श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशत्युत्तरशततमः सर्गः
इन्द्रेण रामप्रार्थनातंप्रति मृतविकलाङ्गवानरगणानांपुनर्जीवनावैकल्यस्वालय -वर्तिसरित्तरु सार्वकालिकसलिलफलसमृद्धिसंभवरूपवरदानपूर्वकं सुरगणैः सहस्वर्गगमनम् ॥ १ ॥ रामेण सुरपतिसमुज्जीविताविकलवानरनिकरैः सह हर्षाधिगमः ॥ २ ॥
प्रतियाते तु काकुत्स्थे महेन्द्रः पाकशासनः ।
अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम् ॥ १ ॥
अथेन्द्रानुशासनं – प्रतिप्रयात इत्यादि । काकुतस्थे दशरथे । महेन्द्र लब्धमहेन्द्रभावः ॥ १ ॥
अमोघं दर्शनं राम तवास्माकं परन्तप ।
प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ॥ २ ॥
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः ।
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ ३ ॥
यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर ।
वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ॥ ४ ॥
मम हेतोः पराक्रान्ता ये गता यमसादनम् ।
ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥ ५ ॥
तवास्माकं दर्शनं । अस्मत्कर्तृकं दर्शनं दशरथपुत्रकामेष्टिकालिकं । अमोघं रावणवधपर्यन्तं जातमित्यर्थः । तेन प्रीतियुक्तत्वेन यत् प्रत्युपकाररूपं कार्यमिच्छसि तद्ब्रूहि । केचित्तुत्वत्कर्तृकमस्मद्विषयं दर्शनमित्यर्थ इत्याहुः ॥ २-५ ॥
मत्कृते विप्रयुक्ता ये पुत्रैर्दारश्च वानराः ।
मत्प्रियेष्वभियुक्ताश्च न मृत्युं गणयन्ति च ॥
त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे ॥ ६ ॥
मत्कृत इत्यादिसार्धश्लोकमेकं वाक्यं ॥ मत्प्रियेषु अभियुक्ता निरताः । समेयुरित्यत्र पुत्रैर्दारैश्चेत्यावर्तनीयं ॥ ६ ॥
नीरुजो निर्व्रणांश्चैव संपन्नबलपौरुषान् ।
गोलाङ्गूलांस्तथैवर्क्षान्द्रष्टुमिच्छामि मानद ॥ ७ ॥
नीरुजः निष्पीडान् ।। ७ ।।
अकाले चापि मुख्यानि मूलानि च फलानि च ।
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ॥ ८ ॥
विमला: विमलोदकाः ॥ ८ ॥
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ।
महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ॥ ९ ॥
प्रीतिलक्ष्यतेनेनेति प्रीतिलक्षणं प्रीतिव्यञ्जकं ॥ ९ ॥
महानयं वरस्तात त्वयोक्तो रघुनन्दन ।
द्विर्मया नोक्तपूर्वं हि तस्मादेतद्भविष्यति ॥ १० ॥
समुत्थास्यन्ति हरयो ये हता युधि राक्षसैः ।
ऋक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः ॥ ११ ॥
नीरुजो निर्वणाश्चैव संपन्नवलपौरुषाः ।
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ॥ १२ ॥
सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि ।
सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ॥ १३ ॥
महानयं वर इति वरस्य महत्त्वं इतस्ततो विप्रकीर्णकरचरण पुच्छादिस्वस्व संस्थानसंधानलोकान्तरगतानयनादिरूपाघटितार्थ घटितत्वं । द्विर्मयानोक्तपूर्वमिति । उक्तवचनस्य विपरीतं वचनान्तरं नोक्तपूर्वमित्यर्थः ॥ १०- १३ ॥
अकाले पुष्पशबलाः फलवन्तश्च पादपाः ।
भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ॥ १४ ॥
पुष्पशबलाः पुष्पैर्नानावर्णाः । सलिलायुताः सलिलैर्व्याप्ताः ॥ १४ ॥
सव्रणैः प्रथमं गात्रैः संवृत्तैर्निर्व्रणैः पुनः ॥ १५ ॥
ये निहताः सव्रणास्तेषां निर्व्रणत्वमनुगृह्णाति-सव्रणैरिति ॥ प्रथमं वरदानात्पूर्वं सव्रणैः अथ निर्वणैः संवृत्तैः निर्वणीभूतैः गात्रैरुपलक्षिताः । वानरा भविष्यन्तीत्यनुकृष्य योजना ॥ १५ ॥
ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः ।
बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः ॥ १६ ॥
ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन् ॥ १७ ॥
काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ।
ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् ॥ १८ ॥
तत इति । अत्र क्रियाभेदात्सर्वशब्दद्वयं । किमेतदिति । युद्धे मृतस्य कथमेवं जीवनमित्यर्थः ॥ १६-१८ ॥
गच्छायोध्यामितो वीर विसर्जय च वानरान् ।
मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम् ॥ १९ ॥
शत्रुमं च महात्मानं मातृः सर्वाः परन्तप ।। १९ ।।
भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतधारिणम् ।
अभिषेचय चात्मानं पौरान्गत्वा प्रहर्षय ॥ २० ॥
एवमुक्त्वा तमामय रामं सौमित्रिणा सह ।
विमानैः सूर्यसंकाशैर्हृष्टा जग्मुः सुरा दिवम् ॥ २१ ॥
गच्छायोध्यामित्यादिसार्धश्लोकद्वयमेकान्वयं ॥ त्वच्छोकात् त्वद्वियोगशोकात् ॥ १९-२१ ॥
अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ।
लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा ।। २२ ।।
बासमाज्ञापयत् वानराणामिति शेषः ॥ २२ ॥
ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी ॥
श्रिया ज्वलन्ती विरराज सर्वतो निशाप्रणीतेव हि शीतरश्मिना ॥ २३ ॥
प्रणीता प्रकाशिता ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशत्युत्तरशततमः सर्गः ॥ १२३ ॥
इति श्री गोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने प्रयोविंशत्युतरशततमः सर्गः ।। १२३ ॥