43 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः

ततः स किङ्करान् हत्वा हनुमान् स्थानमास्थितः ।। 5.43.1।।

ततः स किङ्करानित्यादि ।। 5.43.1।।

वनं भग्नं मया चैत्यप्रसादो न विनाशितः ।

तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम् ।

इति स़ञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम् ।। 5.43.2।।

वनमित्यादि । ध्वंसनफलमाह दर्शयन् बलमिति । बलदर्शनार्थमित्यर्थः ।। 5.43.2।।

चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् ।

आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः ।। 5.43.3।।

आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः ।

बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ।। 5.43.4।।

ध्वंसनप्रकारमाह चैत्येति । चैत्यं देवायतनम्, तद्रूपः प्रासादः चैत्यप्रसादः तम् । आप्लुत्य तोरणाल्लङ्घयित्वा । हरिश्रेष्ठो हनुमान् मारुतात्मज इत्यस्योत्तश्लोकेनान्वयः । हरियूथपत्वेप्यहरिर्भविष्यतीति तद्व्यावृत्त्यर्थं हरिश्रेष्ठ इत्युक्तम् । प्रतिसूर्यः द्वितीयसूर्य इत्यर्थः । अनेन सूर्योदयस्सूचितः ।। 5.43.34।।

संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम् ।

हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमो ऽभवत् ।। 5.43.5।।

स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः ।

धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।। 5.43.6।।

तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।

पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ।। 5.43.7।।

अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः ।

राजा जयति सुग्रीवो राघवेणाभिपालितः ।। 5.43.8।।

दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।

हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। 5.43.9।।

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।

शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। 5.43.10।।

अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।

समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। 5.43.11।।

संप्रधृष्येति । संप्रधृष्य आक्रम्य । पारियात्रो नाम कुलपर्वतः ।। 5.43.511।।

एमुक्त्वा विमानस्थश्चैत्यस्थान् हरियूथपः ।

ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ।।। 5.43.12।।

तेन शब्देन महता चैत्यपालाः शतं ययुः ।

गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ।

विसृजन्तो महाकाया मारुतिं प्रर्यवारयन् ।। 5.43.13।।

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।

आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ।। 5.43.14।।

आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ।

परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ।। 5.43.15।।

ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ।। 5.43.16।।

चैत्यस्थान् चैत्यपालान् ।। 5.43.1216।।

प्रासादस्य महान्तस्य स्तम्भं हेमपरिष्कृतम् ।

उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः ।

ततस्तं भ्रामयामास शताधारं महाबलः ।। 5.43.17।।

प्रासादस्येति । पवनात्मजः भ्रामयामासेत्यन्वयः । शतधारं धारा कोटिः । वज्रवत् स्थितमित्यर्थः, यद्वा शतधा अरमिति च्छेदः । अरं शीघ्रम् ।। 5.43.17।।

तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ।। 5.43.18।।

दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः ।

स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ।

अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ।। 5.43.19।।

तत्रेति । अग्निः समभवत्, भ्रामितस्तम्भैः स्तम्भान्तरसङ्घट्टनादिति भावः ।। 5.43.1819।।

मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ।

बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।। 5.43.20।।

अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।। 5.43.21।।

दशनागबलाः केचित् केचिद्दशगुणोत्तराः ।

केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। 5.43.22।।

राक्षसानामुत्साहभङ्गं कारयितुमाह मादृशानामित्यादि ।। 5.43.2022।।

सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः ।

अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ।। 5.43.23।।

ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ।

शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ।

आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ।। 5.43.24।।

नेयमस्ति पुरी लङ्का न यूयं न च रावणः ।

यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ।। 5.43.25।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ।। 5.43।।

ओघबलाः ओघाख्यसङ्ख्याकबलाः ।। 5.43.2325।।

इति श्रीगोविन्दराजविचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ।। 5.43।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.