श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुष्पञ्चाशः सर्गः
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ।
वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ।। 5.54.1 ।।
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् ।
यदेषां रक्षसां भूयः सन्तापजननं भवेत् ।। 5.54.2 ।।
वीक्षमाण इत्यादि । कृतमनोरथः पर्याप्तमनोरथः ।। 5.54.1,2 ।।
वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः ।
बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ।। 5.54.3 ।।
बलैकदेशः सेनैकदेशः । क्षपितः नाशितः । दुर्गविनाशनं पुरविनाशनम् । शेषम् अवशिष्टम् ।। 5.54.3 ।।
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् ।
अल्पयत्नेन कार्ये ऽस्मिन् मम स्यात् सफलः श्रमः ।। 5.54.4 ।।
कर्म पूर्वोक्तं वनभङ्गादिकम्, समुद्रलङ्घनं दूत्यं वा । सुखपरिश्रमं सफलायासम् । शक्यमेतदित्याह अल्पयत्नेनेति । अस्मिन्कार्ये, कृते सतीति शेषः ।। 5.54.4 ।।
यो ह्ययं मम लांगूले दीप्यते हव्यवाहनः ।
अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ।। 5.54.5 ।।
केनोपायेनेदं सुकरमित्याशङ्क्य तमाह यो हीति । यः अग्निः । अतिशीतलतया मम महोपकारं कृतवान् । अस्य सन्तर्पणं न्याय्यमित्यर्थः ।। 5.54.5 ।।
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः ।
भवनाग्रेषु लङ्काया विचचार महाकपिः ।। 5.54.6 ।।
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः ।
वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ।। 5.54.7 ।।
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।
अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ।। 5.54.8 ।।
ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।
मुमोच हनुमानग्निं कालानलशिखोपमम् ।। 5.54.9 ।।
तत इत्यादि । अत्र बन्धविस्रसनाय पूर्वं तनुसङ्कोचे कृतेपि कार्यार्थमग्निवर्तिः स्थापितेति बोध्यम् । सविद्युदिव तोयद इति सर्वत आवृत्य सञ्चारे दृष्टान्तः ।। 5.54.69 ।।
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ।
शुकस्य च महातेजाः सारणस्य च धीमतः ।
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ।। 5.54.10 ।।
वज्रदंष्ट्रस्येत्यादि सार्धश्लोकः ।। 5.54.10 ।।
जम्बुमालेः सुमालेश्च ददाह भवनं ततः ।। 5.54.11 ।।
जम्बुमालेरित्यर्धम् ।। 5.54.11 ।।
रश्मिमकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।
ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ।। 5.54.12 ।।
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः ।
विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ।। 5.54.13 ।।
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।
कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ।। 5.54.14 ।।
यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च ।
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ।। 5.54.15 ।।
वर्जयित्वा महातेजा विभीषणगृहं प्रति ।
क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ।। 5.54.16 ।।
रश्मि केतोरित्यादिपञ्चश्लोकी । वर्जयित्वेति । विभीषणगृहं प्रति वर्जयित्वेति सम्बन्धः ।। 5.54.1216 ।।
तेषु तेषु महार्हेषु भवनेषु महायशाः ।
गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ।। 5.54.17 ।।
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् ।
आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ।। 5.54.18 ।।
तेषु तेष्विति । भवनेष्विति गृहविशेषणं समृद्धिमत्परम् । ऋद्धिं मणिमुक्ताप्रवालादिकाम् ।। 5.54.17,18 ।।
ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते ।
मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ।। 5.54.19 ।।
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् ।
ननाद हनुमान् वीरो युगान्तजलदो यथा ।। 5.54.20 ।।
तत इत्यादि । सर्वमङ्गलशोभिते सर्वमङ्गलद्रव्ययुक्ते ।। 5.54.19,20 ।।
श्वसनेन च संयोगादतिवेगो महाबलः ।
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ।। 5.54.21 ।।
प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् ।
अभूच्छ्वसनसंयोगादतिवेगो हुताशनः ।। 5.54.22 ।।
तानि काञ्चनजालानि मुक्तामणिमयानि च ।
भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ।। 5.54.23 ।।
तानि भग्नविमानानि निपेतुर्वसुधातले ।
भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये ।। 5.54.24 ।।
श्वसनेनेति । पूर्वं रावणादिभीतावग्न्यनिलौ इदानीं राक्षसक्षयं देवबलोदयं च प्रत्यासन्नं विदित्वा निश्शङ्कावभूतामिति भावः ।। 5.54.2124 ।।
संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् ।
स्वगृहस्य परित्राणे भग्नोत्साहगतश्रियाम् ।
नूनमेषो ऽग्निरायातः कपिरूपेण हा इति ।। 5.54.25 ।।
संजज्ञ इत्यादि । स्वगृहस्य परित्राणे भग्नोत्साहगतश्रियामिति पाठः । स्वगृहस्य परित्राणे भग्नोत्साहोर्जिताश्रियामिति पाठे उत्साहश्च ऊर्जितश्रीश्च उत्साहोर्जितश्रियौ भग्ने उत्साहोर्जितश्रियौ येषामिति विग्रहः । स्वगृहस्य परित्राणे भग्नोत्साहानां श्रीमतां राक्षसानामिति वा ऽर्थः । हा इति “निपात एकाजनाङ्” इति प्रकृतिभावः ।। 5.54.25 ।।
क्रन्दन्त्यः सहसा पेतुः स्तनन्दयधराः स्त्रियः ।
काश्चिदग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः ।। 5.54.26 ।।
क्रन्दन्त्य इति । काश्चित् स्त्रियः हर्म्येभ्यः पेतुरिति सम्बन्धः । सुकेशवंश्यानां जननमात्रे रुद्रेण मातृतुल्यत्ववरप्रदानेपि तदितरेषु तदभावात् स्तनन्धयधरत्वम् । अन्यजातीयाश्च राक्षसास्तत्र सन्त्येव ।। 5.54.26 ।।
पतन्त्यो रेजिरे ऽभ्रेभ्यः सौदामिन्य इवाम्बरात् ।। 5.54.27 ।।
अम्बरात् पतन्त्यः अभ्रेभ्यो मेघेभ्यः पतन्त्यः सौदामिन्यः तडित इव रेजिरे ।। 5.54.27 ।।
वज्रविद्रुमवैदूर्यमुकारजतसंहितान् ।
विचित्रान् भवनान् धातून् स्यान्दमानान् ददर्श सः ।। 5.54.28 ।।
वज्रेति । भवनानिति पुँल्लिङ्गत्वमार्षम् । धातून् सुवर्णादीन् । ‘धातुस्तु गैरिके स्वर्णे” इति दर्पः । स्यन्दमानान् स्यन्दतः । अग्नितप्तत्वेन द्रवाभूतस्वर्णादीनित्यर्थः ।। 5.54.28 ।।
नाग्निस्तृप्यति काष्ठानां तृणानां हरियूथपः ।
नाग्नेर्नापि विशस्तानां राक्षसानां वसुन्धरा ।। 5.54.29 ।।
नाग्निरिति । काष्ठानां तृणानां चेति सम्बन्धसामान्ये षष्ठी । काष्ठैस्तृणैश्चेत्यर्थः । “पूरणगुण” इत्यादिना षष्ठी वा । अग्निः काष्ठैः तृणैश्च न तृप्यति । हरियूथपः अग्नेः न तृप्यति अग्निना न तृप्यति, अग्निप्रक्षेपणेन न तृप्यतीत्यर्थः । एवं वसुन्धरा विशस्तानां राक्षसानां विशस्तैः राक्षसैः न तृप्यतीति योज्यम् । अनेन राक्षसशवाकीर्णा भूरभूदित्यर्थः ।। 5.54.29 ।।
क्वचित् किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः ।
क्वचित् कुङ्कुमसङ्काशाः शिखा वह्नेश्चकाशिरे ।। 5.54.30 ।।
शिखाः ज्वालाः ।। 5.54.30 ।।
हनूमता वेगवता वानरेण महात्मना ।
लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ।। 5.54.31 ।।
ननु एतावत्पर्यन्तमल्पबलतया स्थितस्य हनुमतः कथमेतादृशी शक्तिरित्यत्राह रुद्रेण त्रिपुरं यथेति । ” विष्णुरात्मा भगवतो भवस्यामिततेजसः । तस्माद्धनुर्ज्यासंस्पर्शं स विषहे महेश्वरे ।।” इत्युक्तरीत्या विष्ण्वाप्यायिततेजसा रुद्रेण त्रिपुरं यथा दग्धं तथाऽनेनेति भावः ।। 5.54.31 ।।
ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमो ऽग्निः ।
प्रमार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ।। 5.54.32 ।।
लङ्कापुरपर्वताग्रे लङ्कापुराधारत्रिकूटशिखरे । तद्वर्तित्वात्तस्यास्तथा निर्देशः । पर्वताग्रस्थलङ्कापुर इति परनिपातो वा । चूडावलयं ज्वलाजालमित्यर्थः । तत् प्रसार्य विस्तार्य । प्रदीप्तः विसृष्टः, गृहेष्विति शेषः ।। 5.54.32 ।।
युगान्तकालानलतुल्यवेगः समारुतो ऽग्निर्ववृधे दिविस्पृक् ।
विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्य समर्पितार्चिः ।। 5.54.33 ।।
दिविस्पृक् अभ्रंलिहः “दृद्द्युभ्यां ङेरलुग्वक्तव्यः” इति सप्तम्या अलुक् । रक्षश्शरीराज्यसमर्पितार्चिः रक्षश्शरीराण्येवाज्यानि तैस्समर्पितार्चिः उत्थापितज्वालः ।। 5.54.33 ।।
आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन् ।
शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः ।। 5.54.34 ।।
आदित्यकोटीति । समाप्तां निःशेषाम् । अशनिप्ररूढैः अशनिवन्निष्ठुरैः । अण्डं ब्रह्माण्डम् ।। 5.54.34 ।।
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ।
निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरे ऽभ्राः ।। 5.54.35 ।।
अम्बरात् अम्बरपर्यन्तम् । किंशुकपुष्पचूडः तत्तुल्यशिखः । निर्वाणधूमाकुलराजयः पूर्वपूर्वदग्धभवनाग्निनिर्वाणसमयोत्थितधूमैः व्याप्तपङ्क्तयः । अत एव निलोत्पलाभाः निर्वाणधूमानां नीलवर्णत्वादिति भावः । अभ्राः मेघाः पुँल्लिङ्गत्वमार्षम् ।। 5.54.35 ।।
वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणो ऽनिलो वा ।
रुद्रो ऽग्निरर्को धनदश्च सोमो न वानरो ऽयं स्वयमेव कालः ।। 5.54.36 ।।
अथ रक्षोवचनम् वज्रीत्यादि । महेन्द्रः वज्रीत्यादि विशेषणं सामर्थ्यविशेषद्योतनार्थम् । उत्तरत्राप्येवमेव गतिः । यमकालयोर्मूर्तिभेदान्न पुनरुक्तिः ।। 5.54.36 ।।
किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य ।
इहागतो वाग्रूपधारी रक्षोपसंहारकरः प्रकोपः ।। 5.54.37 ।।
रक्षोपसंहारकर इत्यत्र आर्षस्सलोपः । प्रकोपः प्रकोपकृतमूर्तिविशेषः ।। 5.54.37 ।।
किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः ।
अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा ।। 5.54.38 ।।
किं वैष्णवमिति । अत्राद्यो वाशब्दो ऽवधारणे । ” वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये” इति विश्वः । द्वितीयो वितर्के । अनन्तं त्रिविधपरिच्छेदरहितम् । अव्यक्तं चक्षुराद्यगोचरम् । अचिन्त्यं केवलमनसो ऽप्यविषयम् । एकम् अद्वितीयं यद्वैष्णवं सुतेजः पूज्यं धाम तदेव स्वमायया स्वासाधारणया आश्चर्यशक्त्या कपिरूपमेत्य साम्प्रतमागतं वा इति योजना । वैष्णवमिति स्वार्थे अण् । विष्णुशरीरान्तर्वर्तीति वा ऽर्थः ।। 5.54.38 ।।
इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे ।
सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ।। 5.54.39 ।।
ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा ।
सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ।। 5.54.40 ।।
विशिष्टाः ज्ञानाधिकाः ।। 5.54.39,40 ।।
हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम् ।
रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः ।। 5.54.41 ।।
हा तातेति । युगपदेव शोके दूराह्वाने च हाशब्दो वर्तते । हा जीवितमित्यत्र संबुद्ध्यलोप आर्षः । हतमिति शेष इत्यन्ये । “आभितः परितस्समयानिकषाहाप्रतियोगे ऽपि ” इति द्वितीया वा । दरिद्रैरशोच्यत्वाद्विशिनष्टि– भोगयुतं सुपुण्यमिति । सुखाढ्यं सुकृतैकफलं चेत्यर्थः । घोरतरः तीव्रतरः । अत एव सुभीमः भयङ्करः ।। 5.54.41 ।।
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा ।
हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ।। 5.54.42 ।।
परिवृत्तयोधा परिवृत्तभटा ।। 5.54.42 ।।
स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ।
ददर्श लङ्कां हनुमान् महामनाः स्वयम्भुकोपोपहतामिवावनिम् ।। 5.54.43 ।।
हनुमान्महामना इति पाठः । हनुमान् महात्मेति पाठे विषमवृत्तं वा । स्वयंभुकोपोपहतां प्रलये भगवता दग्धामित्यर्थः ।। 5.54.43 ।।
भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे ।
दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान् पवनात्मजः कपिः ।। 5.54.44 ।।
त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ।
प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवांशुमाली ।। 5.54.45 ।।
भङ्क्त्वेति । रत्नशब्दः श्रेष्ठवाची । तस्थौ सङ्कल्पितकार्यस्य परिसमाप्तत्वादुपरतोद्योगो ऽभूदित्यर्थः ।। 5.54.44,45 ।।
स राक्षसांस्तान् सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत् ।
विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा ।।
[ततो महात्मा हनुमान् मनस्वी निशाचराणां क्षतकृत् कृतार्थः ।
रामस्य नाथस्य जगत्त्रयाणां श्रीपादमूलं मनसा जगाम ।।] ।। 5.54.46 ।।
जगाम रामं मनसेति । कृतकृत्यत्वाद्रामं गन्तुमियेषेत्यर्थः ।। 5.54.46 ।।
ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् ।
महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ।। 5.54.47 ।।
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे ।
दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः ।। 5.54.48 ।।
तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
दृष्ट्वा प्रदग्धां तां विस्मयं परमं गताः ।। 5.54.49 ।।
तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम् ।
कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ।। 5.54.50 ।।
वरिष्ठमिति, बलवतामिति शेषः ।। 5.54.4750 ।।
देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः ।
भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ।। 5.54.51 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुष्पञ्चाशः सर्गः ।। 5.54 ।।
अतुल्यरूपामिति । अस्मिन् सर्गे एकपञ्चाशच्छ्लोकाः । ततो महात्मेति श्लोकः स राक्षसानिति श्लोकोक्तार्थकतया बहुकोशेष्वदर्शनाच्च प्रक्षिप्तः । बहुकोशेष्वेतत्सर्गसमाप्तिविपर्ययः उत्तरसर्गारम्भविपर्ययश्च दृश्यते ।। 5.54.51 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुष्पञ्चाशः सर्गः ।। 5.54 ।।