रश्ने । “मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ” इत्यमरः । गङ्गां गङ्गावृत्तान्तम् ।। 1.35.12 ।।
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ।। 1.35.13 ।।
त्रैलोक्यमित्यर्द्धम् ।। 1.35.13 ।।
चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ।। 1.35.14 ।।
चोदित इति । वृद्धिं त्रैलोक्यमित्यनेनोक्ताम्, जन्म गङ्गां श्रोतुमित्युक्तम् ।। 1.35.14 ।।
शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् ।
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ।। 1.35.15 ।।
शैलेन्द्र इति । धातूनाम् अयस्ताम्रादीनाम् अस्तीति शेषः । कन्याद्वयम् आसीदिति शेषः ।। 1.35.15 ।।
या मेरुदुहिता राम तयोर्माता सुमध्यमा ।
नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ।। 1.35.16 ।।
येति । या मेरुदुहिता हिमवतः प्रिया पत्नी मनोरमा नाम प्रसिद्धा सा तयोर्मातेत्यन्वयः ।। 1.35.16 ।।
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता ।
उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव ।। 1.35.17 ।।
कन्याद्वयस्य नामनी दर्शयति तस्यामिति ।। 1.35.17 ।।
अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया ।
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ।। 1.35.18 ।।
अथेति । देवतार्थचिकीर्षया देवतार्थसम्पादनेच्छया, प्रयोजनं च स्नानपानादि वक्ष्यमाणसेनापति जननं वा परदेवतार्चनार्थं वा, अत एव स्वपदेनानुक्तिः ।। 1.35.18 ।।
ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् ।
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ।। 1.35.19 ।।
ददाविति । धर्मेण याचका न प्रत्याख्येया इति धर्मेण । जलप्रवाहरूपाया नद्याः कथमाकाशे गमनम् ? तत्राह स्वच्छन्दपथगामिति । स्वच्छन्दः स्वेच्छा तदायत्तः पन्थाः स्वच्छन्दपथः “ऋक्पूरब्धूः ” इत्यादिना अप्रत्ययः समासान्तः । तं गच्छतीति तथा मेघजलवद्द्वार(?)गतिविशेषेणाकाशे ऽपि गतिः सम्भवतीति भावः ।। 1.35.19 ।।
प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः ।
गङ्गामादाय ते ऽगच्छन् कृतार्थेनान्तरात्मना ।। 1.35.20 ।।
प्रतिगृह्येति । त्रिलोकहितकारिणः, देवा इति शेषः । प्रतिगृह्य स्वीकृत्य । आदाय स्वेष्वन्तर्भाव्य ।। 1.35.20 ।।
या चान्या शैलदुहिता कन्या ऽ ऽसीद्रघुनन्दन ।
उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ।। 1.35.21 ।।
गङ्गावृत्तान्तप्रसङ्गेन तदनुजावृत्तान्तमप्याह या चेति । कन्या अलब्धभर्तृका ।। 1.35.21 ।।
उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् ।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ।। 1.35.22 ।।
उग्रेणेति । अप्रतिरूपाय अनुकूलाय, रुद्रार्थं तपस्यन्तीमुमां प्रसन्नाय तस्मै ददावित्यर्थः ।। 1.35.22 ।।
एते ते शैलराजस्य सुते लोकनमस्कृते ।
गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव ।। 1.35.23 ।।
उपसंहरति एते इति ।। 1.35.23 ।।
एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी ।
खं गता प्रथमं तात गतिं गतिमतां वर ।। 1.35.24 ।।
एवं गङ्गोत्पत्तिप्रकारं प्रथमप्रश्नोत्तरमुक्त्वा द्वितीयप्रश्नोत्तरं त्रिपथगामित्वमुच्यत इत्याह एतदिति । प्रथमं तावत् खं खात्मिकां गतिं गता । गतिमतां सुन्दरगतिमताम् ।। 1.35.24 ।।
सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा ।
सुरलोकं समारूढा विपापा जलवाहिनी ।। 1.35.25 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चत्रिंश सर्गः ।। 35 ।।
अथ सुरलोकं च समारूढेत्याह सैषेति ।। 1.35.25 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ।। 35 ।।