61 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

एकषष्टितमः सर्गः

विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् ।

अब्रवीन्नरशार्दूलस्सर्वांस्तान् वनवासिनः ।। 1.61.1 ।।

अथ शरणागतशुनःशेपरक्षणोचितशक्तिं वक्तुं तपो ऽन्तरमाहैकषष्टितमे–विश्वामित्र इत्यादि । तान् स्वाज्ञया समागतान् । वनवासिनः स्वतपोवनवासिनः ।। 1.61.1 ।।

महान् विघ्नः प्रवृत्तो ऽयं दक्षिणामास्थितो दिशम् ।

दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ।। 1.61.2 ।।

महानिति । यो ऽहं दक्षिणां दिशमास्थितः तस्य मे महान् विघ्नः प्रवृत्त इत्यर्थः ।। 1.61.2 ।।

पश्चिमायां विशालायां पुष्करेषु महात्मनः

सुखं तपश्चरिष्यामो वरं तद्धि तपोवनम् ।। 1.61.3 ।।

पश्चिमायामिति । विशालायां विशालतपोवनवत्यां पश्चिमायां दिशि वर्तमानेषु पुष्करेषु पुष्करतीर्थेषु, तत्तीरेष्वित्यर्थः । महात्मनः हे महात्मानः ।। 1.61.3 ।।

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।

तप उग्रं दुराधर्षं तेपे मूलफलाशनः ।। 1.61.4 ।।

एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः ।

अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ।। 1.61.5 ।।

एवमित्यादि ।। 1.61.4,5 ।।

तस्य वै यजमानस्य पशुमिन्द्रो जहार ह ।

प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ।। 1.61.6 ।।

विप्रः पुरोहित इति यावत् ।। 1.61.6 ।।

पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात् ।

अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ।। 1.61.7 ।।

पशुरिति । दुर्नयात् अनवधानादित्यर्थः । हृतः केनापीति शेषः । प्रणष्टः अदृष्टः । “णश अदर्शने” इति धातोर्निष्ठा । दोषाः पशुनाशादयः ।। 1.61.7 ।।

प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ ।

आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ।। 1.61.8 ।।

प्रायश्चित्तमिति । प्रायश्चित्तम् एतत् पशुनाशनिमित्तकम् । नरं वा आनयस्व, गोभिः क्रीत्वा पशुप्रतिनिधित्वेनेति शेषः । यावत्प्रवर्तते प्रवर्तिष्यते । “यावत्पुरानिपातयोः” इति लट् । तावत् ततः पूर्वमेव । अश्वमेधे पशुविसर्जनानन्तरं कर्मकालस्य व्यवहितत्वादिति भावः । वाकारेण पशुं वान्विष्यानयस्वेति लभ्यते ।। 1.61.8 ।।

उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभ(भः) ।

अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रश्ाः ।। 1.61.9 ।।

उपाध्यायेति । सहस्रशः सहस्रसङ्ख्याभिः । मूल्यभूताभिरिति शेषः ।। 1.61.9 ।।

देशान् जनपदांस्तांस्तान् नगराणि वनानि च ।

आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ।। 1.61.10 ।।

देशानित्यादि । देशानितिजनपदादिसर्वविशेषणम् ।। 1.61.10 ।।

स पुत्रसहितं तात सभार्यं रघुनन्दन ।

भृगुतुन्दे समासीनमृचीकं सन्ददर्श ह ।। 1.61.11 ।।

स इति छेदः । भृगुतुन्दे भृगोर्गिरितटस्य तुन्दे अभ्यन्तरे, भृग्वाख्यऋषिवासस्थानप्रदेशे वा ।। 1.61.11 ।।

तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।

ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ।

पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः ।। 1.61.12 ।।

तमिति, सार्द्ध एकान्वयः । तं मुनिम् । इदं वक्ष्यमाणं वच उवाच । (ब्रवीति) ब्रुवतिर्द्विकर्मकः ।। 1.61.12 ।।

गवां शतसहस्रेण विक्रीणीषे सुतं यदि ।

पशोरर्थे महाभाग कृतकृत्यो ऽस्मि भार्गव ।। 1.61.13 ।।

गवामिति । पशोः अर्थे प्रयोजनाय, पशुप्रतिनिध्यर्थमित्यर्थः । यदि विक्रीणीषे विक्रीणीथाः । तदा कृतकृत्यो ऽस्मि कृतार्थः स्याम् ।। 1.61.13 ।।

सर्वे परिसृता देशा याज्ञीयं न लभे पशुम् ।

दातुमर्हसि मूल्येन सुतमेकमितो मम ।। 1.61.14 ।।

सर्व इति । परिसृताः सञ्चरिताः । याज्ञीयं यज्ञाय हितम् । “तस्मै हितम्” इति छः । वृद्धिरार्षी । इतः एतेषु सुतेषु । सार्वविभक्तिकस्तसिः ।। 1.61.14 ।।

एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ।

नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथञ्चन ।। 1.61.15 ।।

ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ।

उवाच नरशार्दूलमम्बरीषं तपस्विनी ।। 1.61.16 ।।

एवमिति । कथञ्चन बहुमूल्येनापि । इतरयोरप्रतिषेधादनुमतिर्गम्यते । “अप्रतिषिद्धमनुमतं भवति” इति न्यायात् । शास्त्रेणापत्यदानविक्रययोर्निषेधेपि मूलावसादे धर्मायापत्यदानवद्यज्ञायापत्यविक्रयो न दोषायेति भावः ।। 1.61.15,16 ।।

अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ।

ममापि दयितं विद्धि कनिष्ठं शुनकं नृप ।

तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव ।। 1.61.17 ।।

प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।

मातृ़णां च कनीयांसस्तस्माद्रक्षे कनीयसम् ।। 1.61.18 ।।

उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च ।

शुनःशेषः स्वयं राम मध्यमो वाक्यमब्रवीत् ।। 1.61.19 ।।

पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् ।

विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् ।। 1.61.20 ।।

गवां शतसहस्रेण शुनःशेपं नरेश्वरः ।

गृहीत्वा परमप्रीतो जगाम रघुनन्दन ।। 1.61.21 ।।

अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः ।

शुनःशेपं महातेजा जगामाशुमहायशाः ।। 1.61.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकषष्टितमः सर्गः ।। 61 ।।

कनीयसमित्यकरान्तत्वमार्षम् ।। 1.61.1722 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकषष्टितमः सर्गः ।। 61 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.