65 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

पञ्चषष्टितमः सर्गः

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः ।

पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ।। 1.65.1 ।।

अथ विश्वामित्रस्य ब्रह्मर्षित्वप्राप्तिः पञ्चषष्टितमे–अथ हैमवतीमित्यादि ।। 1.65.1 ।।

मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।

चकाराप्रतिमं राम तपः परमदुष्करम् ।। 1.65.2 ।।

वर्षसहस्रस्य वर्षसहस्रसम्बन्धि, तत्साध्यमित्यर्थः । मौनव्रतं मौनरूपं व्रतम् । कृत्वा सङ्कल्प्येत्यर्थः ।। 1.65.2 ।।

पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् ।

विघ्नैर्बहुभि राधूतं क्रोधो नान्तरमाविशत् ।। 1.65.3 ।।

स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् ।। 1.65.4 ।।

काष्ठभूतं काष्ठवदवस्थितम् ।। आधूतं आकुलीकृतमपि । आन्तरं अन्तरवन्तम्, दृढान्तःकरणवन्तमिति यावत् । यद्वा तं प्रति क्रोधः अन्तरं अवकाशं नाविशत् ।। 1.65.3,4 ।।

तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ।

भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम ।

इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ।। 1.65.5 ।।

तस्य पूर्वसङ्कल्पितस्य । वर्षसहस्रस्य सम्बन्धिनि व्रते पूर्णे । तस्मिन् काले पारणकाले । सिद्धं पक्वम् । याचिर्द्विकर्मकः ।। 1.65.5 ।।

तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः ।

निःशेषिते ऽन्ने भगवानभुक्त्वैव महातपाः ।

न किञ्चिदवदद्विप्रं मौनव्रतमुपस्थितः ।। 1.65.6 ।।

अथ वर्षसहस्रं वै नोच्छ्वसन् मुनिपुङ्गवः ।। 1.65.7 ।।

निश्चितः तपःसिद्धये सर्वथैवान्नं दातव्यमिति निश्चयवानित्यर्थः । निश्चितः अशङ्कित इति वा । निःशेषित इत्यनेन सर्वमन्नमिन्द्रेण याचितमिति गम्यते । अभुक्त्वेति पुनः पाकार्हतण्डुलासम्पादनादिति भावः ।। 1.65.6,7 ।।

तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ।

त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत् ।। 1.65.8 ।।

आदीपितं तापितम् ।। 1.65.8 ।।

ततो देवास्सगन्धर्वाः पन्नगासुरराक्षसाः ।

मोहितास्तेजसा तस्य तपसा मन्दरश्मयः ।

कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ।। 1.65.9 ।।

तत इत्यादि । तपसा तेजसा तपोरूपाग्निना । मोहिता मूर्च्छिताः । कश्मलोपहताः दुःखोपहताः ।। 1.65.9 ।।

बहुभिः कारणैर्देव विश्वामित्रो महामुनिः ।

लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते ।

न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ ।। 1.65.10 ।।

लोभितः लोभकारणैः रम्भादर्शनादिभिः प्रलोभितः । क्रोधितः क्रोधकारणैर्वर्षसहस्रान्तसिद्धकृत्स्नान्नयाचनादिभिः क्रोधितः । वृजिनं पापं रागद्वेषादिलक्षण्ाम् । सूक्ष्मं स्वल्पम् ।। 1.65.10 ।।

न दीयते यदि त्वस्य मनसा यदभीप्सितम् ।

विनाशयति त्रैलोक्यं तपसा सचराचरम् ।। 1.65.11 ।।

विनाशयति विनाशयेत् । असाविति शेषः ।। 1.65.11 ।।

व्याकुलाश्च दिशः सर्वा न च किञ्चित्प्रकाशते ।

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ।। 1.65.12 ।।

प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ।

ब्रह्मन्न प्रतिजानीमो नास्तिको जायते जनः ।। 1.65.13 ।।

व्याकुला इत्यादि । न प्रतिजानीमः प्रतिक्रियामिति शेषः । नास्तिको जायत इति उक्तसङ्क्षोभवशान्नास्तिक इव कर्मानुष्ठानशून्यो जायत इत्यर्थः ।। 1.65.12,13 ।।

सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम् ।

भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ।। 1.65.14 ।।

उक्तार्थानुवादपूर्वकमनुष्ठेयांश उच्यते सम्मूढमिवेत्यादि ।। 1.65.14 ।।

बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ।

तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः ।। 1.65.15 ।।

बुद्धिमिति । हे देव ब्रह्मन् । अतःपरं विश्वामित्रः नाशे जगत्क्षये यावत् बुद्धिं न कुरुते तावत्प्रसाद्यः अनुग्राह्यः ।। 1.65.15 ।।

कालाग्निना यथा पूर्वं त्रैलाक्यं दह्यते ऽखिलम् ।

देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम् ।। 1.65.16 ।।

कालाग्निनेति । पूर्वं प्रलयकाले । कालाग्निना त्रैलोक्यं यथा अदह्यत तथैव त्रैलोक्यमनेन दह्यते धक्ष्यते । अयं देवराज्यं चिकीर्षेतापि अतः अस्य यत् ब्रह्मर्षित्वं मतम्, तद्दीयतामित्यर्थः ।। 1.65.16 ।।

ततः सुरगणाः सर्वे पितामहपुरोगमाः ।

विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ।

ब्रह्मर्षे स्वागतं ते ऽस्तु तपसा स्म सुतोषिताः ।। 1.65.17 ।।

तत इत्यादि । ततः देवविज्ञापनानन्तरम् ।। 1.65.17 ।।

ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ।

दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः ।

स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् ।। 1.65.18 ।।

पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।

कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ।। 1.65.19 ।।

ब्राह्मण्यमित्यादि । ब्रह्मवचनं प्राधान्येन ।। 1.65.18,19 ।।

ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।

ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम् ।। 1.65.20 ।।

वरयन्तु अध्यापनयाजनार्हा भवन्तु इत्यर्थः ।। 1.65.20 ।।

क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।

ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ।

यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ।। 1.65.21 ।।

ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ।

सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ।। 1.65.22 ।।

ब्रह्मानुग्रहे ऽपि सजातीयपरिग्रहार्थमाह–क्षत्रेति । क्षत्रवेदाः क्षत्रियाणां शान्ति पुष्ट्यादिप्रयोजना आथर्वणवेदाः । तद्विदां श्रेष्ठः सूर्यवंशानादिपुरोहितत्वादिति भावः । ब्रह्मवेदाः ब्रह्मप्रतिपादका वेदाः, वेदान्ता इत्यर्थः । यद्वा ब्राह्मणमात्रप्रवचनार्हा वेदास्त्रयीरूपाः । एवं वदतु ब्रह्मर्षिरिति वदतु । यदीति । अयं कामः वसिष्ठमुखेन ब्रह्मर्षित्ववादरूपः कामः । यदि कृतः तदैव मद्विषये कृतकृत्या यान्तु नान्यथेत्यर्थः ।। 1.65.21,22 ।।

ब्रह्मर्षिस्त्वं न सन्देहः सर्वं सम्पत्स्यते तव ।

इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ।। 1.65.23 ।।

एवमस्त्वित्यस्य विवरणम्–ब्रह्मर्षिस्त्वमिति । सर्वं ब्राह्मण्यं त्वद्वृतयाजनाध्यापनादिकं च ।। 1.65.23 ।।

एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ।

एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः ।

एष धर्मपरो नित्यं वीर्यस्यैष परायणम् ।। 1.65.24 ।।

एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ।। 1.65.25 ।।

शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।

जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम् ।। 1.65.26 ।।

धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य मे मुनिपुङ्गव ।

यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ।। 1.65.27 ।।

पावितो ऽहं त्वया ब्रह्मन् दर्शनेन महामुने ।

गुणा बहुविधाः प्राप्तास्तव सन्दर्शनान्मया ।। 1.65.28 ।।

विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तपः ।

श्रुतं मया महातेजो रामेण च महात्मना ।। 1.65.29 ।।

अथ शतानन्दवचनम्–एवमित्यादि । तप इत्यकारान्तपुँलिङ्गत्वमार्षम् ।। 1.65.2429 ।।

सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ।। 1.65.30 ।।

सदस्यैरिति । सदः प्राप्य स्थितैः सदस्यैः ।। 1.65.30 ।।

अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम् ।

अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ।। 1.65.31 ।।

अप्रमेयाः इयत्तया ज्ञातुमशक्याः ।। 1.65.31 ।।

तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो ।

कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ।। 1.65.32 ।।

श्वःप्रभाते महातेजो द्रष्टुमर्हसि मां पुनः ।

स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ।। 1.65.33 ।।

एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ।

विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ।। 1.65.34 ।।

एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः ।

प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ।। 1.65.35 ।।

कथानामिति “पुरणगुण–” इति तृतीयार्थे षष्ठी । तृप्तिः अलम्बुद्धिः । स्वागतमिति । त्वदागमनं शुभकृज्जातमित्यर्थः ।। 1.65.3235 ।।

विश्वामित्रो ऽपि धर्मात्मा सरामः सहलक्ष्मणः ।

स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ।। 1.65.36 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्टितमः सर्गः ।। 65 ।।

स्ववाटम् स्वनिवेशम् ।। 1.65.36 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ।। 65 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.