75 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

पञ्चसप्ततितमः सर्गः

राम दाशरथे राम वीर्यं ते श्रूयते ऽद्भुतम् ।

धनुषो भेदनं चैव निखिलेन मया श्रुतम् ।। 1.75.1 ।।

पूर्वमवतारप्रस्तावे जगत्पतित्वेन विष्णोः परत्वमुक्तम् । ‘अहं वेद्मि महात्मानम्’ इति विश्वामित्रवचनेन पुरुषसूक्तं तत्र मानत्वेन सूचितम् । काश्यपस्तुतौ च ‘शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो । त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ।।’ इति सर्वजगत्कारणत्वादिकमुक्तम्। रुद्रस्य च गङ्गाधारणधातुमोक्षणादिवृत्तान्तेन कर्मवश्यत्वेन प्राकृतशरीरवर्तित्वेनाचापरत्वं सूचितम्। सम्प्रत्यल्पशक्तिकत्वेन तस्यापरत्वमाह पञ्चसप्ततितमे–रामेत्यादि। रोषातिरेकेण रामेति द्विःसम्बोधनम्। भेदनं चेति चकारेण ताटकावधादि समुच्चीयते ।। 1.75.1 ।।

तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया ।

तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्य परं शुभम् ।। 1.75.2 ।।

अचिन्त्यं च भवतीति शेषः । तच्छ्रुत्वेत्यतःपूर्वमत इत्युपस्कार्यम् ।। 1.75.2 ।।

तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः ।

पूरयस्व शरेणैव स्वबलं दर्शयस्व च ।। 1.75.3 ।।

जमदग्नेरागतं जामदग्न्यम् । आगतार्थे यञार्षः ।। 1.75.3 ।।

तदहं ते बलं दृष्ट्वा धनुषो ऽस्य प्रपूरणे ।

द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यस्य राघव ।। 1.75.4 ।।

तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा ।

विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ।। 1.75.5 ।।

तत् तदा ।। 1.75.4,5 ।।

क्षत्ररोषात् प्रशान्तस्त्वं ब्राह्मणश्च महायशाः ।

बालानां मम पुत्राणामभयं दातुमर्हसि ।। 1.75.6 ।।

सम्प्रत्यस्थाने भयशङ्कितया दशरथो रामे प्रेमभराक्रान्तो रामवैभवं ताटकाताटकेयनिरसनादिना जानन्नपि मङ्गलाशासनमारचयति–क्षत्रेति ।। 1.75.6 ।।

भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।

सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ।। 1.75.7 ।।

सहस्राक्षे तत्सन्निधावित्यर्थः । निक्षिप्तवान् त्यक्तवानित्यर्थः ।। 1.75.7 ।।

स त्वं धर्मपरो भूत्वा काश्यपाय वसुन्धराम् ।

दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ।। 1.75.8 ।।

महेन्द्रकृतकेतनः महेन्द्रपर्वते कृतनिवासः ।। 1.75.8 ।।

मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने ।

न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ।। 1.75.9 ।।

‘सर्वविनाशाय सम्प्राप्तः’ इत्येतदुपपादयति ।। 1.75.9 ।।

ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् ।

अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ।। 1.75.10 ।।

न चेति ।। 1.75.10 ।।

इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते ।

दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ।। 1.75.11 ।।

लोकाभिविश्रुते लोके सर्वतः प्रसिद्धे । बलवती इति नपुंसकद्विवचनम् । सुकृते प्रयत्नेन निर्मिते ।। 1.75.11 ।।

अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे ।

त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ।। 1.75.12 ।।

अतिसृष्टं दत्तम् । युयुत्सवे त्रिपुरवासिभिर्योद्धुमिच्छवे । यत्त्वया भग्नं तत् त्र्यम्बकाय दत्तमिति पूर्वेणान्वयः ।। 1.75.12 ।।

तदिदं वैष्णवं राम धनुः परमभास्वरम् ।

समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ।। 1.75.13 ।।

समानसारं समानबलम् ।। 1.75.13 ।।

तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ।

शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया ।। 1.75.14 ।।

समानसारत्वे किमिदानीं परीक्ष्यमित्याशङ्क्य रौद्रस्य धनुषो वैकल्यादिति वक्तुं प्रस्तावान्तरमुपक्षिपति–तदेत्यादि । तदा दुष्करत्रिपुरहननानन्तरकाले । बलाबलनिरीक्षया बलाबलनिरीक्ष्ाणेच्छया । को ऽनयोर्बलवानित्यपृच्छन्नित्यर्थः ।। 1.75.14 ।।

अभिप्रायं तु विज्ञाय देवतानां पितामहः ।

विरोधं जनयामास तयोः सत्यवतां वरः ।। 1.75.15 ।।

विरोधे च महद्युद्धमभवद्रोमहर्षणम् ।

शितिकण्ठस्य विष्णोश्च परस्परजिगीषिणोः ।। 1.75.16 ।।

अभिप्रायं त्विति । पूर्वं वराहादिरूपेण भूम्युद्धरणादिकरणेन विष्णुरधिक इति स्तुवतस्त्वत्तः श्रुतम् । अधुना विष्णुमुपसर्जनीकृत्य त्रिपुरहननाद्रुद्रस्याधिकबलत्वं प्रतीयत इत्यभिप्रायमित्यर्थः । सत्यवतां वर इत्यनेन बहुश उपदेशे ऽपि नैषां चित्तं समाधत्ते । अतः क्रिययैव बलतारतम्यं दर्शयिष्यामीत्यभिप्रेत्य विरोधं जनयामासेति गम्यते । अहं धन्वी प्रधानः विष्णुस्तु ममोपसर्जन इत्युक्तं रुद्रेणेति विष्णुं प्रत्युक्त्वा शराग्रतया मयावस्थानान्मयैव त्रिपुरहननं कृतमिति विष्णुनोक्तमिति रुद्रं प्रत्युक्त्वा च विरोधजननमित्यवगम्यते ।। 1.75.15,16 ।।

तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम् ।

हुङ्कारेण महादेवः स्तम्भितो ऽथ त्रिलोचनः ।। 1.75.17 ।।

जृम्भितमित्यत्रापि हुङ्कारेणेत्यनुषज्यते । जृम्भितं भग्नमितियावत् । हुङ्कारेण न त्वभिमन्त्रितबाणेन । महादेवः महादेवशब्दो महावृक्षसमाख्यायित इति भावः । त्रिलोचन इत्यनेन तृतीयं लोचनमपि निरर्थकं कृतमिति भावः ।। 1.75.17 ।।

देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः ।

याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ।। 1.75.18 ।।

याचितौ प्रशमं जग्मतुः । विष्णुः किमनेन बालेन, अनुकम्प्यतामिति याचितस्तन्निग्रहान्निवृत्तः । रुद्रस्तु स्वामितः पराजयो नास्माकं दोषायेति सान्त्वितस्तत्तुल्यत्वाभिमानान्निवर्तित इत्यर्थः ।। 1.75.18 ।।

जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ।

अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ।। 1.75.19 ।।

धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः ।

देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् ।। 1.75.20 ।।

इदं च वैष्णवं राम धनुः परपुरञ्जयम् ।

ऋचीके भार्गवे प्रादाद्विष्णुः सन्न्यासमुत्तमम् ।। 1.75.21 ।।

ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ।

पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ।। 1.75.22 ।।

अथ स्वाभिमतसिद्धिमाह–जृम्भितमिति । तत् विष्ण्वधिष्ठानेन पूर्वं त्रिपुरघ्नम् । जृम्भितं विष्ण्वधिष्ठानाभावेन जृम्भितं दृष्ट्वा, न त्वाप्तवाक्याच्छ्रुत्वा । शैवं शिवाभिमानमात्रविषयभूतम् । विष्णुपराक्रमैः । पूजायां बहुवचनम् । हुङ्कारेणेति पूर्वमुक्तेः । आधिक्यावबोधनं न पक्षपातमूलमित्याह सर्षिगणा इति । अतीन्द्रियार्थद्रष्टार ऋषयः, तेषां गणाः वैखानसवालखिल्यादयः । “भूयसां स्यात् बलीयस्त्वम्” इति न्यायेन तत् ज्ञनं न पक्षपातमूलं न वा भ्रान्तिमूलमिति भावः । एतेन “एक एव रुद्रो न द्वितीयायतस्थे” इत्यादिश्रुतिः “नकिरिन्द्रत्वदुत्तरः” इत्यादिवदितरापेक्षया श्रेष्ठत्वाभिप्राया । “एको ह वै नारायण आसीत्” इत्यादिश्रुत्युक्तो नारायणापरपर्यायो विष्णुरेव परं तत्त्वमित्यभिहितम् । एतेन तम उद्रेकेण कदाचिद्रुद्रस्य पराजयो न दोषायेति केनचिदुक्तं प्रत्युक्तम् । तमोभिभवस्यैवापरत्वनियामकत्वात् । इन्द्रजिता रामपराजयस्तु अदृश्यो न शब्दवेधेन वध्य इति धर्मप्रवर्तनाय । धर्मसंस्थापनाय हि तवदतार इत्युक्तम् । अत्र तु स्वरूपत एव रुद्रस्य पराजयः । किञ्च रुद्रपराजयस्य तमःकृतत्वे देवानामधिकत्वबुद्धिर्न स्यादेव । अयं च धनुर्भङ्गो दक्षयज्ञान्त इति बोध्यम् । अन्यथा “दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्” इत्यादिना दक्षयज्ञान्ते रुद्रो देवानां धनुर्ददावित्युक्तं विरुध्येत । अत्रेदमेव धनुस्त्रिपुरघ्नमित्युक्तत्वादेतद्विरुद्धम् । मेरुधनुष्ट्वं पुराणान्तरोक्तमनादरणीयम् । ननु पूर्वं दक्षयज्ञान्ते रुद्रो देवेभ्यो धनुर्दत्तवानित्युक्तम् । पुनश्च देवराताय रुद्रो दत्तवानित्युक्तम् । विश्वामित्राश्रमे मुनिभिर्यज्ञे जनकाय देवा ददुरित्युक्तम् । अनसूयासमीपे सीतया जनकाय वरुणेन दत्तमित्युक्तम् । कथमिदं सङ्गच्छते ? श्रूयताम्: पूर्वं देवास्त्रिपुरवधाय विश्वकर्मणा निर्मितं धनू रुद्राय ददुः । तद्दक्षयज्ञान्ते विरोधे विष्णुहुङ्कारेण जृम्भितम्, देवैः प्रार्थितो रुद्रो देवरातस्य हस्ते दत्तवान् । ततः प्रभृति न्यासभावेन मैथिलेषु वर्तमानं तत्स्वत्वेन देवा वरुणेन जनकायादापयन्नितिक्रमः । तेन दक्षयज्ञान्ते धनुर्दानवचनं देवैर्जनकस्य यज्ञफलत्वेन दानवचनं वरुणेन दत्तत्ववचनं च समञ्जसं भवति ।। 1.75.1922 ।।

न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते ।

अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ।। 1.75.23 ।।

अर्जुनः कार्तवीर्यार्जुनः ।। 1.75.23 ।।

वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् ।

क्षत्रमुत्सादयन् रोषाज्जातं जातमनेकशः ।। 1.75.24 ।।

पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने ।

यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ।। 1.75.25 ।।

दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः ।

श्रुतवान् धनुषो भेदं ततो ऽहं द्रुतमागतः ।। 1.75.26 ।।

अनेकशः त्रिःसप्तकृत्वः ।। 1.75.2427 ।।

तदिदं वैष्णवं राम पितृपैतामहं महत् ।

क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ।। 1.75.27 ।।

तदिदमिति । उत्तमम् अशिथिलमित्यर्थः । पितृपैतामहं पितृपितामहक्रमायातम् । उत्तरपदवृद्धिरार्षी । क्षत्रधर्ममिति ब्राह्मणवन्नशक्त इति मा ब्रूहीत्यर्थः ।। 1.75.27 ।।

योजयस्व धनुश्श्रेष्ठे शरं परपुरञ्जयम् ।

यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ।। 1.75.28 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चसप्ततितमः सर्गः ।। 75 ।।

यदि शक्नोषि तावतापि न त्वां मुञ्चामि अपितु ततः अनन्तरम्, द्वन्द्वयुद्धं दास्यामि । वीर्यपरीक्षणार्थमिदमिति भावः ।। 1.75.28 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चसप्ततितमः सर्गः ।। 75 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.