04 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्माकीये आदिकाव्ये श्रीमन्सुन्दरकाण्डे चतुर्थः सर्गः

स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् ।

विक्रमेण महातेजा हनूमान् कपिसत्तमः ।

अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे ।। 5.4.1।।

स निर्जित्येत्यादि । अद्वारेणेत्यनेन लङ्कापरिभवो राक्षसैर्न ज्ञातुं शक्य इति द्योत्यते ।। 5.4.1।।

प्रविश्य नगरीं लङ्कां कपिराजहितङ्करः ।

चक्रे ऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ।। 5.4.2।।

प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः ।

स महापथमास्थाय मुक्तापुष्पविराजितम् ।। 5.4.3।।

ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः ।। 5.4.4।।

प्रविश्येति । चक्र इति । शत्रुदेशप्रवेशे प्रथमं सव्यपादः कार्यः स तु शत्रोर्मूर्ध्नि कृतो भवेदिति राजशास्त्रम् । अनेन प्रथमं सव्यं पादं लङ्कायं कृतवानित्यर्थः सिद्धः । तदाह बहस्पतिः” प्रयाणकाले च गृहप्रवेशं विवाहकाले ऽपि च दक्षिणाङ्घ्रिम् । कृत्वा ऽग्रतः शत्रुपुरप्रवेशे वामं निदध्याच्चरणं नृपालः” । इति । 5.4.24 ।।

हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्सरैः ।

वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः ।

गृहमेघैः पूरी रम्या बभासे द्यौरिवाम्बुदैः ।। 5.4.5।।

हसितेति । तूर्यघोषपुरस्सरैः हसितोत्कृष्टनिनदैः हसितानामुत्कृष्टस्वरैः युक्तेत्यर्थः । वज्राङ्कुशनिकाशैः वज्रमङ्कुशो यस्य सः वज्राङ्कुशः ऐरावतः तत्तुल्यैः तद्वच्छुभ्रैरित्यर्थः । वज्राङ्कुशतुल्यसंस्थानैर्वा । वज्रजालविभूषितैः वज्रो रत्नविशेषः । गृहमेघैः गृहश्रेष्ठैः । “उपमितं व्याघ्रादिभिः” इत्युपमितसमासः ।। 5.4.5।।

प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभै ।। 5.4.6।।

सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ।

वर्धमानगृहैश्चापि सर्वतः सुविभूषिता ।

[गृहमुख्यः पुरी रम्या बभासे द्यौरिवाम्बुदैः] 5.4.7 ।।

तां चित्रमाल्याभरणां कपिराजहितङ्करः ।

राघवार्थं चरन् श्रीमान् ददर्श च ननन्द च ।। 5.4.8।।

भवनाद्भवनं गच्छन् ददर्श पवनात्मजः ।

विविधाकृतिरूपाणि भवनानि ततस्ततः ।। 5.4.9।।

प्रजच्वालेत्यादि । पद्मस्वस्तिकसंस्थितैः पद्मस्वस्तिकनामभ्यां संस्थानविशेशषाभ्यां संस्थितैः । वर्द्धमानगृहैः वर्द्धमाननाम्ना संस्थानेन संस्थितैः गृहैः । तल्लक्षणानि वराहमिहिरसंहितायां व्यक्तानि विस्तभयान्न लिख्यन्ते ।। 5.4.69।।

शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् ।

स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ।। 5.4.10।।

शुश्रावेति । त्रिस्थानस्वरभूषितं त्रिस्थानस्वरभूषितं त्रिस्थानेषु उरःकण्ठशिरस्सु भवैः स्वरैर्भूषितम् । ते च मन्द्रमध्यताराः ।। 5.4.10।।

शुश्राव काञ्चीनिनदं नूपुराणां च निस्वनम् ।

सोपाननिनदांश्चैव भवनेषु महात्मनाम् ।

अस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः ।। 5.4.11 ।।

सोपाननिनदांश्च मणिहेमकृतानां सोपानानां नूपुरादिताडनेन ये निनदाः संभवन्ति तान् । आस्फोटितनिनादान् व्यत्यस्तकरतलाभ्यां भुजाग्रास्फालनशब्दान् । क्ष्वेलितान् सिंहनादान् ।। 5.4.11।।

शुश्राव जपतां तत्र मन्त्रान् रक्षो गृहेषु वै ।। 5.4.12 ।।

मन्त्रान् ऋग्वेदादीन् ।। 5.4.12।।

स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः ।

रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि ।। 5.4.13।।

स्वाध्यायनिरतान् ब्रह्मभागपाठनिरतान् ।। 5.4.13।।

राजमार्गं समावृत्य स्थितं रक्षोबलं महत् ।

ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून् ।। 5.4.14।।

राजमार्गमिति । मध्यमे गुल्मे नगरमध्यस्थितसैन्यसमाजे । चरान् स्वजनवृत्तान्तजिज्ञासया प्रधानप्रेरितान् प्रणिधीन् ।। 5.4.14।।

दीक्षितान् जटिलान् मुण्डान् गोजिनाम्बरवाससः ।

दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा ।। 5.4.15।।

दीक्षितानित्यादि । गोजिनाम्बरधारिणः वृषभचर्मरूपवस्त्रधारिणः । दर्भमुष्टिप्रहरणान् “यथा वज्रं हरेः पाणौ तथा विप्रकरे कुशः”इति स्मरणादिति भावः । अग्निकुण्डायुधान् जयार्थं होमशीलान् ।। 5.4.15।।

कूटमुद्गरपाणींश्च दण्डायुधधरानपि ।

एकाक्षानेककर्णांश्च लम्बोदरपयोधरान् ।। 5.4.16।।

कूटमुद्गरपाणीन् कूटो नामायस्कारकूटसदृश आयुधविशेषः । “कूटो ऽस्त्री पुञ्जमायाद्रिशृङ्गायोघनवेश्मसु । छले बाणान्तरे दम्भे भग्नशृङ्गवृषे तु ना ।” इति शब्दरत्नाकरे । मुद्गरः द्रुघणो घनः ।” इति वैजयन्ती ।। 5.4.16।।

करालान् भग्नवक्त्रांश्च विकटान् वामनांस्तथा ।

धन्विनः ख़ड्गिनश्चैव शतघ्नीमुसलायुधान् ।। 5.4.17।।

करालान् भीमान् । “करालो दन्तुरे तुङ्गे विशाले विकृते ऽपि च” इति भागुरिः । भग्नवक्त्रान् कुटिलवक्त्रान् । “आविद्धं कुटिलं भग्नम्” इत्यमरः । विकटान् विषमाङ्गान् । शतघ्नी शतशङ्कुः अयोगदा । “अयः कण्टकसञ्छन्ना शतघ्नी परिकीर्तिता” इति वैजयन्ती । मुसलम् आयसो ऽरत्निप्रमाणको दण्डः । “मुसलं त्वायसो दण्डो धार्यो ऽरत्निप्रमाणकः” इति शब्दरत्नाकरे ।। 5.4.17।।

परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ।

नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ।। 5.4.18।।

नातिगौरान्नातिकृष्णान्नातिकुब्जान्नवामनान् ।

विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः ।

ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् ।। 5.4.19।।

परिघः दण्डविशेषः । नातिदीर्घातिहृस्वकानित्यत्र हकारोपरि ऋकारोच्चारणं वृत्तभङ्गपरिहाराय । एवं ध्वजिनः इति वक्तव्ये ध्वजीनित्युक्तिश्च छन्दोभङ्गपरिहारायैव ।। 5.4.18,19।।

शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः ।। 5.4.20।।

शक्तीत्यादि । पट्टिशः तीक्ष्णधारो लोहदण्डः । “पट्टिशो यो दीर्घदणडस्तीक्ष्णधारः क्षुरोपमः” इति निघण्टुः ।। 5.4.20।।

क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ।

स्त्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ।। 5.4.21।।

नानावेषसमायुक्तान् यथास्वैरगतान् बहून् ।

तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् ।। 5.4.22।।

क्षेपणी क्षेपणीयः । वेषः अलङ्कारः । यथास्वैरगतान् यथेष्टचारिणः ।। 5.4.21,22 ।।

शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ।

रक्षोधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः ।। 5.4.23।।

शतेति । शतसहस्रमेव शतसाहस्रम् । स्वार्थे अण् । आरक्षं गुल्मम् । अन्तः पुराग्रतः अन्तर्नगराग्रतः रक्षोधिपतिनिर्दिष्टं मध्यमगुल्मभूतं रावणमूलबलं ददर्शेत्यर्थः ।। 5.4.23।।

स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् ।

राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ।। 5.4.24।।

पुण्डरीकावतंसाभिः परिघाभिरलङ्कृतम् ।

प्राकारावृतमत्यन्तं ददर्श स महाकपिः ।। 5.4.25।।

स तदेत्यादिश्लोकद्वमेकान्वयम् । सः कपिः तत् आरक्षं दृष्ट्वा सः राक्षसेन्द्रस्य गृहं ददर्शेत्यन्वयः । क्रियाभेदात्तच्छब्दद्वयम् ।। 5.4.24,25।।

त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् ।

वाजिहेषितसंघुष्टं नादितं भूषणैस्तदा ।। 5.4.26।।

रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः ।

वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः ।। 5.4.27।।

भूषितं रुचिराद्वारं मत्तैश्च मृगपक्षिभिः ।

रक्षितं सुमहावीर्यैर्वासुधानैः सहस्रशः ।

राक्षसाधिपतेर्गुप्तमाविवेश महाकपिः ।। 5.4.28।।

त्रविविष्टपेत्यादि । यानैः शिबिकादिभिः । विमानैः व्योमयानैः । हयगजैरित्यत्र गजशब्दः द्विदन्तगजपरः । अत्र न वारणैरित्यनेन पुनरुक्तिः । मृगपक्षिभिश्च भूषितमित्यन्वयः । रक्षिभिर्यातुधानैर्गुप्तमिति सम्बन्धः । आविवेश जगाम । गृहप्रवेशस्य दूरे वक्ष्यमाणत्वात् ।। 5.4.2628।।

सहोमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितानाम् ।

परार्घ्यकालागरुचन्दनाक्तं स रावणान्तःपुरमाविवेश ।। 5.4.29।।

इत्यार्षे श्रीरामायणे वाल्माकीये आदिकाव्ये श्रीमन्सुन्दरकाण्डे चतुर्थः सर्गः ।। 5.4।।

सहेमेति । हेम अन्यत्र जातं सुवर्णम् । जाम्बूनदं जम्बूनद्यां जातम् । चक्रवालं प्रकारमण्डलम् । रावणान्तःपुरं रावणान्तर्नगरम् ।। 5.4.29।।

इति श्रीगोविन्दराजविरचिते श्रीरामयणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्थः सर्गः ।। 5.4।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.