29 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः

समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् ।

सारसारवसङ्घुष्टं रम्यज्योत्स्नानुलेपनम् ।। 4.29.1 ।।

समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम् ।

अत्यर्थमसतां मार्गमेकान्तगतमानसम् ।। 4.29.2 ।।

निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।

प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ।। 4.29.3 ।।

स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् ।

विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ।। 4.29.4 ।।

क्रीडन्तमिव देवेशं नन्दने ऽप्सरसां गणैः ।

मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ।। 4.29.5 ।।

उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् ।

निश्चितार्थो ऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ।। 4.29.6 ।।

प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः ।

वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ।। 4.29.7 ।।

हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत् ।

प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ।

हरीश्वरमुपागम्य हनुमान् वाक्यमब्रवीत् ।। 4.29.8 ।।

अत हनुमान् रामभक्तो ऽपि स्वस्वाम्यनुज्ञाभावेन तं ध्यायन् सुग्रीवसमीप एव स्थितः स्वस्वामिना सर्वस्वामिहितानुगुणं कार्यमारब्धवानित्याहैकोनत्रिंशे समीक्ष्येत्यादि हनुमान्वाक्यमब्रवीदित्यन्तमेकं वाक्यम् । हनुमान् उक्तगुणविशिष्टं व्योम उक्तगुणविशिष्टं सुग्रीवं च समीक्ष्य । हरीशं प्रसाद्य हरीश्वरमुपागम्य प्रणयाद्वाक्यमब्रवीदिति सम्बन्धः । विमलमित्यादिना सेनासन्नाहस्य प्राप्तकालत्वमुक्तम् । समृद्धार्थमित्यादिना समयातिक्रमहेतवः प्रदर्श्यन्ते । समृद्धार्थं सम्पूर्णरत्नवस्त्राभरणादिकम् । मन्दः अल्पः धर्मार्थयोः सङ्ग्रहः सम्पादनं यस्य तम् । एकान्तगतमानसम् एकस्मिन् कामपुरुषार्थे अन्तं निश्चयं गतं मानसं यस्य तथोक्तम् । यद्वा असतां कामुकानां मार्गम् एकान्तगतम् अत्यन्तगतं मानसं यस्य स तथा । “तीव्रैकान्तनितान्तानि” इत्यमरः । निर्वृत्तकार्यं निष्पन्नवालिवधरूपकार्यम् । सिद्धार्थं प्राप्तराज्यम् । अभिप्रेतानीप्सितान् मनोरथान् राज्यप्राप्त्यनन्तरमेवं करिष्यामीति सङ्कल्पविषयीभूतानर्थान् तारां च प्राप्तवन्तमिति सम्बन्धः । कृतार्थं निष्पन्नधनम् ।

मन्त्रिणामनवेक्षकं मन्त्रिकृतकार्यापरामर्शकम् । उत्सन्नराज्यसन्देशं नष्टराज्यनियमनम् । कामवृत्तं कामव्यापारम् । अवस्थितं कामव्यापारपरतन्त्रतया ऽवस्थितमित्यर्थः । निश्चितार्थः निश्चितकर्तव्यः । अत्र हेतुः अर्थतत्त्वज्ञ इति । कालोचितो धर्मः कालधर्मः तद्विशेषवित् । वाक्यवित् तदुचितव्यवहारवित् । हितम् उदर्कसुखकरम् । तत्त्वं यथार्थम् । पथ्यं नीतिमार्गादनपेतम् । सामधर्मार्थनीतिमत् साम च धर्मश्च अर्थश्च नीतिश्च सामधर्मार्थनीति तदस्यास्तीति सामधर्मार्थनीतिमत् । प्रणयप्रीतिसंयुक्तम् प्रणयः समानविषयस्नेहः, प्रीतिः न्यूनविषयः । विश्वासकृतनिश्चयम् आप्तवाक्यत्वविश्वासे विषये कृतनिश्चयम् ।। 4.29.18 ।।

राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता ।

मित्राणां सङ्ग्रहः शेषस्तं भवान् कर्तुमर्हति ।। 4.29.9 ।।

राज्यमिति । कौली कुलक्रमागता श्रीः सम्पत् अभिवर्धिता, अप्रतिद्वन्दत्वादिति भावः । मित्राणां सङ्ग्रहः तत्कार्यकरणम् । शेषः अवशिष्टो भवति । इदमेव वचनं प्रसाद्य वाक्यैरित्यादिना पूर्वं प्रशंसितम् ।। 4.29.9 ।।

यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ।

तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ।। 4.29.10 ।।

मित्रकार्यस्यावश्यकर्तव्यत्वमाह यो हीति । कालज्ञः मित्रसङ्ग्रहकालज्ञः । तत्कालातिक्रमे विपरीतं भवतीत्यर्थः । मित्रेषु वर्तते, मित्राधीनो भवतीत्यर्थः ।। 4.29.10 ।।

यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ।

समवेतानि सर्वाणि स राज्यं महदश्नुते ।। 4.29.11 ।।

यस्येति । दण्ड्यते ऽनेनेति दण्डः सेनाविशेषः । आत्मा प्रभुरित्यर्थः । समवेतानि समुदितानि । एकन्यूनत्वे महाराज्यहानिरिति भावः ।। 4.29.11 ।।

तद्भावन् वृत्तसम्पन्नः स्थितः पथि निरत्यये ।

मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ।। 4.29.12 ।।

तदिति । निरत्यये अविनाशिनि । पथि सन्मार्ग इत्यर्थः । मित्रार्थं मित्रकार्यम् । अभिनीतार्थं प्रापितप्रयोजनं यथा भवति तथा । यथावत् यथाप्रतिज्ञमिति यावत् ।। 4.29.12 ।।

सन्त्यज्य सर्वकर्माणि मित्रार्थे यो ऽनुवर्तते ।

सम्भ्रमाद्धि कृतोत्साहः सो ऽनर्थैर्नावरुध्यते ।। 4.29.13 ।।

सन्त्यज्येति । सर्वकार्माणि स्वभोगसाधनानि सन्त्यज्य । कृतोत्साहः सन् सम्भ्रमात् आदरात् मित्रार्थे विषये यः अनुवर्तते अनुस्यूततया तिष्ठति, सो ऽनर्थैर्नावरुध्यते न सम्बध्यते ।। 4.29.13 ।।

यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ।

स कृत्वा महतोप्यर्थान्न मित्रार्थेन युज्यते ।। 4.29.14 ।।

एवं कर्तव्यं मित्रकार्यमुचितकाले कर्तव्यमित्याह यस्त्विति । कालव्यतीतेषु अतिक्रान्तकालेषु ।। 4.29.14 ।।

यदिदं वीर कार्यं नो मित्रकार्यमरिन्दम ।

क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ।। 4.29.15 ।।

यदिदमिति । हेवीर नः अस्माभिः । यदिदं मित्रकार्यं कर्तव्यम् एतत् वैदेह्याः परिमार्गणं क्रियतामिति सम्बन्धः ।। 4.29.15 ।।

तदिदं वीरकार्यं ते कालतीतमरिन्दम ।। 4.29.16 ।।

तदिदमिति । ते कार्यं त्वया कर्तव्यम् । इदं मित्रकार्यम् ।। 4.29.16 ।।

न च कालमतीतं ते निवेदयति कालवित् ।

त्वरमाणो ऽपि सन् प्राज्ञस्तव राजन् वशानुगः ।। 4.29.17 ।।

न चेति । कालवित्, राम इति शेषः । त्वरमाण इत्यर्धं पूर्वेणान्वेति । कालवित् प्राज्ञो रामः त्वरमाणो ऽपि सन् वैदेहीसमानयनाय त्वरमाणो ऽपि सन् न निवेदयतीति सम्बन्धः ।। 4.29.17 ।।

कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः ।

अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ।। 4.29.18 ।।

कुलस्येति । स्वयं चेति, त्वमपि गुणैरप्रतिम इत्यर्थः ।। 4.29.18 ।।

तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ।

हरीश्वर हरिश्रोष्ठानाज्ञापयितुमर्हसि ।। 4.29.19 ।।

तस्येति । अज्ञापयितुम्, वानरसोनामानेतुमिति शेषः ।। 4.29.19 ।।

न हि तावद्भवेत्कालो व्यतीतश्चेदनादृते ।

चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ।। 4.29.20 ।।

इदानीं वानरानयने ऽपि कालव्यतिक्रमस्तुल्य इत्याशङ्क्याह नहीति । चोदनादृते रामप्रेरणं विना । कालो न व्यतीतो भवेत्, रामचोदनानन्तरं कार्यं क्रियते चेत्तदा कालातिक्रमः, तच्चोदनात्पूर्वमस्माभिः कार्यप्रवर्तने न कालातिक्रमदोष इति भावः ।। 4.29.20 ।।

अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर ।

किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ।। 4.29.21 ।।

अकर्तुः अनुपकर्तुः ।। 4.29.21 ।।

शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर ।

कर्तुं दाशरथेः प्रीतिमाज्ञायां किं न सज्जसे ।। 4.29.22 ।।

कामं खलु शरैः शक्तः सुरासुरमहोरगान् ।

वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ।। 4.29.23 ।।

शक्तिमानपीति । प्रीतिं कर्तुम् । आज्ञायाम् आज्ञापने । न सज्जसे नोद्योगं करोषि ।। 4.29.22,23 ।।

प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् ।

तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ।। 4.29.24 ।।

न देवा न च गन्धर्वा नासुरा न मरुद्गणाः ।

न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ।। 4.29.25 ।।

तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव ।

रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ।। 4.29.26 ।।

प्राणत्यागेति । प्राणत्यागाविशङ्केनेत्यनेन उपकारमहत्त्वं द्योतितम् ।। 4.29.2426 ।।

नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ।

कस्यचित्सज्जते ऽस्माकं कपीश्वर तवाज्ञया ।। 4.29.27 ।।

नाधस्तादिति । कस्यचिदिति अस्माकं मध्ये कस्यचिद्गनिर्न सज्जते न मन्दीभवति ।। 4.29.27 ।।

तदाज्ञापय कः किं ते कृते कुत्र व्यवस्यतु ।

हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतो ऽनघाः ।। 4.29.28 ।।

तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम् ।

सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् ।। 4.29.29 ।।

स सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम् ।

दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे ।। 4.29.30 ।।

तदिति । अप्रधृप्याः कोट्यग्रतः कोट्यधिकाः । हरयः ते सन्ति तेषां मध्ये कः । ते कृते त्वदर्थम् । किं, करोत्विति शेषः । कुत्र कुत्र कार्ये । व्यवस्यतु व्यवसायं करोतु । तदाज्ञापय ।। 4.29.2830 ।।

यथा सेना समग्रा मे यूथपालाश्च सर्वशः ।

समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु ।। 4.29.31 ।।

यथेति । सेनाग्राणि सेनाग्रेसरान्, सेनानेतृ़नित्यर्थः । तथा कुरु तथा आज्ञापय ।। 4.29.31 ।।

ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः ।

समानयन्तु ते सैन्यं त्वरिताः शासनान्म ।

स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ।। 4.29.32 ।।

ये त्विति । अन्तपालाः सेनापर्यन्तपालकाः ।। 4.29.32 ।।

त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः ।

तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ।। 4.29.33 ।।

त्रिपञ्चेति । त्रिपञ्चरात्रादूर्ध्वं पञ्चदशरात्रादनन्तरदिवसे ।। 4.29.33 ।।

हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम् ।

इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ।। 4.29.34 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ।। 29 ।।

वृद्धान् जाम्बवत्प्रभृतीन् ।। 4.29.34 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनत्रिंशः सर्गः ।। 29 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.