39 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

एकोनचत्वारिंशः

विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः ।

उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ।। 1.39.1 ।।

अथ रामेण स्वपूर्वकवृत्तान्तप्रस्तावेन कुतूहलात्पृष्टे सति विश्वामित्रेण तदुत्तरकथनमेकोनचत्वारिंशे–विश्वामित्रेत्यादि । कथान्ते यज्ञोपक्रमकथनानन्तरम् ।। 1.39.1 ।।

श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् ।

पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ।। 1.39.2 ।।

श्रोतुमिति । इमां यज्ञकथाम् । पूर्वकः मद्वंशकूटस्थः । समुपाहरत् कृतवान् ।। 1.39.2 ।।

विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ।

श्रूयतां विस्तरो राम सगरस्य महात्मनः ।। 1.39.3 ।।

विश्वामित्र इति । प्रहसन्निव प्रसन्नवदन इत्यर्थः । स्वविवक्षितस्यैव पृष्टत्वात् प्रहासः अजानन्निव पृष्टवानिति वा । विस्तर इति, यज्ञस्येति शेषः ।। 1.39.3 ।।

शङ्करश्वशुरो नाम हिमवानचलोत्तमः ।

विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ।। 1.39.4 ।।

शङ्करेति । विन्ध्यपर्वतमासाद्य मध्ये महागिरिनिरोधाभावात् प्राप्य तथा विन्ध्यो ऽपि हिमवन्तम् । इत्येवं परस्परमासाद्य वीक्षानिरोधाभावात् निरीक्षेते, परस्परं निरीक्षमाणाविव स्थितावित्यर्थः ।। 1.39.4 ।।

तयोर्मध्ये प्रवृत्तो ऽभूद्यज्ञः स पुरुषोत्तम ।

स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि ।। 1.39.5 ।।

अस्त्वेवम्, ततः किमित्यत्राह–तयोरिति । हि यस्मात् स देशः यज्ञकर्मणि प्रशस्तः “आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमागयोः” इति वचनात् । अतस्तयोर्मध्ये यज्ञः प्रवृत्तो ऽभूत् ।। 1.39.5 ।।

तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ।

अंशुमानकरोत्तात सगरस्य मते स्थितः ।। 1.39.6 ।।

तस्येति । अश्वचर्याम् अश्वानुचरणम्, मते आज्ञायाम् ।। 1.39.6 ।।

तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ।

राक्षसीं तनुमास्थाय यज्ञीयाश्वमपाहरत् ।। 1.39.7 ।।

तस्येति । तं यज्ञम् । यजमानस्य तस्य सगरस्य । यज्ञीयाश्वं यज्ञार्हाश्वम् । राक्षसीं मायामयीं तनुमास्थाय पर्वणि उक्थ्याहे “तिथिभेदे क्षणे पर्व” इति निघण्टुः । अपाहरत् अपहृतवान् ।। 1.39.7 ।।

ह्रियमाण्ो तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ।

उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ।। 1.39.8 ।।

ह्रियमाण इति । उपाध्यायगणाः ऋत्विग्गणाः ।। 1.39.8 ।।

अयं पर्वणि वेगेन यज्ञीयाश्वो ऽपनीयते ।

हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् ।। 1.39.9 ।।

अयमिति । अपनीयते “वर्तमानसामीप्ये वर्तमानवद्वा” इति लट् ।। 1.39.9 ।।

यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नः ।

तत्तथा क्रियतां राजन् यथा ऽच्छिद्रः क्रतुर्भवेत् ।। 1.39.10 ।।

यज्ञेति । एतद्यज्ञच्िछद्रं यज्ञापराधः “छिद्रं रन्ध्रापराधयोः” इति वैजयन्ती । सर्वेषां नः अशिवाय भवति । तस्मात् क्रतुर्यथा अच्छिद्रो भवेत्तथैव क्रियताम् ।। 1.39.10 ।।

उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ।

षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ।। 1.39.11 ।।

उपाध्यायेति । पार्थिवः सगरः ।। 1.39.11 ।।

गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ।

मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ।। 1.39.12 ।।

गतिमिति । हे पुत्राः हि यस्मान्महाक्रतुः मन्त्रपूतैर्महाभागैः आस्थितः अनुष्ठितः । तस्माद्रक्षसां गतिम् आगमनं न पश्यामि, प्रसक्त्यभावादिति भावः ।। 1.39.12 ।।

तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ।

समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत ।। 1.39.13 ।।

अतः केन प्रकारेण गतो ऽश्व इति विचिनुध्वमित्याह–तदिति । यद्वा अहं कर्मव्यग्रः स्थितः, अश्वापहर्तृ़णां रक्षसां गतिं गन्तव्यदेशम्, न पश्यामि । विचिनुध्वमित्याह तदिति । समुद्र एव माला आवरणमस्या इति समुद्रमालिनी ताम् । अनुगच्छत अन्वेषध्वम् ।। 1.39.13 ।।

एकैकं योजनं पुत्रा विस्तारमभिगच्छत ।। 1.39.14 ।।

एकेति, अर्द्धमेकम् । प्रथममेकं योजनं विचित्य पश्चाद्योजनान्तरमिति क्रमेण विचिनुध्वमित्यर्थः । यद्वा एक एकं योजनमिति क्रमेण विचिनुध्वमित्यर्थः ।। 1.39.14 ।।

यावत्तुरगसन्दर्शस्तावत् खनत मेदिनीम् ।

तं चैव हयहर्तारं मार्गमाणा ममाज्ञया ।। 1.39.15 ।।

यदि भूतले न दृश्यते तदा कर्तव्यमाह–यावदिति ।। 1.39.15 ।।

दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् ।

इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम् ।। 1.39.16 ।।

मम तु गमनं न युक्तमित्याह दीक्षित इति ।। 1.39.16 ।।

इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः ।

जग्मुर्मुहीतलं राम पितुर्वचनयन्त्रिताः ।। 1.39.17 ।।

[गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः ।]

इतीति । यन्त्रिताः नियुक्ताः ।। 1.39.17 ।।

योजनायामविस्तारमेकैको धरणीतलम् ।

बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्नखैः ।। 1.39.18 ।।

योजनेति । आयामः दैर्घ्यम्, विस्तारः विशालता । वज्रस्पर्शसमैः वज्रस्पर्शसमस्पर्शैरित्यर्थः ।। 1.39.18 ।।

शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।

भिद्यमाना वसुमती ननाद रघुनन्दन ।। 1.39.19 ।।

शूलैरिति । अशनिकल्पैः वज्रतुल्यैः ।। 1.39.19 ।।

नागानां वध्यमानानामसुराणां च राघव ।

राक्षसानां च दुर्द्धर्षः सत्त्वानां निनदो ऽभवत् ।। 1.39.20 ।।

नागानां सर्पाणाम् । असुरराक्षसाः पातालवासिनः ।। 1.39.20 ।।

योजनानां सहस्राणि षष्टिं तु रघुनन्दन ।

बिभिदुर्धरणीं वीरा रसातलमनुत्तमम् ।। 1.39.21 ।।

योजनानामिति । रसातलं पातालं यथा भवति तथा धरणीं बिभिदुः ।। 1.39.21 ।।

एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजाः ।

खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ।। 1.39.22 ।।

एवमिति । सम्बाधं निबिडम् ।। 1.39.22 ।।

ततो देवाः सगन्धर्वाः सासुरास्सहपन्नगाः ।

सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ।। 1.39.23 ।।

तत इति । स्पष्टम् ।। 1.39.23 ।।

ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।

ऊचुः परमसन्त्रस्ताः पितामहमिदं वचः ।। 1.39.24 ।।

त इति । प्रसाद्य स्तुत्वा ।। 1.39.24 ।।

भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः ।

बहवश्च महात्मानो हन्यन्ते तलवासिनः ।। 1.39.25 ।।

भगवन्निति । तलवासिनः रसातलवासिनः ।। 1.39.25 ।।

अयं यज्ञहरो ऽस्माकमनेनाश्वो ऽपनीयते ।

इति ते सर्वभूतानि निघ्नन्ति सगरात्मजाः ।। 1.39.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ।। 39 ।।

अयमिति । यज्ञहरः यज्ञहन्ता । यज्ञहन इतिपाठेहन्तीतिहनः । पचाद्यच् ।। 1.39.26 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ।। 39 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.