08 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टमः सर्गः

प्रहस्तादिभीरावणंप्रत्यास्मश्लाघनपूर्वकं रामादिवधप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥

ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः
अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा
।। ।।

देवदानवगन्धर्वाः पिशाचपतगोरगाः
न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे
।। ।।

एवं मन्त्रिभिः सहसंमन्त्र्य भूयोभिहिते सकलसचिवप्रधानः प्रहस्तः स्वाभिमतमर्थं राज्ञे निवेदयति – तत इति ॥ १-२ ।।

 

सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता
न हि मे जीवतो गच्छेज्जीवन्स वनगोचरः
।। ।।

सर्वां सागरपर्यन्तां सशैलवनकाननाम्
करोम्यवानरां भूमिमाज्ञापयतु मां भवान्
।। ।।

हनुमतः पौरुषं प्रत्यक्षतो दृष्ट्वा कथमेवमुच्यत इत्यत्राह – सर्व इति ॥ विश्वस्ताः परिभवितुमस्मान् कोपि न शक्त इति विश्वस्ताः विस्रब्धाः । प्रामादिकशत्रुपरिभवो न न्यूनतामापादयतीतिभावः ॥ ३–४ ॥

 

रक्षां चैव विधास्यामि वानराद्रजनीचर
नागमिष्यति ते दुःखं किं चिदात्मापराधजम्
।। ।।

आत्मापराधः सीताहरणरूपो व्यतिक्रमः ॥ ५ ॥

 

अब्रवीत्तु सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः
इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम्
।। ।।

अयं परिभवो भूयः पुरस्यान्तःपुरस्य च
श्रीमतो राक्षसेन्द्रस्य वानरे
प्रधर्षणम् ।। ।।

हि यस्माद्वानरेण कृतमिदं कर्म सर्वेषां नः प्रधर्षणरूपं । भूयः तदुपरि पुर स्यान्तःपुरस्य च परिभवरूपं । अथच राक्षसेन्द्रस्य प्रधर्षणरूपं । अतो न क्षमणीयमित्यर्थः ॥ ६-७ ॥

 

अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान्
प्रविष्टान्सागरं भीममम्बरं वा रसातलम्
।। ।।

ततोऽब्रवीत्सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः
प्रगृह्य परिघं घोरं मांसशोणितरूपितम्
।। ।।

ततः किं करिष्यसीत्यत आह–अस्मिन्निति ॥ ८-९ ॥

 

किं वो हनुमता कार्यं कृपणेन तपस्विना
रामे तिष्ठति दुर्धर्षे
सुग्रीवे सलक्ष्मणे ।। १० ।।

अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्
आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम्
।। ११ ।।

कृपणेन गूढसंचार प्रकटितभयेन । तपस्विना शोच्येन ॥ १० – ११ ।।

 

इदं ममापरं वाक्यं शृणु राजन्यदीच्छसि ।

उपायकुशलो ह्येव जयेच्छत्रूनतन्द्रितः ॥ १२ ॥

तद्वाक्यं किमित्याकाङ्क्षायामुपायप्रतिपादकं वाक्यं वक्तुमादावुपायं प्रशंसति – उपायेति ॥ १२ ॥

 

कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।

राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥ १३ ॥

काकुत्स्थमुपसंगम्य बिभ्रतो मानुषं वपुः ।

सर्वे ह्यसंभ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥ १४ ॥

प्रेषिता भैरतेन स्म भ्रात्रा तव यवीयसा ।

[ तवागमनमुद्दिश्य कृत्यमात्ययिकं त्विति ] ।

स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति ॥ १५ ॥

विवक्षितमुपायमेवाह – कामरूपेत्यादिना ॥ निश्चिताः निश्चितवन्तः । राक्षसा वा सहस्राणीति । सहस्रशब्दस्य संख्येयपरत्वेपि शब्दस्वाभाव्यान्नपुंसकत्वं । किमिति ब्रूयुस्तत्राह — प्रेषिता इति ॥ अस्यान्ते इतिकरणं द्रष्टव्यं ।। १३-१५ ।।

 

ततो वयमितस्तूर्णं शूलशक्तिगदाधराः ।

चापबाणासिहस्ताश्च त्वरितास्तत्र याम ह ॥ १६ ॥

आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम् ।

अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम् ॥ १७ ॥

ते वयं तत्र समीपे याम । यामेति लोटि रूपं ॥ १६-१७ ॥

 

एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ ।

अवश्यमपनीतेन जहतामेव जीवितम् ॥ १८ ॥

कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान्
अब्रवीत्पर
मक्रुद्धो रावणं लोकरावणम् ।। १९ ।।

एवं कृते किं स्यादित्यत्राह — एवं चेदिति ॥ राम लक्ष्मणौ अनयं अस्मत्कृतकैतवापरिज्ञानेन विश्वासं यद्युपसर्पेतां ततस्तेन अपनीतेन अपनयेन । जीवितं जहतामेव । जह्यातामेवेत्यर्थः ॥ १८- १९ ॥

 

सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः
अहमेको हनिष्यामि राघवं सहलक्ष्मणम्

सुग्रीवं च हनूमन्तं सर्वानेव च वानरान् ।। २० ।।

सर्व इत्यादि सार्धश्लोकमेकं वाक्यं ॥ २० ॥

 

ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः
क्रुद्धः परिलिहन्वक्त्रं जिह्वया वाक्यमब्रवीत्
।। २१ ।।

स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः
एकोऽहं भक्षयिष्यामि तान्सर्वान्हरियूथपान्
।। २२ ।।

तत इत्यादिसार्धश्लोकत्रयमेकान्वयं ।। २१ – २२ ।।

 

स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् ।। २३ ।।
अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम्
ङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् ।। २४ ।।

मधुवारुणीं मधुरूपां वारुणीं । रणकुञ्जरं रणाप्रवृष्यं । स्वःस्था इत्यमङ्गलोक्तिः ॥ २३ – २४ ॥

त्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टमः सर्गः ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रा- मायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.