05 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चमः सर्गः

समुद्रवेलावलोकनाद्युद्दीपकसमुद्दीपित विरहशोकेनरामेण लक्ष्मणप्रति सीतामुद्दिश्य -सपरिशोचनंबहुधाविलापः ॥ १ ॥ तथा लक्ष्मणसमाश्वासितेनतेन सायंसन्ध्योपासनम् ॥ २ ॥

सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता
सागरस्योत्तरे तीरे साधु सेना निवेशिता
।। ।।

एवं कृतज्ञत्वमित्रानुरोधित्वपरीक्ष्यकारित्वमहोत्सा हत्वादयः शरण्यत्वौपयिका रामगुणा दर्शिताः । अथ रामस्य कारुण्यरूपं प्रधानगुणं दर्शयितुं सर्गान्तरमारभते – सा त्विति ॥ स्वारक्षा आसमन्ताद्रक्षन्तीत्यारक्षा: शोभना: आरक्षाः यस्याः सातथोक्ता । विधिवत् नीतिशास्त्रोक्तरीत्या । सुसमाहिता निराकुला । निवेशिता ॥ १ ॥

 

मैन्दश्च द्विविधश्चोभौ तत्र वानरपुङ्गवौ
विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम्
।। ।।

निविष्टायां तु सेनायां तीरे नदनदीपतेः
पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत्
।। ।।

दिशमिति जात्येकवचनं । दिश इत्यर्थ: । उभसर्वतसो :- इत्यादिना द्वितीया । सर्वत इति सप्तम्यर्थे तसिः । दिशां सर्वेषु प्रदेशेष्वि- त्यर्थः ॥ २ – ३ ॥

 

शोकश्च किल कालेन गच्छता ह्यपगच्छति
मम चापश्यतः कान्ता
हन्यहनि वर्धते ।। ।।

समुद्रवेलावनाद्युद्दीपकदर्शनादुद्भूतं विरहशोकं सोढुमशक्नुवन् सौमित्रिं प्रत्याह- शोकश्चेत्यादिना ॥ प्रथमश्चकारोऽवधारणे। द्वितीयस्त्वर्थः । शोकः इष्टवस्त्वन्तरवियोगजनितः शोकः । गच्छता कालेन अपगच्छति । किलेत्यैतिह्ये । गच्छत्येवेति प्रसिद्धमिति लौकिका वदन्ति । कान्तामपश्यतो मम तु शोकः । अहन्यहनि वर्धते । लौकिकशोकविलक्षणोमम शोक इतिभावः ॥ ४ ॥

 

न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च
एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते
।। ।।

ननु शत्रुहृताया दूरे स्थितायास्तस्याः प्रत्याहरणसमर्थस्य तव किं शोकेनेत्याशङक्य न तद्विषयोयं शोकः किंतूपभोगयोग्यस्य प्रियावयसो वैफल्यानुस्मरणादित्याह – न म इति ॥ प्रिया दूरे स्थितेति मे न दुःखं । सुग्रीवेण प्रस्थानेन तस्य निवर्त्यत्वात् । प्रबलरक्षसा हृतेति मे दुःखं नास्ति । तस्य तच्छिरः कृन्तनापनोद्यत्वात् । एतदेवानुशोचामि । इदमेकमेव शोकनिमित्तं । वयोस्या ह्यतिवर्तते गतं यौवनं न प्रत्याहर्तुं शक्य मितिभावः । अत्र यौवनमतिवर्तत इति नार्थः । नित्ययौवनत्वात्तस्याः । किंतु वयोतिवर्तते । व्यर्थतयैवयातीतिभावः । मानुषभावानुसारेण चेदं वचनं ॥ ५ ॥

 

वाहि वात यतः कन्ता तां स्पृष्ट्वा मामपि स्पृ
त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः
।। ।।

प्रियास्पृष्टद्रव्यस्पर्शस्य विनोदहेतुत्वात्तत्संपादनार्थं वायुं प्रार्थयते-वाहीति ॥ हे वात मेकान्ता यतः यत्र वसति तत्र वाहि गच्छ । तन्त्रगत्वाकिंकरणीयमित्यत्राह- तामिति । न चैतदन्यतः सेत्स्यतीति सदृष्टान्तं दर्शयति — दृष्टिसमागमः चन्द्रे यथा चन्द्राधीनः । तथा मे तद्गात्रसंस्पर्शोपि । त्वयि त्वदधीनः । तथा तदवलोकितं चन्द्रं पश्यन् तत्प्रणालिकया तां दृष्टवानस्मि । तद्वत् तदङ्गस्पृष्टं । त्वां स्पृशन् तामेव स्पृष्टवान्भवेयमित्यर्थः ॥ ६ ॥

तन्मे दहति गात्राणि विषं पीतमिवाशये
हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत्
।। ।।

न केवलं वयोतिवर्तनस्मरणमेव व्यथाहेतुः किंतु कारणान्तरमप्यस्तीत्याह – तदिति ॥ तद्वचनं मे आशये हृदये । स्थितं सत् । सदा स्मर्यमाणंसदित्यर्थः । पीतं विषमिव गात्राणि प्रत्यवयवं । दहति । किं तद्वचनं तत्राह – हा नाथेति । सा सर्वान्भोगान्परित्यज्य मया सहागता । ह्रियमाणा सती रावणेन हरणसमये न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा इत्युक्तरीत्या पातिव्रत्याग्निना भस्मीकर्तुं समर्थापि तत्तस्य सदृशं भवेत् इत्युक्तरीत्या हा नाथेति मन्नाथत्वमेव पुरस्कृत्य मां यदब्रवीत् तन्मे गात्राणि दहति । एतेन रामशोकः सीताविषयकारुण्य मित्यवगम्यते । परदुःखदुःखित्वं हि कारुण्यं ॥ ७ ॥

 

तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा
रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना
।। ।।

अथ संतापो जलप्रवेशं विना न शाम्यतीति वक्तुं तस्याग्नित्वं सावयवं रूपयति—तद्वियोगेति ॥ मदनाग्निवर्धकत्वेन वियोगस्येन्धनरूपत्वं । संततत्वेन चिन्ताया ज्वालात्वरूपणं । रात्रिंदिवमिति । अचतुर — इत्यादिना सूत्रेण साधुत्वं । शीतलाशीतलकालाविशेषेण दह्यत इत्यर्थः ॥ ८ ॥

 

अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना
कथं चित्प्रज्वलन्कामः स
मा सुप्तं जले दहेत् ।। ।।

सौमित्रे कान्तास्मारकेण भवता विना अर्णवमवगाह्य स्वप्स्ये । अनेन लक्ष्मणस्य शेषावतारत्वमुक्तं । अर्णवशयनं हि शेषिणैव किं प्रयोजनमित्यत्राह – कथंचिदिति । इदानीं प्रज्वलन् स कामः जले सुप्तं मां कथंचिद्दहेत् कृच्छ्राद्दहेत् मन्दीभवेदित्यर्थः ॥ ९ ॥

 

बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम्
यदहं सा च वामोरुरेकां धरणिमाश्रितौ
।। १० ।।

केदारस्येव केदारः सोदकस्य निरूदकः
उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम्
।। ११ ।।

कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम्
विजित्य शत्रून्द्रक्ष्यामि सीतां स्फीतामिव श्रियम्
।। १२ ।।

एवं दुःसहदुःखाक्रान्तस्यापि मम जीवनधारणशक्तिस्तया सह एकधरण्याश्रयणात्तज्जीवनप्रवृत्त्युपलम्भाच्च जायत इत्याह-बह्वित्यादिना श्लोकद्वयेन ॥ अहं सा वामोरूश्च एकां धरणिमाश्रिताविति यत् एतद्बहु भूरि जीवनसाधनं । अतः एतेन कामयानस्य विरहिणो मम जीवितुं शक्यं । एकशय्याश्रयणन्यायेन कामिनोरेकधरण्याश्रयणमपि जीवनसाधनं भवतीत्यभिप्रायः ॥ जीवन्तीं तां शृणोमीति यत् तेन । निरूदकः निरुदकः । केदार: वनं । सोदकस्य केदारस्य उपस्नेहेन उपक्लेदेनेव जीवामि ॥ १० – १२ ॥

 

कदा नु चारुबिम्बोष्ठं तस्याः पद्ममिवाननम्
ईषदुन्नम्य पास्यामि रसायनमिवातुरः
।। १३ ।।

रसायनं शरीरसिद्धिकर मौषधविशेषं । आतुरः रोगी । आतुरोभ्य मितोभ्यान्तः इत्यमरः ॥ १३ ॥

 

तस्यास्तु संहतौ पीनौ स्तनौ तालफलोपमौ
कदा नु खलु सोत्कम्पौ
श्लिष्यन्त्या मां भजिष्यतः ।। १४ ।।

सा नूनमसितापाङ्गी रक्षोमध्यगता सती
मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति
।। १५ ।।

कथं जनकराजस्य दुहिता सा मम प्रिया ।

राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ।। १६ ।।

संहतौ श्लिष्टौ ।। १४-१६ ॥

कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति
विधूय जलदान्नीलाञ्शशिलेखा शरत्स्विव
।। १७ ।।

अविक्षोभ्यरक्षांसीत्येकं पदं । अविक्षोभ्याणि । दुराधर्षाणि रक्षांसि ॥ १७ ॥

 

स्वभावतनुका नूनं शोकेनानशनेन च
भूयस्त
नुतरा सीता देशकालविपर्ययात् ।। १८ ।।

देशकालविपर्ययात् देशकालयोर्व्यत्यासात् । सुखावहयोर्देशकालयोरपगमा -त्तद्विरुद्धयोरुपगमाच्चेत्यर्थः ॥ १८ ॥

 

कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान्
सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसं
।। १९ ।।

कदा नु खलु मां साध्वी सीतामरसुतोपमा
सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं
पयः ।। २० ।।

सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसमिति । सीतां प्रत्याहृत्य कदा नु शोकमुत्स्रक्ष्यामीत्यर्थः । आस्यं व्यादाय स्वपितीतिवत्साधुः ॥ १९-२० ॥

 

कदा शोकमिमं घोरं मैथिली विप्रयोगजम्
सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा
।। २१ ।।

एवं विलपतस्तस्य तत्र रामस्य धीमतः
दिनक्षयान्मन्द
रुचिर्भास्करोऽस्तमुपागमत् ।। २२ ।।

शुक्लेतरं मलिनं ।। २१-२२ ।।

 

आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत
स्मरन्कमलपत्राक्षीं सीतां शोकाकुलीकृतः
।। २३ ।।

उपासत उपास्त । भ्रातुरपि लक्ष्मणस्य पुरतो रघुनाथस्यैवंविधवचनप्र- योगस्तस्य सर्वविधसेवकत्वात् । अतो नानौचित्यं ॥ २३ ॥

 

 

त्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चमः सर्गः ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण भूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.