26 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षड्विंशः सर्गः

ततः शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम् ।

शाखामृगमहामात्राः परिवार्योपतस्थिरे ।। 4.26.1 ।।

अथ सुग्रीवाभिषेकः षड्विंशे तत इत्यादि । क्लिन्नवाससम् आर्द्रवस्त्रम् । सद्यः स्नानादिति भावः । शाखामृगमहामात्राः वानरूपा मन्त्रिणः ।। 4.26.1 ।।

अभिगम्य महाबाहुं राममक्लिष्टकारिणम् ।

स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ।। 4.26.2 ।।

ततः काञ्चनशैलाभस्तरुणार्कनिभाननः ।

अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ।। 4.26.3 ।।

सर्वे सुग्रीवादयः ।। 4.26.2,3 ।।

भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् ।

वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ।। 4.26.4 ।।

भवता समनुज्ञातः प्रविश्य नगरं शुभम् ।

संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ।। 4.26.5 ।।

भवत्प्रसादादिति । वानराणां राज्यमित्यन्वयः ।। 4.26.4,5 ।।

स्नातो ऽयं विविधैर्गन्धैरौषधैश्च यथाविधि ।

अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ।। 4.26.6 ।।

अतिनिपुणतया हनुमान् प्रथमं सङ्ग्रहेण विज्ञाप्य तच्छृण्वति रामे पुनर्विशदमाह स्नात इति ।। 4.26.6 ।।

इमां गिरिगुहां रम्यामभिगन्तुमितो ऽर्हसि ।

कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षयन् ।। 4.26.7 ।।

एवमुक्तो हनुमता राघवः परवीरहा ।

प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ।। 4.26.8 ।।

चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम् ।

न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः ।। 4.26.9 ।।

सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः ।

प्रविष्टो विधिवद्वीरः क्षिप्रं राज्ये ऽभिषिच्यताम् ।। 4.26.10 ।।

एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् ।

वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम् ।। 4.26.11 ।।

गिरिगुहां किष्किन्धाम् । वानराणां स्वामिना सम्बन्धं कुरु, सुग्रीवं वानरराजं कुर्वित्यर्थः ।। 4.26.711 ।।

इममप्यङ्गदं वीर यौवराज्ये ऽभिषेचय ।

ज्येष्ठस्य स सुतो ज्येष्ठः सदृशो विक्रमेण ते ।

अङ्गदो ऽयमदीनात्मा यौवराज्यस्य भाजनम् ।। 4.26.12 ।।

भाजनं योग्यमित्यर्थः ।। 4.26.12 ।।

पूर्वो ऽयं वार्षिको मासः श्रावणः सलिलागमः ।

प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसञ्ज्ञकाः ।। 4.26.13 ।।

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ।

अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ।। 4.26.14 ।।

इयं गिरिगुहा रम्या विशाला युक्तमारुता ।

प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ।। 4.26.15 ।।

अस्त्विभिषेकः, सीतान्वेषणरावणवधादिकं प्रत्युद्योगः क्रियत इत्याशङ्क्याह पूर्व इत्यादि । पूर्वः वर्षत्वपेक्षया प्रथमः । वर्षाः वर्षर्तुः । “स्त्रियां पावृट् स्त्रियां भूम्नि वर्षाः” इत्यमरः । तत्र भवो वार्षिकः । “द्वौ द्वौ मार्गादिमासौ स्यादृतुः” इति श्रावणभाद्रपदौ वर्षर्तुः । तदेकदेशत्वाच्छ्रावणो वार्षिक इत्युच्यते । “वर्षाभ्यष्ठक्” इति ठक्प्रत्ययः । वार्षिकसञ्ज्ञाश्चत्वारो मासा इति आश्वयुजाषाढाभ्यां चतुष्ट्वमिति ज्ञेयं छत्ित्रन्यायात् । वर्षमुखत्वाद्वर्षानन्तरकालत्वाच्च चत्वारो ऽपि युद्धेयोग्या न भवन्ति । कश्चित्तु “पक्षा वै मासाः” इति श्रुतिपक्षमाश्रित्य चत्वारो वार्षिका मासा इत्युक्तम् । श्रावणः प्रथमो मास इत्यत्रापि प्रथमः पक्ष इत्यर्थः । “चत्वारो वार्षिका मासा गता वर्षशतोपमाः” इत्युपसंहारादित्याह ।। 4.26.1315 ।।

कार्तिके समनुप्राप्ते त्वं रावणवधे यत ।

एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ।। 4.26.16 ।।

अभिषिक्तः स्वराज्ये च सुहृदः सम्प्रहर्षय ।। 4.26.17 ।।

इति रामाभ्यनुज्ञातः सुग्रीवो वानराधिपः ।

प्रविवेश पुरीं रम्यां किष्कन्धां वालिपालिताम् ।। 4.26.18 ।।

तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ।

अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन् ।। 4.26.19 ।।

कार्त्तिक इति । कार्त्तिके मासि समनुप्राप्ते समीपं प्रप्ते, आश्वायुजान्त इत्यर्थः । यत यतस्व, सेनासन्नहनं कुरु । कार्त्तिकशबदस्य आश्वयुजान्तपरत्वं स्वयमेव वक्ष्यति “वयमाश्वयुजे मासि पिङ्गाक्षप्रतिचोदिताः” इति । प्रतिचोदनं सन्नहनं न तु निर्गमः । निर्गमस्तु मार्गशीर्षे । स्वसङ्केतितकार्त्तिकातिक्रमादेव रामस्य सुगीर्वे कोपो लक्ष्मणप्रेषणं च । स्वयम्प्रभाबिलनिर्गमनानन्तरं “द्रुमान् वासन्तिकान् दृष्ट्वा” इत्येतत् वसन्तपुष्पोद्गमोपक्रमभूतपत्रविगलनहेतुफाल्गुनापेक्षया । पक्षान्तरे फाल्गुनचैत्रयोर्वसन्तत्वोक्तेर्वा । अयमत्र क्रमो ऽनुसन्धेयः । “उत्तरस्यादिना पूर्वस्यावधिं जानीयात्” इति न्यायेन उत्तरस्योत्तरस्य ग्रहणात् पूर्वपूर्वकालसङ्ख्याज्ञापनं वाल्मीकेः शैली । तथा च चैत्रे रामस्य साकेतान्निर्गमः । अगस्त्याश्रमागमनात्पूर्वं दश संवत्सरा गता इत्युक्तम् । अथ पञ्चवट्यां वर्षत्रयानन्तरं चैत्रे प्राप्ते शूर्पणखानासिकाच्छेदनखरवधादिकं कृतमित्यवगम्यते । रावणेन च मारीचवचनादिना किञ्चिद्विलम्ब्य तस्मिन्नेव चैत्रे सीता हृता । सीताविरहेण दूयमानस्य रामस्य वसन्तवर्णने “चैत्रवनानिलः” इत्युक्तेः लङ्कायां सीतायाः संवत्सरवासोक्तेश्च । पुनः फाल्गुणे हि रावणवधः । आषाढे वालिवधः । शरदि सेनासन्नहनम् । मार्गशीर्षे वानरप्रस्थापनम् । स्वयम्प्रभाबिले बहुकालयापनम् । “कालश्च नो महान् यातः” इत्युक्तेः । बहिर्निर्गमनानन्तरं फाल्गुनशुद्धत्रयोदश्यां हनुमतः समुद्रतरणम् । चतुर्दश्यां पुनरागमनम् । पौर्णमास्यां दण्डयात्रेत्यादि । अन्यद्युद्धकाण्डे वक्ष्यते । समयः सङ्केतः ।। 4.26.1619 ।।

ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् ।

प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ।। 4.26.20 ।।

प्रणम्येति । मूर्ध्ना प्रणम्य वसुधायां पतिताः समाहिताः अनन्यमनस्काः ।। 4.26.20 ।।

सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान् ।

भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः ।। 4.26.21 ।।

प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं प्लवगेश्वरम् ।

अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः ।। 4.26.22 ।।

भ्रातुरन्तःपुरं प्रविवेशेति । तारां सम्मान्य, स्ववशीकरणार्थमिति भावः ।। 4.26.21,22 ।।

तस्य पाण्डुरमाजह्रुश्छत्त्रं हेमपरिष्कृतम् ।

शुक्ले च वालव्यजने हेमदण्डे यशस्करे ।। 4.26.23 ।।

तथा सर्वाणि रत्नानि सर्वबीजौषधैरपि ।

सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च ।। 4.26.24 ।।

शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् ।

सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ।। 4.26.25 ।।

चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहून् ।

अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी ।

दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ ।। 4.26.26 ।।

प्ररोहान् पल्लवान् । अनुलेपनं कर्पूरादि । गन्धाः अगरुप्रभृतयः । अक्षतं जातरूपम् । अक्षततण्डुलं हरिद्रामिश्रम् । प्रियङ्गुः सूक्ष्मधान्यविशेषः । वाराही वराहचर्मविकृती । “सुपां सुलुक्” इत्यादिना पूर्वसवर्णदीर्घः ।। 4.26.2326 ।।

समालम्भनमादाय रोचनां समनः शिलाम् ।

आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ।। 4.26.27 ।।

समालम्भनम् अनुलेपनविशेषः । “समालम्भो विलेपनम्” इत्यमरः । रोचनां गोरोचनाम् । समनःशिलां शैलधातुविशेषसंहितं तिलकसाधनं मनःशिला ।। 4.26.27 ।।

ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि ।

रत्नैर्वस्त्रैश्च भक्षैश्च तोषयित्वा द्विजर्षभान् ।। 4.26.28 ।।

ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम् ।

मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ।। 4.26.29 ।।

ततो हेमप्रतिष्ठाने वरास्तरणसंवृते ।

प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ।। 4.26.30 ।।

प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने ।

नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः ।। 4.26.31 ।।

आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ।

अपः कनककुम्भेषु निधाय विमलाः शुभाः ।। 4.26.32 ।।

शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः ।

शास्त्रदृष्टेन विधिना महर्षिविहितेन च ।। 4.26.33 ।।

गजो गवाक्षो गवयः शरभो गन्धमादनः ।

मैन्दश्च द्विविदश्चैव हनुमान् जाम्बवान्नलः ।। 4.26.34 ।।

अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना ।

सलिलेन सहस्राक्षं वसवो वासवं यथा ।। 4.26.35 ।।

अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः ।

प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः ।। 4.26.36 ।।

रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुङ्गवः ।

अङ्गदं सम्परिष्वज्य यौवराज्ये ऽभ्यषेचयत् ।। 4.26.37 ।।

ततस्ते वानरश्रेष्ठमित्यारभ्य वसवो वासवं यथेत्यन्तमेकं वाक्यम् । यथाकालं विहितकालमनतिक्रम्य । यथाविधि यथाक्रमम् । द्विजर्षभान् याजनार्थमाहूतान् । समिद्धं ज्वलितम् । जातवेदसम् अग्निम् । मन्त्रिविदः वानरपुरोहिताः हेमप्रतिष्ठाने हेममयपादयुक्ते । वरासनविशेषणमेतत् । नदीनदेभ्यस्तीर्थेभ्यः समुद्रेभ्यश्च अपः आहृत्य आनीय, संहृत्य सम्मिश्रीकृत्य तद्विमलं जलं कनककुम्भेषु निधाय तेभ्यो वृषभशृङ्गादिभिरुद्धृत्य, शास्त्रदृष्टेन विधिना क्रमेण, महर्षिविहितेन कल्पसूत्रविहितेन च विधिना अभ्यषिञ्चन्त ।। 4.26.2837 ।।

अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः ।

साधु साध्विति सुग्रीवं महात्मानो ऽभ्यपूजयन् ।। 4.26.38 ।।

सानुक्रोशाः अङ्गदे सदयाः ।। 4.26.38 ।।

रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः ।

प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तति ।। 4.26.39 ।।

तादृशे सुग्रीवाङ्गदाभिषेकरूपोत्सवे वर्तति वर्तमाने सति ।। 4.26.39 ।।

हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता ।

बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ।। 4.26.40 ।।

हृष्टेति । पताकाध्वजयोर्भेद उक्तः ।। 4.26.40 ।।

निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः ।

रुमां च भार्यां प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा ।। 4.26.41 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षड्विंशः सर्गः ।। 26 ।।

निवेद्येति । निवेद्य, रामसमीपमागत्य निवेद्येत्यर्थः ।। 4.26.41 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षड्विंशः सर्गः ।। 26 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.