श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।
श्रीन्यासतिलकम्
गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे ।
वृणीमहे च तत्राद्यौ दंपती जगतां पती ॥ 1 ॥
प्रायः प्रपदने पुंसां पौनःपुन्यं निवारयन् ।
हस्तः श्रीरङ्गभर्तुर्माम् अव्यादभयमुद्रितः ॥ 2 ॥
अनादेर्निःसीम्नो दुरित जलधेर्यन्निरुपमं
विदुः प्रायश्चित्तं यदु रघुधुरीणाशय विदः ।
तदारम्भे तस्या गिरमवदधानेन मनसा
प्रपद्ये तामेकां श्रियमखिल नाथस्य महिषीम् ॥ 3 ॥
महेन्द्राग्ना विष्णु प्रभृतिषु महत्त्व प्रभृतिवत्
प्रपत्तव्ये तत्त्वे परिणमित वैशिष्ट्य विभवाम् ।
अधृष्यत्वं धूत्वा कमितुरभिगम्यत्व जननीं
श्रियं शीतापाङ्गामहमशरणो यामि शरणम् ॥ 4 ॥
स्वतः सिद्धः श्रीमानमित गुण भूमा करुणया
विधाय ब्रह्मादीन् वितरति निजादेशमपि यः ।
प्रपत्त्या साक्षाद् वा भजन शिरसा वाऽपि सुलभं
मुमुक्षुर्देवेशं तमहमधिगच्छामि शरणम् ॥ 5 ॥
बृन्दानि यः स्व वशयन् व्रज सुन्दरीणां
बृन्दा वनान्तर भुवां सुलभो बभूव ।
श्रीमानशेष जन संग्रहणाय शेते
रङ्गे भुजङ्ग शयने स महा भुजङ्गः ॥ 6 ॥
रङ्गास्तीर्ण भुजङ्ग पुङ्गव वपुः पर्यङ्कवर्यं गतौ
सर्ग स्थित्यवसान केळि रसिकौ तौ दं पती नः पती।
नाभी पङ्कज शायिनः श्रुति सुखैर्-अन्योन्य बद्ध स्मितौ
डिम्भस्याम्बुज संभवस्य वचनैर्-ओं तत्सदित्यादिभिः॥ 7॥
घन करुणा रसौघ भरितां परिताप हरां
नयन महश्छटां मयि तरङ्गय रङ्गपते ।
दुरित हुताशन स्फुरित दुर्दम दुःख मषी-
मलिनित विश्व सौध दुरपह्नव वर्ण सुधाम् ॥ 8 ॥
दुर्मोचोद्भट कर्म कोटि निबिडोऽप्यादेश वश्यः कृतः
बाह्यैर्नैव विमोहितोऽस्मि कुदृशां पक्षैर्न विक्षोभितः ।
यो माहानसिको महान् यतिपतेर्नीतश्च तत्पौत्रजान्
आचार्यानिति रङ्गधुर्य मयि ते स्वल्पावशिष्टो भरः ॥ 9 ॥
आर्तेष्वाशुफला तदन्य विषयेऽप्युच्छिन्न देहान्तरा
वह्न्यादेरनपेक्षणात् तनुभृतां सत्यादिवद् व्यापिनी ।
श्रीरङ्गेश्वर यावदात्म नियत त्वत्पारतन्त्र्योचिता
त्वय्येव त्वदुपाय धीरपिहित स्वोपाय भावाऽस्तु मे ॥ 10 ॥
त्वय्याचार्यैर्विनिहित भरास्तावका रङ्गनाथ
त्वत्कैङ्कर्य प्रवण मनसस्त्वद्गुणास्वाद मत्ताः ।
त्वय्येकस्मिन्नपि विजहतो मुक्तवत् साधनत्वं
त्वच्छेषत्व स्वरस रसिकाः सूरयो मे स्वदन्ताम् ॥ 11 ॥
कल्प स्तोमेऽप्यपास्त त्वदितर गतयोऽशक्ति धी भक्ति भूम्ना
रङ्गेश प्रातिकूल्य क्षरण परिणमन्-निर्विघातानुकूल्याः ।
त्रातारं त्वामभेद्याच्छरण वरणतो नाथ निर्विघ्नयन्तः
त्वन्निक्षिप्तात्मरक्षां प्रति रभस जुषः स्व प्रवृत्तिं त्यजन्ति ॥12॥
त्यक्तोपाय व्यपायां स्तदुभय करणे सत्रपान् सानुतापान्
भूयोऽपि त्वत्प्रपत्त्या प्रशमित कलुषान् हन्त सर्वं सहस्त्वम् ।
रङ्गिन् न्यासान्तरङ्गाखिल जन हितता गोचर त्वन्निदेश-
प्रीति प्राप्त स्ववर्णाश्रम शुभ चरितान् पासि धन्यान् अनन्यान्॥ 13॥
शोकास्पदां शमथनः श्रयतां भवाब्धौ
रागास्पदांश सहजं न रुणत्सि दुःखम् ।
नो चेदमी जगति रङ्गधुरीण भूयः
क्षोदिष्ठ भोग रसिकास्तव न स्मरेयुः ॥ 14 ॥
हेतुर्वैधे विमर्शे भजनवदितरत् किं त्वनुष्ठान काले
वेद्य त्वद्रूप भेदो विविध इह स तू-पायतान्यानपेक्षा ।
रङ्गिन् प्रारब्ध भङ्गात् फलमधिकमना-वृत्तिरुक्तेष्टिवत् स्यात्
नाना शब्दादि भेदात् प्रपदन भजने सूचिते सूत्र कारैः॥15॥
भक्तौ रङ्गपते यथा खलु पशुच्छागादिवत् वेदन
ध्यानोपासन दर्शनादि वचसामिच्छन्त्यभिन्नार्थताम् ।
व्यक्त्यैक्याच्छरणागति प्रपदन त्यागात्म निक्षेपण-
न्यासाद्येषु तथैव तन्त्र निपुणैः पर्यायता स्मर्यते ॥ 16 ॥
विश्वासायास भूम्नोर्न्यसन भजनयोर्-गौरवे को विशेषः
तत्सद्भावेऽपि धर्मान्तर इव घटते कर्तृभेदाद् विकल्पः ।
तद्भेदो रङ्गशायिन्ननितर गतिता-द्युत्थ शोकातिरेकात्
सद्विद्यादौ विकल्पस्त्वभिमति भिदया तेन तत्रैकराश्यम् ॥ 17 ॥
ध्रुवमधिकृति भेदात् कर्मवत् रङ्गशायिन्
फलति फलमनेकं त्वत्पदे भक्तिरेका ।
शरण वरण वाणी सर्व हेतुस्तथाऽसौ
कृपण भजन निष्ठा बुद्धि दौर्बल्य काष्ठा ॥ 18 ॥
कर्तव्यं सकृदेव हन्त कलुषं सर्वं ततो नश्यति
ब्रह्मेशादि सुदुर्लभं पदमपि प्राप्यं मया द्रागिति ।
विश्वास प्रतिबन्धिचिन्तनमिदं पर्यस्यति न्यस्यतां
रङ्गाधीश रमापतित्व सुभगं नारायणत्वं तव ॥ 19 ॥
धी कर्म भक्ति रहितस्य कदाऽप्यशक्त्या
रङ्गेश भाव कलुष प्रणति द्वयोक्तेः ।
मन्ये बलं प्रबल दुष्कृत शालिनो मे
त्वन्मूल देशिक कटाक्ष निपातमाद्यम् ॥ 20 ॥
अन्धोऽनन्ध ग्रहण वशगो याति रङ्गेश यद्वत्
पङ्गुर्नौका कुहर निहितो नीयते नाविकेन ।
भुङ्क्ते भोगानविदित नृपः सेवकस्यार्भकादिः
त्वत्संप्राप्तौ प्रभवति तथा देशिको मे दयाळुः ॥ 21 ॥
उक्त्या धनञ्जय विभीषण लक्ष्यया ते
प्रत्याय्य लक्ष्मण मुनेर्भवता वितीर्णम् ।
श्रुत्वा वरं तदनुबन्ध मदावलिप्ते
नित्यं प्रसीद भगवन् मयि रङ्गनाथ ॥ 22 ॥
सकृदपि विनतानां सर्वदे सर्वदेहिनि
उपनिषदभिधेये भागधेये विधेये ।
विरमति न कदाचिन्मोहतो हा हतोऽहं
विषम विषय चिन्ता मेदुरा मे दुराशा ॥ 23 ॥
यावज्जीवं जगति नियतं देह यात्रा भवित्री
त्यक्ताः सर्वे त्रिचतुर दिन ग्लान भोगा नभोगाः ।
दत्ते रङ्गी निजमपि पदं देशिकादेश काङ्क्षी
किं ते चिन्ते परमभिमतं खिद्यसे यत् पुनस्त्वम् ॥24॥
अपि मुहुरपराधैरप्रकम्प्यानुकम्पे
वहति महति योग क्षेम बृन्दं मुकुन्दे ।
मद कलुष मनीषा वज्र लेपावलेपान्
अनुगुणयितुमीहे न प्रभूनप्रभूतान् ॥ 25 ॥
मातर्भारति मुञ्च मानुष चटून् हे देह लब्धैरलं
लुब्ध द्वार दुरासिका परिभवैस्-तोषं जुषेथा मनः ।
वाचः सीमनि रङ्ग धामनि महा- नन्दोन्नमद्भूमनि
स्वामिन्यात्मनि वेङ्कटेश्वर कवेः स्वेनार्पितोऽयं भरः ॥26॥
दास्यं लास्यवताऽनुमत्य मनसा रङ्गेश्वर त्वत्पदे
नित्यं किं करवाण्यहं न तु पुनः कुर्यां कदर्याश्रयाम् ।
मीलच्चक्षुषि वेल्लित भ्रुणि मुहुर्दत्तावमानाक्षरे
भीमे कस्यचिदाढ्यकस्य वदने भिक्षाविलक्षां दृशम् ॥27॥
त्वय्येकाञ्जलि किं करे तनुभृतां निर्व्याज सर्वं सहे
कल्याणात्मनि रङ्गनाथ कमला कान्ते मुकुन्दे स्थिते ।
स्वामिन् पाहि दयस्व देव कुशलिन् जीव प्रभो भावयेति
आलापानवलेपिषु प्रलपितुं जिह्रेति जिह्वा मम ॥ 28 ॥
त्वयि सति रङ्गधुर्य शरणागत कामदुघे
निरुपधिक प्रवाह करुणा परिणाहवति ।
परिमित देश काल फलदान् फलदाकृतिकान्
कथमधिकुर्महे विधि शिव प्रमुखानमुकान् ॥ 29 ॥
ओमित्यभ्युपगम्य रङ्गनृपतेऽनन्योचितां शेषतां
स्वातन्त्र्यादिमयीमपोह्य महतीमाद्यामविद्यास्थितिम् ।
नित्यासंख्य विसीम भूति गुणयोर्यायामनायासतः
सेवा संपदमिन्दिरेश युवयोरैकान्तिकात्यन्तिकीम् ॥ 30 ॥
आचार्यात् रङ्गधुर्य द्वय समधिगमे लब्धसत्तं तदात्वे
विश्लिष्टाश्लिष्ट पूर्वोत्तर दुरित भरं यापितारब्ध देहम् ।
नीतं त्वत्कैस्त्वया वा निरवधिक दयोद्भूत बोधादिरूपं
त्वद्भोगैक स्वभोगं दयितमनुचरं त्वत्कृते मां कुरुष्व ॥31॥
विधानं रङ्गेशादधिगतवतो वेङ्कट कवेः
स्फुरद्वर्णं वक्त्रे परिकलयतां न्यास तिलकम् ।
इहामुत्राप्येष प्रणत जन चिन्तामणि गिरिः
स्व पर्यङ्के सेवां दिशति फणि पर्यङ्क रसिकः ॥ 32 ॥
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥