श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्पञ्चाशः सर्गः
ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम् ।
अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ।। 5.56.1 ।।
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ।। 5.56.2 ।।
प्रस्थितं प्रस्थानोद्युक्तम् ।। 5.56.2 ।।
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।। 5.56.3 ।।
वनभङ्गाक्षवधादिना हनुमतश्शक्तिं विज्ञाय असौ रामाय निवेद्य स्वयमेव सकलराक्षससंहारपूर्वकं मम नेता मा भूदित्याभिप्रायेणाह काममिति । अस्य कार्यस्य सर्वराक्षसवधपूर्वकमत्प्राणरूपकार्यस्य । बलोदयः सत्त्वप्रकर्षः, सैन्योत्थापनं वा । ते यशस्यः यशस्करः । न तु रामस्येति भावः ।। 5.56.3 ।।
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। 5.56.4 ।।
तर्हि रामस्य किं यशस्करमित्यत्राह शरैरिति । तत् स्वपराक्रमेण मन्नयनम् । तस्य काकुत्स्थस्य । सदृशम् । एतदेव ममाभिलषितम्, अन्यथा मे कथं वीरपत्नीत्वमिति भावः ।। 5.56.4 ।।
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।
भवत्याहवशूरस्य तथा त्वमुपपादय ।। 5.56.5 ।।
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ।। 5.56.6 ।।
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। 5.56.7 ।।
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।
गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ।। 5.56.8 ।।
तच्च त्वदायत्तमेवेत्याह तद्यथेति । विक्रान्तं विक्रमणम् ।। 5.56.58 ।।
ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः ।
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ।। 5.56.9 ।।
अरिष्टम् अरिष्टाख्यम् ।। 5.56.9 ।।
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।
सोत्तरीयमिवाम्भोदैः श्रृङ्गान्तरविलम्बिभिः ।। 5.56.10 ।।
अथैनं गिरिं चतुर्दशधोत्प्रेक्षते– तुङ्गेत्यादिना । पद्मकाः पद्मवर्णवृक्षाः । परिधानालेख्यस्थानीयतया विशेषणमिति बोध्यम् । सपरिधानमिव, स्थितमिति शेषः । उत्तरार्धे सोत्तरीयत्वोत्प्रेक्षणात् ।। 5.56.10 ।।
बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ।
उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ।। 5.56.11 ।।
शुभैः तरुणैः । करैः अंशुभिः हस्तैश्च । बोध्यमानमिव स्थितम् । तत्र ज्ञापकमाह उद्धूतैरिति । उद्धूतैः उद्गतैः लोचनैरिव स्थितैः धातुभिः उन्मिषन्तं पश्यन्तमिव स्थितम् ।। 5.56.11 ।।
तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् ।
प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ।। 5.56.12 ।।
तोयौघनिस्वनैः गिरिनदीघोषैः । मन्द्रैः गम्भीरैः । प्राधीतमिव प्राध्येतुं प्रवृत्तमिव । आदिकर्मणि कर्तरि क्तः । अधीयानमिवेत्यर्थः । प्रस्रवणस्वनैः पर्वतमूलाद्बहिः प्रवहन्ति जलानि प्रस्रवणानि तेषां स्वनैः । प्रगीतमिव गातुं प्रवृत्तमिव, गायन्तमिवेत्यर्थः । आदिकर्मणि कर्तरि क्तः ।। 5.56.12 ।।
देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम् ।
प्रपातजलनिर्घोषैः प्राक्रृष्टमिव सर्वतः ।। 5.56.13 ।।
ऊर्ध्वबाहुमिवेति तपोविशेष उच्यते । प्रपातजलनिर्घोषैः प्रपाताः भृगवः ।
“प्रपातस्त्वतटो भृगुः ” इत्यमरः । तेषां जलानि तेभ्यः पतन्तो निर्झरा इत्यर्थः । तेषां निर्घोषैः प्राक्रुष्टमिव आक्रोशन्तमिव । पूर्ववत् क्तः ।। 5.56.13 ।।
वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः ।
वेणुभिमारुतोद्धूतैः कूजन्तमिव कीचकैः ।। 5.56.14 ।।
शरदि ये घना भवन्ति ते शरद्वनाः । शरत्कालपुष्पिणस्सप्तच्छदादयः तैः शुभ्रीभूतैः जरया कम्पमानमिव स्थितमित्यर्थः । शरद्वनैरिति पाठे बहुवार्षिकवृक्षैरित्यर्थः । शरवणैरिति वा ऽर्थः । तकारान्तो ऽप्यस्ति । शरवणे जातस्य कृपाचार्यस्य शारद्वत इति नाम दर्शनात् । कीचकैः कीचकाख्यैर्वेणुभिः । तदाहामरः”वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ” इति ।। 5.56.14 ।।
निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः ।
नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः ।। 5.56.15 ।।
आशीविषोत्तमैः निश्वसन्तमिव सर्पश्रेष्ठनिश्वासैर्निश्वसन्तमिव । अमर्षात् हनुमति क्रोधादित्यर्थः । नीहारकृतगम्भीरैः नीहारपूर्णैः गम्भीरैश्च । गह्वरैः गुहाभिः ध्याननिरुद्धेन्द्रियस्थानीयैः ध्यायन्तमिव स्थितम् । निरुद्धेन्द्रियद्वारा ध्यानारूढमिव स्थितमित्यर्थः ।। 5.56.15 ।।
मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ।
जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ।। 5.56.16 ।।
मेघपादनिभैः मेघावरोहनिभैः पादैः प्रत्यन्तपर्वतैः । प्रक्रान्तमिव गन्तुमुद्युक्तमिव । पूर्ववत् क्तः । जृम्भमाणमिव गात्रभङ्गं कुर्वाणमिव । अभ्रमालिभिः मेघमालावद्भिः ।। 5.56.16 ।।
कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः ।
सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ।। 5.56.17 ।।
लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् ।
नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ।
बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ।। 5.56.18 ।।
महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् ।
लतापादपसङ्घातं सिंहाध्युषितकन्दरम् ।। 5.56.19 ।।
व्याघ्रसङ्घसमाकीर्णं स्वादुमूलकफलद्रुमम् ।। 5.56.20 ।।
बहुधाकीर्णैः हनुमत्पादस्पर्शेन शिथिलैरित्यर्थः । धातुनिष्यन्दः धातुस्रावः । लतापादपानां सङ्घातो यस्मिन्निति व्यधिकरणबहुव्रीहिः ।। 5.56.1720 ।।
तमारुरोह हनुमान् पर्वतं पवनात्मजः ।
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ।। 5.56.21 ।।
रामदर्शनशीघ्रेण रामदर्शनत्वरावता ।। 5.56.21 ।।
तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।
सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ।। 5.56.22 ।।
चूर्णीकृताः समशीर्यन्त, यथा चूर्णीकृता भवन्ति तथा समशीर्यन्तेत्यर्थः ।। 5.56.22 ।।
स तमारुह्य शैलेन्द्रं व्यवर्धत व्यवर्धत महाकपिः ।
दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः ।। 5.56.23 ।।
अधिरूह्य ततो वीरः पर्वतं पवनात्मजः ।
ददर्श सागरं भीमं मीनोरगनिषेवितम् ।। 5.56.24 ।।
दक्षिणात् दक्षिणपारात् । प्रार्थयन्, गन्तुमिति शेषः ।। 5.56.23,24 ।।
स मारुत इवाकाशं मारुतस्यात्मसम्भवः ।
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ।। 5.56.25 ।।
स हरिशार्दूल इति सम्बन्धः । पितृतुल्यवेगवत्त्वं सूचयति मारुतस्येति ।। 5.56.25 ।।
स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।
ररास सह तैर्भूतैः प्रविशन् वसुधातलम् ।
कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ।। 5.56.26 ।।
तैर्भूतैः तत्रत्यजन्तुभिः ।। 5.56.26 ।।
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ।
निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ।। 5.56.27 ।।
रुग्णाः शीर्णा इति यावत् । शक्रायुधहताः वज्रहताः ।। 5.56.27 ।।
कन्दरान्तरसंस्थानां पीडितानां महौजसाम् ।
सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे ।। 5.56.28 ।।
नभो भिन्दन् भिन्दन्निव । महत्तायां तात्पर्यम् ।। 5.56.28 ।।
स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः ।
विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ।। 5.56.29 ।।
स्रस्तानि व्याविद्धानि च वसनानि यासां ताः स्रस्तव्याविद्धवसनाः ।। 5.56.29 ।।
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ।
निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ।। 5.56.30 ।।
किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा ।
पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ।। 5.56.31 ।।
निपीडितशिरोग्रीवाः, शिथिलपतिताशिलातलैरिति शेषः ।। 5.56.30,31 ।।
स च भूमिधरः श्रीमान् बलिना तेन पीडितः ।
सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ।। 5.56.32 ।।
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ।
धरण्यां समतां यातः स बभूव धराधरः ।। 5.56.33 ।।
सवृक्षशिखरोदग्रः सवृक्षैः शिखरैः उदग्रः श्रेष्ठः ।। 5.56.32,33 ।।
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् ।
कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः ।। 5.56.34 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्पञ्चाशः सर्गः ।। 5.56 ।।
कल्लोलास्फालवेलान्तं तरङ्गैरास्फाल्यपानतीरोपान्तम् ।। 5.56.34 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गरतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्पञ्चाशः सर्गः ।। 5.56 ।।