14 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्दशः सर्गः

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् ।

वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ।। 4.14.1 ।।

विचार्य सर्वतो दृष्टिं कानने काननप्रियः ।

सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम् ।। 4.14.2 ।।

अथ वाल्याह्वानभीतं सुग्रीवं निस्त्रासयति रामश्चतुर्दशे सर्व इत्यादि ।। 4.14.1,2 ।।

ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् ।

परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् ।

गर्जन्निव महामेघो वायुवेगपुरस्सरः ।। 4.14.3 ।।

अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा ।

दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ।। 4.14.4 ।।

तत इत्यादि । वायुवेगपुरःसरः वायुवेगान्मेघे अधिको ध्वनिरिति प्रसिद्धिः । यतः वायुवेगपुरस्सरः अत एव गर्जन्महामेघ इव स्थितः । परिवारैः परिवृतः सः नादैरम्बरं भिन्दन्निव घोरं निनदं कृत्वा युद्धायाह्वयत् । वालिनमिति शेषः ।। 4.14.3,4 ।।

हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम् ।

प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् ।। 4.14.5 ।।

हरिवागुरया हरय एव वागुरा मृगग्रहणपाशः तया व्याप्ताम् इतरदुष्प्रवेशामित्यर्थः । यद्वा हरिवागुरया हरिगृहैः जात्येकवचनम् । “वागुरा मृगशालिका” इति वैजयन्ती ।। 4.14.5 ।।

प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा ।

सफलां तां कुरु क्षिप्रं लतां काल इवागतः ।। 4.14.6 ।।

एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ।

तमथोवाच सुग्रीवं वचनं शत्रुसूदनः ।। 4.14.7 ।।

आगतः कालः फलकालः ।। 4.14.6,7 ।।

कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया ।

लक्ष्मणेन समुत्पाट्य यैषा कण्ठे कृता तव ।। 4.14.8 ।।

शोभसे ह्यधिकं वीर लतया कण्ठसक्तया ।

विपरीत इवाकाशे सूर्यो नक्षत्रमालया ।। 4.14.9 ।।

अभिज्ञापकं चिह्नम् अबिज्ञानचिह्नम्, कृतमभिज्ञानचिह्नं यस्य स तथा । गजपुष्प्यामेव गजसाशब्दः । यद्वा गजेन समा आह्वा आख्या यस्याः सा गजसाह्वा तया शोभस इति । अत्राहुः विपरीते रात्रौ । सूर्यः पूर्णचन्द्रः । “परीतं तु दिवा प्रोक्तं विपरीतं तु शर्वरी । राकामध्यगतश्चन्द्रः सूर्य इत्यभिधीयते ।।” इति वचनात्। यद्वा नक्षत्रमालया विपरीतः विशेषेण परिवृतः सूर्य इव चन्द्र इव। अन्यशब्देनान्यस्याभिधानं कथमिति चेत्? “नवो नवो भवति” इति श्रुतौ अह्नां केतुः सूर्यः चन्द्राप्यायकत्वाच्चन्द्रमा इत्युच्यते। तद्वच्चन्द्रोऽपि सूर्यकिरणानुप्रवेशायत्तप्रकाशविशेषवत्त्वात् सूर्यशब्देनाभिधीयत इति। यद्वा विशेषेण परीतो विपरीतः नक्षत्रावृतः सूर्य इवेत्यभूतोपमा। विपरीत इत्यनेन तात्कालिकतेजोवत्त्वमुच्यते। यद्वा विपरीते विपरीतकाले सूर्यो नक्षत्रमालयेव अनया लतया शोभसे। उत्पातकाले हि मध्याह्ने नक्षत्राणि दृश्यन्त इत्युच्यते ज्योतिःशास्त्रे “रात्राविन्द्रधनुर्दर्शें दिवा नक्षत्रदर्शने। तद्राष्ट्रनाथनाशः स्यादिति गर्गस्य भाषितम् ।।” इति । अतः भाविवालिवधरूपफलानुसारेण तेजसा ज्वलन् सुग्रीवः शुभ्रपुष्पावलीशोभमानगजपुष्पीमालया उत्पातकाले नक्षत्रमालया सूर्य इव बभावित्यस्मदाचार्योक्तम् । अत्राहुरित्यारभ्य सूर्यशब्देनाभिधीयत इत्यन्तं गोविन्दराजोक्तमेव रामानुजीये दृश्यते, विशेषस्त्वयम् ।। 4.14.8,9 ।।

अद्य वालिसमुत्थं ते भयं वैरं च वानर ।

एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे ।। 4.14.10 ।।

अद्येति । प्रमोक्ष्यामि प्रमोचयिष्यामि । अनिट्तवमार्षम् ।। 4.14.10 ।।

मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम् ।

वाली विनिहतो यावद्वने पांसुषु वेष्टते ।। 4.14.11 ।।

ममेति । यावद्वेष्टते वेष्टिष्यते । “यावत्पुरानिपातयोर्लट्” इति लट् ।। 4.14.11 ।।

यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते ।

ततो दोषेण मा ऽ ऽगच्छेत् सद्यो गर्हेच्च मा भवान् ।। 4.14.12 ।।

प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः ।

तेनावेहि बलेनाद्य वालिनं निहतं मया ।। 4.14.13 ।।

यदीति । स वाली दृष्टिपथं प्राप्तः सन् पुनर्जीवन्यदि विनिवर्तते ततः तदा दोषेणोपलक्षितं मा माम् आगच्छेत् सद्यो मा मां भवान् गर्हेच्च गर्हेत च । यदि दृष्टमात्रेण तं न हन्यां तदा मत्समीपमागच्छ मां गर्हस्व चेत्यर्थः ।। 4.14.12,13 ।।

अनृतं नोक्तपूर्वं मे वीर कृच्छ्रे ऽपि तिष्ठता ।

धर्मलोभपरीतेन न च वक्ष्ये कथञ्चन ।। 4.14.14 ।।

अनृतमिति । मे मया “तेमयावेकवचनस्य” इत्येतत्तृतीयायामप्यार्षे दृश्यते । अतस्तद्विशेषणे ऽपि तृतीयाप्रयोगः । धर्मलोभपरीतेन लोभो लब्धस्य त्यागासहिष्णुता । धर्महान्यसहिष्णुनेत्यर्थः ।। 4.14.14 ।।

सफलां च करिष्यामि प्रतिज्ञां जहि सम्भ्रमम् ।

प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ।। 4.14.15 ।।

सफलामिति । सम्भ्रमं संशयकृतचाञ्चल्यं पराक्रमेण प्रतिज्ञासफलत्वकरणे दृष्टान्तमाह प्रसूतमिति । कलमं सस्यम् ।। 4.14.15 ।।

तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः ।

सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः ।। 4.14.16 ।।

तदाह्वानेति । तत्तस्मात् ।। 4.14.16 ।।

जितकाशी बलश्लाघी त्वया चाधर्षितः पुरा ।

निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः ।। 4.14.17 ।।

जितेति । जितेन जयेन काशते प्रकाशत इति जितकाशी । ताच्छील्ये णिनिः । असङ्गेन अविलम्बेन ।। 4.14.17 ।।

रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे ।

जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः ।। 4.14.18 ।।

स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः ।

ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् ।। 4.14.19 ।।

स्त्रीसमक्षमित्यनेन तदानीं सायङ्काल इत्यवगम्यते । “प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया । सायं कामेन पीड्यन्ते जन्तवो निशि निद्रया ।।” इति वचनात् ।। 4.14.18,19 ।।

तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ।

राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः ।। 4.14.20 ।।

द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः ।

पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ।। 4.14.21 ।।

हतप्रभाः भीतिविकृतमुखकान्तयः । गाव इत्यनेन गवां पुरप्रवेशकालसूचनात्तत्कालस्य सायन्तनत्वं गम्यते । राजदोषपरामृष्टाः राजदोषेण अराजकत्वरूपदोषेण परामृष्टाः परैः परपुरुषैः आमृष्टाः केशेषु गृहीताः कुलस्त्रिय इव आकुलाः गन्तव्यप्रदेशाभावेनाकुलाः ।। 4.14.20,21 ।।

ततः स जीमूतगणप्रणादो नादं ह्यमुञ्चत्त्वरया प्रतीतः ।

सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वा ऽनिलचञ्चलोर्मिः ।। 4.14.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्दशः सर्गः ।। 14 ।।

प्रतीतः नादमोचने प्रसिद्धः । सरित्पतिर्वा समुद्र इव ।। 4.14.22 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्दशः सर्गः ।। 14 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.