42 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

द्विचत्वारिंशः सर्गः

कालधर्मं गते राम सगरे प्रकृतीजनाः ।

राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ।। 1.42.1 ।।

अथ गङ्गायास्त्रिपथगमनहेतुप्रश्नस्य पूर्वप्रकृतस्य साक्षादुत्तरमाह–कालधर्ममित्यादि ।जातमात्रस्य कालेनावश्यं प्राप्तव्यो धर्मः कालधर्मः, मरणमिति यावत् । प्रकृतीजना इत्यत्र दीर्घश्छान्दसः । अमात्यवर्गाः । “प्रकृतिः सहजे योनावमात्ये परमात्मनि” इति वैजयन्ती । रोचयामासुः न्यायप्राप्तत्वादैच्छन् ।। 1.42.1 ।।

स राजा सुमहानसीदंशुमान् रघुनन्दन ।

तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ।। 1.42.2 ।।

स इति । सः सुमहान् राजासीदित्यन्वयः ।। 1.42.2 ।।

तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन ।

हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ।। 1.42.3 ।।

तस्मिन्निति । तेपे गङ्गावतारणायेति शेषः ।। 1.42.3 ।।

द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः ।

तपोवनं गतो राम स्वर्गं लेभे तपोधनः ।। 1.42.4 ।।

द्वात्रिंशदिति । स्वर्गं लेभे न तु गङ्गाम् ।। 1.42.4 ।।

दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् ।

दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ।। 1.42.5 ।।

दिलीप इति । वधम् अपमृत्युम् । दुःखोपहतया पित्रा दुश्चरे तपसि कृते ऽपि तेषां गतिर्नाभूदित्येवंरूपया । नाध्यगच्छत नाध्यगच्छत् ।। 1.42.5 ।।

कथं गङ्गावतरणं कथं तेषां जलक्रिया ।

तारयेयं कथं चैनानिति चिन्तापरो ऽभवत् ।। 1.42.6 ।।

निश्चयानधिगममेवाह–कथमित्यादिना ।। 1.42.6 ।।

तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः ।

पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ।। 1.42.7 ।।

तस्येति । धर्मेण प्रयोजकेन चिन्तयतः ।। 1.42.7 ।।

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् ।

त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ।। 1.42.8 ।।

दिलीप इति । अकारयत् अकरोत् ।। 1.42.8 ।।

अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति ।

व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ।। 1.42.9 ।।

अगत्वेति । अपेयिवान् ययौ ।। 1.42.9 ।।

इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा ।

राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ।। 1.42.10 ।।

इन्द्रेति । अभिषिच्य इन्द्रलोकं गतः ।। 1.42.10 ।।

भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन ।

अनपत्यो महातेजाः प्रजाकामः स चाप्रजः ।। 1.42.11 ।।

मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः ।। 1.42.12 ।।

भगीरथ इति । अनपत्यः अत एव प्रजाकामो ऽभूत् । स चाप्रज इत्युत्तरशेषः ।। 1.42.11,12 ।।

स तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन ।

ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः ।। 1.42.13 ।।

स इति । गोकर्णे हिमवत्पादविशेषे । पञ्चाग्नयः चतुर्षु पाश्वेष्वग्नय उपरि सूर्यश्च, तेषां मध्ये तपो यस्य सः पञ्चतपाः । मासस्य सकृदाहारो यस्य सः मासाहारः । उभयत्र मध्यमपदलोपी समासः । पृषोदरादित्वात्साधुत्वम् ।। 1.42.13 ।।

तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ।

अतीतानि महाबाहो तस्य राज्ञो महात्मनः ।। 1.42.14 ।।

तस्येति । तस्य राज्ञो महात्मन इत्युत्तरशेषः ।। 1.42.14 ।।

सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः ।। 1.42.15 ।।

सुप्रीत इत्यर्द्धम् ।। 1.42.15 ।।

ततः सुरगुणैः सार्द्धमुपागम्य पितामहः ।

भगीरथं महात्मानं तप्यमानमथाब्रवीत् ।। 1.42.16 ।।

तत इति । अथ उपगमनानन्तरम् ।। 1.42.16 ।।

भगीरथ महाभाग प्रीतस्ते ऽहं जनेश्वर ।

तपसा च सुतप्तेन वरं वरय सुव्रत ।। 1.42.17 ।।

भगीरथेति । ते तपसा प्रीतः ।। 1.42.17 ।।

तमुवाच महातेजाः सर्वलोकपितामहम् ।

भगीरथो महाभागः कृताञ्जलिरुपस्थितः ।। 1.42.18 ।।

तमिति । महातेजाः तपःकृतनिरवधिकतेजाः ।। 1.42.18 ।।

यदि मे भगवन् प्रीतो यद्यस्ति तपसः फलम् ।

सगरस्यात्मजाः सर्वे मत्तस्सलिलमाप्नुयुः ।। 1.42.19 ।।

यदीति । मे तपस इत्यन्वयः ।। 1.42.19 ।।

गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।

स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ।। 1.42.20 ।।

न केवलं सलिलाप्तिरन्यच्चेत्याह–गङ्गाया इति । अत्यन्तम् अक्षय्यम् ।। 1.42.20 ।।

देया च सन्ततिर्देव नावसीदेत्कुलं च नः ।

इक्ष्वाकूणां कुले देव एष मे ऽस्तु वरः परः ।। 1.42.21 ।।

दया चेति । इक्ष्वाकूणां कुले जातस्य मे सन्ततिर्देया, यया नः कुलं नावसीदेत् । एष वरः परः द्वितीयो वरो ऽस्त्वित्यन्वयः । तपसे निर्गमदशायामपि हि प्रजाकाम इत्युक्तम् ।। 1.42.21 ।।

उक्तवाक्यं तु राजानं सर्वलोकपितामहः ।

प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ।। 1.42.22 ।।

उक्तेति । शुभां शुभहेतुम् । मधुराम् अर्थतो मनोज्ञाम् ।। 1.42.22 ।।

मनोरथो महानेष भगीरथ महारथ ।

एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्द्धन ।। 1.42.23 ।।

मनोरथ इति । मनोरथः, तावकः इति शेषः ।। 1.42.23 ।।

इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता ।

तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ।। 1.42.24 ।।

इयमिति । इयं सन्निहिता । हैमवती हिमवत्सन्निहिता । धारयितुं शक्तः हरः तत्र धारणे नियुज्यतां प्रार्थ्यताम् ।। 1.42.24 ।।

गङ्गायाः पतनं राजन् पृथिवी न सहिष्यति ।

तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ।। 1.42.25 ।।

गङ्गाया इति । धारयितुम्, शक्तमिति शेषः ।। 1.42.25 ।।

तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् ।

जगाम त्रिदिवं देवस्सह देवैर्मरुद्गणैः ।। 1.42.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ।। 42 ।।

तमिति । आभाष्य ‘वत्से राजानं यथाकालमनुगृहाण’ इत्युक्त्वेति यावत् । मरुद्गणैः वायुगणैः ।। 1.42.26 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिञ्जीराख्याने बालकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ।। 42 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.