43 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः

ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् ।

वीरं शतवलिं नाम वानरं वानरर्षभः ।। 4.43.1 ।।

उवाच राजा धर्मज्ञः सर्ववानरसत्तमम् ।

वाक्यमात्महितं चैव रामस्य च हितं तथा ।। 4.43.2 ।।

वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् ।

वैवस्वसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ।। 4.43.3 ।।

अतोत्तरदिशि शतवलिप्रेषणं त्रिचत्वारिंशे ततः सन्दिश्येत्यादि ।। 4.43.13 ।।

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् ।

सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ।। 4.43.4 ।।

हिमशैलावतंसकां हिमशैलालङ्काराम् ।। 4.43.4 ।।

अस्मिन् कार्ये विनिर्वृते कृते दाशरथेः प्रिये ।

ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ।। 4.43.5 ।।

कृतं हि प्रियमस्माकं राघवेण महात्मना ।

तस्य चेत् प्रतिकारो ऽस्ति सफलं जीवितं भवेत् ।। 4.43.6 ।।

अर्थितः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् ।

तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ।। 4.43.7 ।।

एतां बुद्धिमवस्थाय दृश्यते जानकी यथा ।

तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ।। 4.43.8 ।।

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः ।

अस्मासु चागतप्रीती रामः परपुरञ्जयः ।। 4.43.9 ।।

अस्मिन्निति । कृतार्थाश्चार्थविदश्च कृतार्थर्थविदः तेषां वराः ।। 4.43.59 ।।

इमानि वनगुर्गाणि नद्यः शैलान्तराणि च ।

भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ।। 4.43.10 ।।

तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च ।

प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ।। 4.43.11 ।।

काम्बोजान् यवनांश्चैव शकानारट्टकानपि ।

बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ।। 4.43.12 ।।

चीनान् परमचीनांश्च नीहारांश्च पुनःपुनः ।

अन्वीक्ष्य दरदांश्चैव हिमवन्तं तथैव च ।। 4.43.13 ।।

इमानि वक्ष्यमाणानि । नद्यः नदीः । तत्रेति । भरतान् इन्द्रप्रस्थादिप्रदेशान् । कुरून् दक्षिणकुरून् हिमवदन्तान् पुनः पुनरन्वीक्ष्य परिमार्गन्त्विति पूर्वेण सम्बन्धः ।। 4.43.1013 ।।

लौध्रपद्मकषण्डेषु देवदारुवनेषु च ।

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।। 4.43.14 ।।

ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् ।

कालं नाम महासानुं पर्वतं तु गमिष्यथ ।। 4.43.15 ।।

महत्सु तस्य शैलस्य निर्दरेषु गुहासु च ।

विचिनुध्वं महाभागां रामपत्नीं ततस्ततः ।। 4.43.16 ।।

लोध्रेति । पद्मकाश्चन्दनविशेषाः, साहचर्यात् ।। 4.43.1416 ।।

तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् ।

ततः सुदर्शंनं नाम गन्तुमर्हथ पर्वतम् ।। 4.43.17 ।।

तं कालं नाम महागिरिमतिक्रम्य । ततः तस्मात् । सुदर्शनं पर्वतं गन्तुमर्हथ ।। 4.43.17 ।।

ततो देवसखो नाम पर्वतः पतगालयः ।

नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ।। 4.43.18 ।।

तस्य काननषण्डेषु निर्झरेषु गुहासु च ।

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।। 4.43.19 ।।

तत इति । पतगालयः पक्षिणामावासभूतः । पक्षिणां वैविध्यमाह नानापक्षिसमाकीर्ण इति ।। 4.43.18,19 ।।

तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् ।

अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ।। 4.43.20 ।।

तमिति । तमतिक्रम्य तस्माद्देवसखाख्यपर्वतात्परम् । अपर्वतनदीवृक्षं शून्यारण्यस्थलम् । वर्तत इति शेषः ।। 4.43.20 ।।

तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् ।

कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ।। 4.43.21 ।।

तं त्विति । कैलासमिति । यद्यपि कैलासो हिमवदेकदेश इति पुराणान्तरोक्तं तथापि तदविरुद्धं ज्ञेयम्, मध्ये शून्यप्रदेशे ऽपि तावत्पर्यन्तं हिमवानिति ।। 4.43.21 ।।

तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् ।

कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ।। 4.43.22 ।।

विशाला नलिनी यत्र प्रभूतकमलोत्पला ।

हंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ।। 4.43.23 ।।

तत्रेत्यादि । तत्र कैलासे । नलिनी मानसाख्यसरसी ।। 4.43.22,23 ।।

तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः ।

धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ।। 4.43.24 ।।

तत्रेति । तत्र कैलासे ।। 4.43.24 ।।

तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च ।

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।। 4.43.25 ।।

तस्य कैलासस्य । पर्वतेषु पर्यन्तपर्वतेषु ।। 4.43.25 ।।

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ।

अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ।। 4.43.26 ।।

वसन्ति हि महात्मानास्तत्र सूर्यसमप्रभाः ।

देवैरप्यर्चिताः सम्यग् देवरूपा महर्षभः ।। 4.43.27 ।।

कौञ्चस्य तु गुहाश्चान्याः सानूनि शिखाराणि च ।

निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ।। 4.43.28 ।।

बिलं स्कन्दशक्तिकृतम् ।। 4.43.2628 ।।

क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः ।

अवृक्षं कामशैलं च मानसं विहगालयम् ।। 4.43.29 ।।

क्रौञ्चस्येत्यादि । शिखरं च प्रधानभूतं शिखरं च अवृक्षं अवृक्षाख्यं प्रत्यन्तपर्वतम् । विहगालयं मानसं मानकाख्यं गिरिं च निरीक्ष्य ते विचेतव्या इति पूर्वेण सम्बन्धः ।। 4.43.29 ।।

न गतिस्तत्र भूतानां देवदानवरक्षसाम् ।

स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ।। 4.43.30 ।।

न गतिरिति । तत्र मानसाख्ये पर्वते । ससानुप्रस्थभूधरः, सानवः उपत्यकाः, प्रस्थाः मध्यतटाः, भूधराः अधित्यकाः ।। 4.43.30 ।।

क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ।

मयस्य भवनं यत्र दानवस्य स्वयं कृतम् ।। 4.43.31 ।।

क्रौञ्चं गिरिमतिक्रम्य कौञ्चगिरेः परतः । मैनाको नाम पर्वतः, वर्तत इति शेषः ।। 4.43.31 ।।

मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः ।

स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ।। 4.43.32 ।।

अश्वमुखीनां किम्पुरुषस्त्रीणाम् ।। 4.43.32 ।।

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ।

सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ।। 4.43.33 ।।

तं देशमिति । आश्रमं सिद्धसेवितम्, अस्तीति शेषः ।। 4.43.33 ।।

वन्द्यास्ते तु तपस्तिद्धास्तपसा वीतकल्मषाः ।

प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ।। 4.43.34 ।।

हेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः ।

तरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः ।। 4.43.35 ।।

तपःसिद्धाः अणिमाद्यष्टैश्वर्यसिद्धियुक्ताः ।। 4.43.34,35 ।।

औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः ।

गजः पर्येति तं देशं सदा सह करेणुभिः ।। 4.43.36 ।।

औपवाह्यः राजार्हं वाहनम् । “राजवाहस्त्वौपवाह्यः” इत्यमरः ।। 4.43.36 ।।

तत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् ।

अनक्षत्रगणं व्योम निष्पयोदमनादितम् ।। 4.43.37 ।।

अथ महामेरुपर्यन्तेलावृतप्रदेशानुपदिशति तत्सर इति । उत्तरत्र “हिमवन्तं च मेरुं च समुद्रमं च तथोत्तरम्” इति वक्ष्यमाणत्वादत्र मेरुकीर्तनप्रसक्तिरेव नास्तीति न भ्रमितव्यम् । व्योम, वर्तत इति शेषः । व्योम्नो नष्टचन्द्रदिवाकरादित्वं नियतमार्गवर्तिनां चन्द्रसूर्यादीनां मेरुनिकटे किरणसञ्चाराभावात् । तदुक्तं विष्णुपुराणे “यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः । ऋते हेमगिरेर्मेरोरुपरि ब्रह्मणः सभाम् ।।” इति ।। 4.43.37 ।।

गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते ।

विश्राम्यद्भिस्तपस्मिद्धैर्देवकल्पैः स्वयम्प्रभैः ।। 4.43.38 ।।

गभस्तिभिरिति । स देशः अर्कस्य गभस्तिभिरिव स्थितैः स्वयम्प्रभैः स्वतः सिद्धज्ञानैः प्रकाशते ।। 4.43.38 ।।

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ।। 4.43.39 ।।

तं त्विति । निम्नगा, वर्तत इति शेषः ।। 4.43.39 ।।

उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ।

ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ।। 4.43.40 ।।

उभयोरिति । तस्याः शैलोदायाः उभयोस्तीरयोः कीचका नाम वेणवः सन्ति । ते उभयतीरजाः कीचकाः अन्योन्यसङ्ग्रथिततया गमनसाधनभूताः सन्तः सिद्धान् परं तीरं नयन्ति प्रत्यानयन्ति च ।। 4.43.40 ।।

उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ।। 4.43.41 ।।

कुरवः उत्तरकुरुसञ्ज्ञकाः देशाः वर्तन्त इति शेषः । कृतपुण्यानां प्रतिश्रयाः आश्रयभूताः आवासभूताः ।। 4.43.41 ।।

ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः ।

नीलवैडूर्यपत्त्राभिर्नद्यास्तत्र सहस्रशः ।। 4.43.42 ।।

ततः कृतपुण्यप्रतिश्रयत्वाद्धेतोः । कृतपुण्यभोग्यभूमित्वात् उक्तविशेषा नद्यः सन्तीति भावः । पद्मिनीभिः पद्मलताभिः कृतोदकाः पर्याप्तोदकाः । “युगपर्याप्तयोः कृतम्” इत्यमरः ।। 4.43.42 ।।

रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः ।

तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ।। 4.43.43 ।।

रक्तेत्यविभक्तिकनिर्देशः । रक्तैरुपत्पलनैर्हिरण्मयैरुत्पलवनैः, तरुणादित्यसदृशैरुत्पलवनैश्चैत्यर्थः । तत्रात्र तेष्वेतेषु कुरुष्वित्यन्वयः ।। 4.43.43 ।।

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः ।

नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ।। 4.43.44 ।।

महार्हमणयो नीलरत्नानि । तत्तुल्यपत्रैः ।। 4.43.44 ।।

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।

उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ।। 4.43.45 ।।

निस्तुलाभिः वर्तुलाभिः । “वर्तुलं निस्तुलं वृत्तम्” इत्यमरः । महाघनैः बहुमूल्यैः । उद्भूतपुलिनाः उन्नतपुलिना । निम्नागाः भान्तीति शेषः ।। 4.43.45 ।।

सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ।

जातरूपमयैश्चापि हुताशनसमप्रभैः ।। 4.43.46 ।।

सर्वेति । नगोत्तमैः पर्वतश्रेष्ठैः । अवगाढाः प्रविष्टा इति निम्नगाविशेषणम् ।। 4.43.46 ।।

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः ।

दिव्यागन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च ।। 4.43.47 ।।

नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ।। 4.43.48 ।।

पत्ररथाकुलाः पक्षिभिराकुलाः । सर्वकामान् सर्वाभीष्टान् ।। 4.43.47,48 ।।

मुक्तावैडूर्यचित्राणि भूषणानि तथैव च ।

स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च ।

सर्वर्तुसखसेव्यानि फलन्त्यन्ये नगोत्तमाः ।। 4.43.49 ।।

महार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः ।

शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ।। 4.43.50 ।।

मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ।

पानानि च महार्हाणि भक्ष्याणि विविधानि च ।। 4.43.51 ।।

स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः ।

गन्धर्वाः किन्निराः सिद्धा नागा विद्याधरास्तथा ।

रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ।। 4.43.52 ।।

मुक्तेति । सर्वर्तुसुखसेव्यानि हेमन्ताद्यृतुष्वपि सुखेन सेवितुं योग्यानि ।। 4.43.4952 ।।

सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः ।

सर्वे कामार्थसहिता वसन्ति सहयोषितः ।। 4.43.53 ।।

सर्व इति । सहयोषितः योषित्सहिताः ।। 4.43.53 ।।

गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः ।

श्रूयते सततं तत्र सर्वभूतमनोहरः । 4.43.54 ।।

गीतेति । सोत्कृष्टहसितस्वनः उत्कृष्टहासशब्दसहितः ।। 4.43.54 ।।

तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः ।

अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ।। 4.43.55 ।।

तत्रेति । असत्प्रियः अविद्यमानाङ्गनः । गुणाः सुखादयः ।। 4.43.55 ।।

समतिक्रम्य तं देशमुत्तरः पयसां निधिः ।। 4.43.56 ।।

समतिक्रम्येति । पयसां निधिः लवणसमुद्रः अस्तीति शेषः ।। 4.43.56 ।।

तत्र सोमगिरिर्नाम मध्ये हेममयो महान् ।

इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये ।

देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ।। 4.43.57 ।।

तत्र लवणसमुद्रे मध्ये मध्यदेशे ये दिवनं गता इत्यनुषज्यते ।। 4.43.57 ।।

स तु देशो विसूर्यो ऽपि तस्य भासा प्रकाशते ।

सूर्यलक्ष्म्या ऽभिविज्ञेयस्तपतेव विवस्वता ।। 4.43.58 ।।

स देशः विसूर्यो ऽपि रात्रौ विगतसूर्यो ऽपि तस्य सोमगिरेर्भासा प्रकाशते । कथमिव? सूर्यलक्ष्म्या अभिविज्ञेयः ज्ञातव्यपदार्थको देशः तपता विवस्वतेव ।। 4.43.58 ।।

भगवानपि विश्वात्मा शम्भुरेकादशात्मकः ।

ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ।। 4.43.59 ।।

विश्वात्मा विश्वशरीरकः । भगवान् षाड्गुण्यपरिपूर्णो वासुदेवः । “एवमेव महान् शब्दो मैत्रेयभगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ।।” इत्युक्तेः। नचेदमपि शम्भुविशेषणम्, एकादशात्मकत्वविरोधात्। नहि विश्वात्मकत्वमेकादशात्मक्तवं चैकत्र सम्भवति। एकादशात्मकः एकादशमूर्तिः। शम्भुः रुद्रः। देवेशो ब्रह्मा। ब्रह्मर्षिपरिवारितः तत्र वसति। इयं च क्रिया सर्वत्रापि सम्बध्यते। यद्यत्र कश्चित् प्रकरणाभावात् विष्णुरत्र नोच्यत इति कथयेत् तर्हि रुद्रोऽपि नोच्येत। कथमिति चेत्? शं भावयतीति शम्भुरिति व्युत्पत्त्या “शम्भू ब्रह्मत्रिलोचनौ” इति कोशकारवचनाच्च सर्वाण्यपि विशेषणानि ब्रह्मपराणि भवेयुरिति ।। 4.43.59 ।।

न कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः ।

अन्येषामपि भूतानां नातिक्रामति वै गतिः ।। 4.43.60 ।।

स हि सोमगिरिर्नाम देवानामपि दुर्गमः ।

तमालोक्य ततः क्षिप्रमुपावर्त्तितुमर्हथ ।। 4.43.61 ।।

न कथञ्चनेति । कुरूणामुत्तरेण “षष्ठ्यपीष्यते ” इत्यनेनैनपा योगे षष्ठी । अन्येषामपि शक्तिविशेषविशिष्टदैत्यादीनामपि । वः युष्मभिः, न गन्तव्यम् ।। 4.43.60,61 ।।

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।

अभास्करममर्यादं न जानीमस्ततः परम् ।। 4.43.62 ।।

एतावत् उत्तरकुरुदेशपर्यन्तम् । ततः परम् उत्तरकुरुदेशात् परम् । समुद्रद्वीपादिकम् अभास्करममार्यादं च प्रदेशं न जानीमः । ततः परस्य देशस्य सर्वैर्गन्तुमशक्यत्वेन मयापि अनवगतत्वादिति भावः ।। 4.43.62 ।।

सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।

यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ।। 4.43.63 ।।

सर्वमिति । यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः, गम्यत्वेनोक्तप्रदेशानां यत्पार्श्वादिकमनुक्तं तत्रापि अन्वेषणे मतिः कर्तव्येत्यर्थः ।। 4.43.63 ।।

ततः कृतं दाशरथेर्महत् प्रियं महत्तरं चापि ततो मम प्रियम् ।

कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ।। 4.43.64 ।।

ततः अन्वेषणानन्तरं विदेहजादर्शनजेन कर्मणा दाशरथेर्महत्प्रियं कृतं भविष्यति । मम चापि ततः दाशरथिप्रियात् महत्तरं प्रियं कृतं भविष्यतीति योजना ।। 4.43.64 ।।

ततः कृतार्थाः सहिताः सबान्धावा मया ऽर्चिताः सर्वगुणैर्मनोरमैः ।

चरिष्यथोर्वीं प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ।। 4.43.65 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ।। 43 ।।

भूतधराः प्राणिभृतः, प्राणिभिरुपजीव्या इति यावत् ।। 4.43.65 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ।। 43 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.