श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चनवतितमः सर्गः
तत्रतत्रराक्षसीभिस्सङ्घीभूय बन्धुनिधनशोकेन रावणगर्हणपूर्वकंविलापः ॥ १ ॥
तानि तानि सहस्राणि सारोहाणां च वाजिनाम् ।
रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ॥ १ ॥
राक्षसानां सहस्राणि गदापरिघयोधिनाम् ।
काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥ २ ॥
निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः ।
रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥ ३ ॥
दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः ।
राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः ॥ ४ ॥
अथ राक्षसीनां प्रलापः – तानितानीत्यादिचतु:श्लोकी ॥ वाजिनामित्येतद्गजानामप्युप -लक्षणं । सहस्रशः सहस्राणि । राक्षसी: राक्षसस्त्रियः । समागम्य चिन्तापरिप्लुता: । आसन्निति शेषः ॥ १-४ ॥
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः ।
राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन् ॥ ५ ॥
संगम्य संघीभूय । परस्परमालिङ्गिता इत्यर्थः ॥ ५ ॥
कथं शूर्पणखा वृद्धा कराला निर्णतोदरी ।
आससाद बने रामं कन्दर्पमिव रूपिणम् ॥
सुकुमारं महासत्त्वं सर्वभूतहिते रतम् ॥ ६ ॥
कथमित्यादिसार्धश्लोकमेकं वाक्यं ॥ कराला विकटा ॥ ६ ॥
तं दृष्ट्वा लोकनिन्द्या सा हीनरूपा प्रकामिता ।
कथं सर्वगुणैर्हीना गुणवन्तं महौजसम् ॥
सुमुखं दुर्मुखी रामं कामयामास राक्षसी ॥ ७ ॥
तं दृष्ट्वेत्यादिसार्धश्लोकमेकं वाक्यं ॥ प्रकामिता सा कथं कामयामास ॥ ७ ॥
जनस्यास्याल्पभाग्यत्वाद्बलिनी श्वेतमूर्धजा ।
अकार्यमपहास्यं च सर्वलोकविगर्हितम् ॥ ८ ॥
राक्षसानां विनाशाय दूषणस्य खरस्य च ।
चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ।
तन्निमित्तमिदं वैरं रावणेन कृतं महत् ॥ ९ ॥
वधाय सीता सानीता दशग्रीवेण रक्षसा ।
न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् ।
बद्धं बलवता वैरमक्षयं राघवेण च ॥ १० ॥
जनस्येत्यादिसार्धश्लोकद्वयमेकं वाक्यं ॥ वलयोस्याः सन्तीति वलिनी । पामादित्वान्न: । आर्षो ङीप् । अप्रतिरूपा अननुरूपा । तन्निमित्तं प्रधर्षणनिमित्तात् । शूर्पणखयाऽन्यथोक्तावपि तत्कामनादिकमकम्पनादिमुखात्सर्वैर्ज्ञातमिति ज्ञेयं ॥ ८-१० ॥
वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम् ।
हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ॥ ११ ॥
विराधं प्रेक्ष्य ज्ञात्वा स्थितानामस्माकं तत् विराधननं । विरोधिनिरसनाय पर्याप्तं पूर्णं निदर्शनं ॥ ११ ॥
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ।
निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ १२ ॥
खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा ।
शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम् ॥ १३ ॥
चतुर्दशेतिश्लोके पर्याप्तं तन्निदर्शनमित्यनुषज्यते ।। उत्तरश्लोकेनैकवाक्यत्वें शरपदद्वयवैयर्थ्य ॥ १२–१३ ॥
हतो योजनबाहुश्च कबन्धो रुधिराशनः ।
क्रोधान्नादं नदन्सोथ पर्याप्तं तन्निदर्शनम् ॥ १४ ॥
जघान बलिनं रामः सहस्रनयनात्मजम् ।
वालिनं मेरुसंकाशं पर्याप्तं तन्निदर्शनम् ॥ १५ ॥
ऋश्यमूके वसञ्शैले दीनो भग्नमनोरथः ।
सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् ।। १६ ।।
[एको वायुसृतः प्राप्य लङ्कां हत्वा च राक्षसान् ।
दग्ध्वा तां च पुनर्यातः पर्याप्तं तन्निदर्शनम् ॥१७॥
निगृह्य सागरं तसिन्सेतुं बद्ध्वा प्लवङ्गमैः ।
वृतोऽतरत्तं यद्रामः पर्याप्तं तन्निदर्शनम् ॥ १८ ॥ ]
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् ।
युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ॥ १९ ॥
विभीषणवचः कुर्याद्यदि स धनदानुजः ।
श्मशानभूता दुःखार्ता नेयं लाङ्का पुंरी भवेत् ॥ २० ॥
अथ खरवधानन्तरं । नादं शब्दं । नदन् कुर्वन् । सः प्रसिद्धः कबन्धः ॥ १४ – २० ॥
कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् ।
अतिकायं च दुर्धर्षं लक्ष्मणेन हतं पुनः ।
प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ॥ २१ ॥
[ पुरा हनुमता लङ्कां दग्धां लाङ्गूलवह्निना ।
हतमक्षकुमारं च दृष्ट्वाऽसौ नावबुध्यते ॥ २२ ॥ ]
नावबुध्यते रामप्रभावमिति शेषः ।। २१ – २२ ।।
मम पुत्रो मम आता मम भर्ता रणे हतः ।
इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले ॥ २३ ॥
रथाश्चाश्वाश्च नागाश्व हैताः शतसहस्रशः ।
रणे रामेण शुरेण राक्षसाश्च पदातयः ॥ २४ ॥
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः ।
हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ॥ २५ ॥
कुले कुले गृहे गृहे । इदमपि राक्षसीवाक्यमेव ।। २३-२५ ॥
हतप्रवीरा रामेण निराशा जीविते वयम् ।
अपश्यन्तो भयस्यान्तमनाथा विलपामहे ॥ २६ ॥
रामहस्ताद्दशग्रीवः शूरो दत्तमहावरः ।
इदं भयं महाघोरमुत्पन्नं नावबुध्यते ॥ २७ ॥
वयमित्येतदपेक्षया अपश्यन्त इति पुंलिङ्गं । विलपामहे इत्यात्मनेपदमार्षं ॥ २६-२७ ॥
न देवा न च गन्धर्वा न पिशाचा न राक्षसाः ।
उपसृष्टं परित्रातुं शक्ता रामेण संयुगे ॥ २८ ॥
उपसृष्टं उपद्रुतं ॥ २८ ॥
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे ।
कथयिष्यन्ति रामेण रावणस्य निबर्हणम् ॥ २९ ॥
कथयिष्यन्ति इतः परमपि कानिचिन्निमित्तानि प्रादुर्भूय कथयिष्यन्तीत्यर्थः । वर्तमाने तात्पर्यमित्यप्याहुः ॥ २९ ॥
पितामहेन प्रीतेन देवदानवराक्षसैः ।
रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् ॥ ३० ॥
देवदानवराक्षसैः देवदानवराक्षसेभ्यः ॥ ३० ॥
तदिदं मानुषं मन्ये प्राप्तं निस्संशयं भयम् ।
जीवितान्तकरं घोरं रक्षसां रावणस्य च ॥ ३१ ॥
मानुषं मानुषादागतं । मन्ये मन्यामहे ।। ३१ ।।
पीड्यमानास्तु बलिना वरदानेन रक्षसा ।
दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ॥ ३२ ॥
देवतानां हितार्थाय महात्मा वै पितामहः ।
उवाच देवताः सर्वा इदं तुष्टो महद्वचः ॥ ३३ ॥
रक्षसा रावणेन । वरदानेन करणेन ॥ ३२ – ३३ ।।
अद्यप्रभृति लोकांस्त्रीन्सर्वे दानवराक्षसाः ।
भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् ॥ ३४ ॥
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः ।
वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः ॥ ३५ ॥
प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत् ।
उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा ॥ ३६ ॥
दानवराक्षसा इत्युक्तेर्मन्दोदरीसंबन्धेन दानवाश्च केचिद्राक्षसैः सह तिष्ठन्तीति ज्ञेयम् ॥ ३४-३६ ॥
एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान्पुरा ।
भक्षयिष्यति न: सीता राक्षसघ्नी सरावणान् ॥ ३७ ॥
क्षुद्यथा दानवान्पुरेति । देवेभ्योऽमृतप्रदानानन्तरमिति बोध्यं । अस्मच्छब्दापेक्षया सरावणानित्युक्तिः ॥ ३७ ॥
रावणस्थापनीतेन दुर्विनीतस्य दुर्मतेः ।
अयं निष्ठानको घोरः शोकेन समभिप्लुतः ॥ ३८ ॥
निष्ठानक: नाश इत्याहुः ॥ ३८ ॥
तं न पश्यामहे लोके यो नः शरणदो भवेत् ।
राघवेणोपसृष्टानां कालेनेव युगक्षये ॥ ३९ ॥
नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम् ।
दवाग्निवेष्टितानां हि करेणूनां यथा वने ॥ ४० ॥
पश्यामह इत्यात्मनेपदमार्षं ।। ३९-४० ॥
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना ।
यत एव भयं दृष्टं तमेव शरणं गतः ॥ ४१ ॥
इतीव सर्वा रजनीचरस्त्रियः परस्परं संपरिरभ्य बाहुभिः ।
विषेदुरार्ता भयभारपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् ॥ ४२ ॥
प्राप्तकालं उचितं । पौलस्त्येनविभीषणेन । इतः परं तस्यैव पौलस्त्यकुलप्रतिष्ठा -पकत्वात्तच्छब्दप्रयोगः । अत्र पितामहादिवरप्रदानवृत्तान्तो राक्षसीभिर्मन्दोदरीसकाशाच्छ्रुत इति ज्ञेयं । सा च ज्ञानवृद्धेति वक्ष्यते ॥ ४१-४२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चनवतितमः सर्गः ॥ ९५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चनवतितमः सर्ग: ।। ९५ ।।