[highlight_content]

57 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः

शोकाद् भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः ।

श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ।। 4.57.1 ।।

अथ सम्पातिप्रश्नोत्तरं सप्तपञ्चाशे शोकादित्यादि । कर्मणा हिंसाकर्मणा ।। 4.57.1 ।।

ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः ।

चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति ।। 4.57.2 ।।

सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति ।

कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ।। 4.57.3 ।।

एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः ।

अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा ।। 4.57.4 ।।

रौद्राम् आत्मत्यागाध्यवसायरूपत्वेन क्रूराम् ।। 4.57.24 ।।

बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान् ।

ममार्यः पार्थिवः पक्षिन् धार्मिकस्तस्य चात्मजौ ।। 4.57.5 ।।

सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ ।

लोके विश्रुतकर्मा ऽभूद्राजा वाली पिता मम ।। 4.57.6 ।।

राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः ।

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।। 4.57.7 ।।

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।

पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः ।

तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ।। 4.57.8 ।।

बभूवेत्यादि । आर्यः पितामहः । आत्मजौ औरसौ । ओघबलौ ओघसङ्ख्याकपुरुषबलौ । औघसङ्ख्या च पूर्वोक्ता ।। 4.57.58 ।।

रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् ।

ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ।। 4.57.9 ।।

रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ।

परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ।। 4.57.10 ।।

एवं गृध्रो हतस्तेन रावणेन बलीयसा ।

संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ।। 4.57.11 ।।

ततो मम पितृव्येण सुग्रीवेण महात्मना ।

चकार राघवः सख्यं सो ऽवधीत्पितरं मम ।। 4.57.12 ।।

मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ।। 4.57.13 ।।

रामस्य तु पितुर्मित्रमिति कथनात् मैत्रीप्रकारं तु न जानामीत्युक्तं भवति ।। 4.57.913 ।।

निहत्य वालिनं रामस्ततस्तमभिषेचयत् ।

स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ।। 4.57.14 ।।

राजा वानरमुख्यानां येन प्रस्थापिता वयम् ।

एवं रामप्रयुक्तस्तु मार्गमाणास्ततस्ततः ।। 4.57.15 ।।

वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ।

ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ।। 4.57.16 ।।

अज्ञानात्तु प्रविष्टाः स्म धर्मिण्या विवृतं बिलम् ।

मयस्य मायाविहितं तद्बिलं च विचिन्वताम् ।

व्यीततस्तत्र नो मासो यो राज्ञा समयः कृतः ।। 4.57.17 ।।

निहत्येति । अभिषेचयत् अभ्यषेचयत् ।। 4.57.1417 ।।

ते वयं कपिराजस्य सर्वे वचनकारिणः ।

कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ।। 4.57.18 ।।

क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ।

गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ।। 4.57.19 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ।। 57 ।।

संस्थां व्यवस्थाम् ।। 4.57.18,19 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ।। 57 ।।

Languages

Related Parts

error: Content is protected !!