12 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वादशः सर्गः

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।

प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ।। 4.12.1 ।।

स गृहीत्वा धनुर्घोरं शरमेकं च मानदः ।

सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः ।। 4.12.2 ।।

अथ प्रत्ययपूर्वकं वालिवधाय गमनं द्वादशे एतच्चेत्यादि ।। 4.12.1,2 ।।

स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः ।

भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह ।। 4.12.3 ।।

स इति । सः एकसालोद्देशेन विसृष्टः स्वर्णपरिष्कृतः स्वर्णपट्टालङ्कृतः । अनेन सर्वोत्तमत्वमुक्तम् । सालानिति । सप्त सालान् भित्त्वा गिरिप्रस्थे गिरिप्रस्थमार्गेण भूमिं विवेश । इत्थं ह्युक्तमभियुक्तैः “सालांश्च सप्त सगिरीन् सरसातलान्” इति । संक्षेपे च “गिरिं रसातलं चैव” इति । अन्यस्त्वपपाठः ।। 4.12.3 ।।

प्रविष्टश्च मुहूर्तेन धरां भित्त्वा महाजवः ।

निष्पत्य च पुनस्तूर्णं स्वतूर्णीं प्रविवेश ह ।। 4.12.4 ।।

प्रविष्ट इति । धरां भित्त्वा प्रविष्टः स शरः महाजवत्वान्मुहूर्तेन निष्पत्य निर्गत्य पुनस्तां तूणीं प्रविवेश । मन्त्रप्रभावेनाचेतनस्यापि पुनरागमनम् ।। 4.12.4 ।।

तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः ।

रामस्य शरवेगेन विस्मयं परमं गतः ।। 4.12.5 ।।

तानिति । दृष्ट्वेत्यनेनाल्पज्ञत्वात्सुग्रीवः सालानेव भिन्नान् ददर्श । सप्तभूमिप्रवेशं त्वहमेव धर्मवीर्येण पश्यामीति भावः ।। 4.12.5 ।।

स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः ।

सुग्रीवः परमप्रीतो राघवाय कृताञ्चलिः ।। 4.12.6 ।।

इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः ।

रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ।। 4.12.7 ।।

सेन्द्रानपि सुरान्त्सर्वांस्त्वं बाणैः पुरुषर्षभ ।

समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ।। 4.12.8 ।।

येन सप्त महासाला गिरिर्भूमिश्च दारिताः ।

बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ।। 4.12.9 ।।

अद्य मे विगतः शोकः प्रीतिरद्यः परा मम ।

सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ।। 4.12.10 ।।

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् ।

वालिनं जहि काकुत्स्थ मया बद्धो ऽयमञ्जलिः ।। 4.12.11 ।।

स इति । स सुग्रीवः परमप्रीतः सन् राघवाय कृताञ्जलिः मूर्ध्ना भूमौ न्यपतत् । शिरसा भूमिं स्पृष्ट्वा प्रणनामेत्यर्थः । प्रलम्बीकृतभूषण इत्यनेन उदरास्पर्श उक्तः । अनेन भगवद्विषये प्रणामप्रकारः शिक्षितो भवति ।। 412.611 ।।

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ।

प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ।। 4.12.12 ।।

अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः ।

गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ।। 4.12.13 ।।

तत इति । लक्ष्मणानुमतमिति क्रियाविशेषणम् । भ्रातृगन्धिनं भ्रातृहिंसकम् । “गन्धनावक्षेपण” इत्यत्र तथा प्रयोगात् । इति रामः सुग्रीवं प्रत्युवाचेति पूर्वेणान्वयः ।। 4.12.12,13 ।।

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ।

वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ।। 4.12.14 ।।

सर्व इति । आत्मानं स्वं स्वमित्यर्थः ।। 4.12.14 ।।

सुग्रीवो व्यनदद् घोरं वालिनो ह्वानकारणात् ।

गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ।। 4.12.15 ।।

सुग्रीव इति । ह्वानम् आह्वनम् । गाढं परिहितः बलवृद्धये दृढबद्धपरिधानः ।। 4.12.15 ।।

तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः ।

निश्चक्राम सुसंरब्धो भास्करो ऽस्ततटादिव ।। 4.12.16 ।।

भास्करो ऽस्ततटादिवेति । यथा सूर्यो ऽस्ततटादवतरन्नदृष्टरश्मिर्भवति तथेदानीं किष्किन्धानिर्गमनं वालिनो ऽल्पकालेन नाशहेतुरिति द्योतनार्थमस्ततटादित्युक्तम् । अस्मद्देशोदयगिरिः प्रदेशान्तरापेक्षया अस्तगिरिरित्युक्तमित्यप्याहुः ।। 4.12.16 ।।

ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् ।

गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ।। 4.12.17 ।।

ततः सुतुमुलमिति । बुधाङ्गारकाख्ययोर्ग्रहयोरिव ।। 4.12.17 ।।

तलैरशनिकल्पैश्च वज्रकल्पैश्चमुष्टिभिः ।

जघ्नतुः समरे ऽन्योन्यं भ्रातरौ क्रोधमूर्च्छितौ ।। 4.12.18 ।।

अशनिः मेघज्योतिः ।। 4.12.18 ।।

ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु ।

अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ।। 4.12.19 ।।

यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः ।

ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम् ।। 4.12.20 ।।

एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना ।

अपश्यन् राघवं नाथमृश्यमूकं प्रदुद्रुवे ।। 4.12.21 ।।

तत इत्यादिश्लोकद्वयमेकान्वयम् । उभावश्विनौ देवाविव तावुभौ समुदीक्ष्य सुग्रीवं वालिनं वा विशेषतो यन्नावगच्छत् ततः तस्मात् रामः शरं मोक्तुं बुद्धिं न कृतवानित्यन्वयः ।। 4.12.1921 ।।

क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः ।

वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम् ।। 4.12.22 ।।

तं प्रविष्टं वनं दृष्ट्वा वाली शापभयार्दितः ।

मुक्तो ह्यसि त्वमित्युक्त्वा सन्निवृत्तो महाद्युतिः ।। 4.12.23 ।।

[ निवृत्तः स्वपुरीं प्राप क्रोधाविष्टो महाबलः ।]

राघवो ऽपि सहभ्रात्रा सह चैव हनूमता ।

तदेव वनमागच्छत् सग्रीवो यत्र वानरः ।। 4.12.24 ।।

जर्जरीकृतः परुषत्वक्कृतः ।। 4.12.2224 ।।

तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् ।

ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन् ।। 4.12.25 ।।

वसुधामवलोकयन्निति लज्जानुभावः ।। 4.12.25 ।।

आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् ।

वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ।। 4.12.26 ।।

आह्वयस्वेति । दर्शयित्वा च विक्रममिति व्यतिरेकोक्तिः । त्वया किं कृतं, किं चिन्तितमित्यर्थः । कृतिरनेकार्थः ।। 4.12.26 ।।

तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः ।

वालिनं न निहन्मीति ततो नाहमितो व्रजे ।। 4.12.27 ।।

तामेव वेलामिति । अत्यन्तसंयोगे द्वितीया । “वालिनं जहि काकुत्स्थ” इति प्रार्थनवेलायामित्यर्थः । ततः तथोक्तं चेत् ।। 4.12.27 ।।

तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः ।

करुणं दीनया वाचा राघवः पुनरब्रवीत् ।। 4.12.28 ।।

तस्येति । करुणं सदयम् अब्रवीत् ।। 4.12.28 ।।

सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् ।

कारणं येन बाणो ऽयं न मया स विसर्जितः ।। 4.12.29 ।।

सुग्रीवेति । येन कारणेन बाणो न विसर्जितः तत्कारणं श्रुयताम्, श्रुत्वा क्रोधश्चापनीयतामिति योजना ।। 4.12.29 ।।

अलङ्कारेण वेषेण प्रमाणेन गतेन च ।

त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ।। 4.12.30 ।।

वेषेण आकारेण प्रमाणेन औन्नत्येन गतेन गमनेन ।। 4.12.30 ।।

स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ।

विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ।

ततो ऽहं रूपसादृश्यान्मोहितो वानरोत्तम ।। 4.12.31 ।।

वर्चसा तेजसा प्रेक्षितेन वीक्षणेन वाक्यैः भाषणैः व्यक्तिं विशेषम् । तत इति । मोहितः सञ्जातमोहः, विशेषानभिज्ञ इत्यर्थः ।। 4.12.31 ।।

नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ।

जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः ।। 4.12.32 ।।

मूलघातो न नौ स्याद्धि द्वयोरपिकृतो मया ।। 4.12.33 ।।

त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया ।

मौढ्यं च मम बाल्यं च ख्यापितं स्याद्धरीश्वर ।। 4.12.34 ।।

दत्ताभयवधो नाम पातकं महदुच्यते ।। 4.12.35 ।।

अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी ।

त्वदधीना वयं सर्वे वने ऽस्मिन् शरणं भवान् ।। 4.12.36 ।।

नोत्सृजामीत्यादिसार्धश्लोक एकान्वयः । अन्ते इतिकरणं द्रष्टव्यम् । द्वयोपरि नौ मया मूलघातो न कृतः स्यादिति हि शरं नोत्सृजामि नोत्सृष्टवानस्मीति योजना । ननु काञ्चनमालारूपो वालिनो विशेषो ऽस्ति । सत्यम्, तस्मिन् दिने तन्न धृत्वा गतवानिति ज्ञेयम् । यद्यप्यत्र मत्तत्वभोगचिह्नाश्रान्तत्वपुरनिर्गतत्वादिकं वाल्यसाधारणमस्ति, समीपस्था हनुमदादयश्च प्रष्टुं शक्याः, स्वयं च सूक्ष्मज्ञः, “प्रेक्षितज्ञास्तु कोसलाः” इत्युक्तेः । तथापि “त्वया मया च कुन्त्या च” इति न्यायेन साधारण्यं परिहर्तुं दृष्टहेतून् कांश्चिदुक्तवान् राम इति ज्ञेयम् ।। 4.12.3236 ।।

तस्माद्युद्ध्यस्व भूयस्त्वं मा मा शङ्कीश्च वानर ।

एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे ।

निरस्तमिषुणैकेन वेष्टमानं महीतले ।। 4.12.37 ।।

तस्मादिति । मा मा शङ्कीरिति, मा मां प्रति मा शङ्कीः शङ्कां मा कुरु । व्यत्ययेन परस्मैपदम् । 4.12.37 ।।

अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ।

येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ।। 4.12.38 ।।

अभिज्ञानं चिह्नम् ।। 4.12.38 ।।

गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् ।

कुरु लक्ष्मण कण्ठे ऽस्य सुग्रीवस्य महात्मनः ।। 4.12.39 ।।

गजपुष्पीं नागपुष्पीं नाम लताम् ।। 4.12.39 ।।

ततो गरितटे जातामुत्पाट्य कुसुमाकुलाम् ।

लक्ष्मणो गृजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ।। 4.12.40 ।।

व्यसर्जयत् अमोचयत्, बद्धवान् ।। 4.12.40 ।।

स तया शुशुभे श्रीमान् लतया कण्ठसक्तया ।

विपरीत इवाकाशे सूर्यो नक्षत्रमालया ।। 4.12.41 ।।

स तयेत्यादि । विपरीत इवेत्याद्युपरि विव्रीयते ।। 4.12.41 ।।

मालयेव बलाकानां ससन्ध्य इव तोयदः ।

विभ्राजमानो वपुषा रामवाक्यसमाहितः ।

जगाम सह रामेण किष्किन्धां वालिपालिताम् ।। 4.12.42 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वादशः सर्गः ।। 12 ।।

ससन्ध्य इव तोयद इति । सुग्रीवस्य हेमपिङ्गलत्वादिति भावः । अस्मिन् सर्गे सार्धद्विचत्वारिंशच्छ्लोकाः ।। 4.12.42 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वादशः सर्गः ।। 12 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.