10 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशमः सर्गः

विभीषणेन रावणगृहमेत्यतंप्रति सीतानयनकालप्रभृतिलङ्कायामनर्थसूचकदुर्निमित्त -प्रादुर्भावनिवेदनपूर्वकं तत्प्रायश्चित्त त्वेन रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ रावणेन विभीषणंप्रति रामस्यालक्ष्यत्वोक्त्या तद्वचनानादरणेनगृहंप्रति तद्विसर्जनम् ॥ २ ॥

ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः

राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥ १ ॥

शैलाग्रचयसंकाशं शैलशृङ्गमिवोन्नतम्

सुविभक्तमहाकक्ष्यं महाजनपरिग्रहम् ॥ २ ॥

मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम्

राक्षसैश्चाप्तपर्याप्तैः सर्वतः परिरक्षितम् ॥ ३ ॥

मत्तमातङ्गनिश्वासैर्व्याकुलीकृतमारुतम् ॥

शङ्खघोषमहाघोषं तूर्यनादानुनादितम् ॥ ४॥

प्रमदाजनसंबाधं प्रल्पितमहापथम् ॥

तप्तकाञ्चननिर्यूहं भूषणोत्तमभूषितम् ॥ ५॥

गन्धर्वाणामिवावासमालयं मरुतामिव

त्नसञ्चयसंबाधं भवनं भोगिनामिव ॥ ६ ॥

तं महाभ्रमिवादित्यस्तेजोविस्तृतरश्मिवान्

अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः ॥ ७ ॥

अथ हितपरो विभीषणः सत्त्वोत्तरकाले रावणस्योपदेष्टुं तद्गृहं गत इत्याह -तत इत्यादि ॥ प्रविवेश महाद्युतिरित्यन्तमेकं वाक्यं । ततः प्रत्युषसीत्यनेन लङ्कादाहानन्तरमेकमहो गतमित्यवगम्यते । प्राप्तधर्मार्थनिश्चयः सीताप्रदानमेषास्माकं धर्मोर्थश्चेति कृतनिश्चयः । भीमकर्मा । परमार्थतो रावणस्य हितत्वेप्यनभिमतार्थविज्ञापनरूपसाहसकरणात् भीमकर्मेत्युक्ति: । राक्षसाधिपतेः अग्रजस्य । आलयं निवासभूतं । वेश्म प्रविवेशेति संबन्धः । शैलाग्रचयसंकाशं गिरिशिखरचयसदृशं । अनेकशृङ्गयुक्तत्वादितिभावः । शैलशृङ्गमिवोन्नतमित्यौन्नत्ये दृष्टान्तः । सुविभक्तमहाकक्ष्यं सुष्टु विभक्तमहाप्रकोष्ठं । कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने इत्यमरः । महाजनै विद्वद्भिः परिगृह्यत इति महाजनपरिग्रहं । तदधिष्ठितमित्यर्थः । महामात्रैः प्रधानैः । महामात्राः प्रधानाः स्युः इत्यमरः । आप्तपर्याप्तै: कार्यकरणदक्षैरिति महामात्र विशेषणं । व्याकुलीकृतमारुतं चक्रवातीकृतवायुं । शङ्खघोषमहाघोषं शङ्खघोषेण महान् घोषो यस्य तथोक्तं । तूर्यनादानुनादितं तूर्यनादेन सञ्जातप्रतिध्वनिं । प्रजल्पितमहापथं सञ्जातमहाक लकलमहामार्ग । तप्तकाश्चननिर्यूहं द्रुतकनकमयमत्तवारणं । निर्यूहो मत्तवारणः इत्यमरः । भूषणोत्तमैः तोरणवितानप्रभृतिभिर्भूषितं । गन्धर्वाणामिवावासं । तौर्यत्रिकमुखरितत्वादितिभावः । मरुतां देवानां । आलयमिव । निरवधिकैश्वर्यसंपन्नत्वादितिभावः। रत्नसंचयै: संबाधं संपूर्णम् । अतएव भोगिनां सर्पाणां भवनमिव स्थितं । तेजोविस्तृतरश्मिवान् तेजः शरीरकान्तिस्तदेव विस्तृतरश्मिरस्यास्तीति तथा । महाद्युति: महाप्रभः । अभ्रमिवेत्युपमया तद्भवनं विभी षणस्य तेजोपहारकमितिव्यज्यते । एवं गृहोत्कर्षवर्णनं रावणस्यानीत्या सर्वमेकपदे नष्टमिति ज्ञापनाय ॥ १ – ७ ॥

 

पुण्यान्पुण्याहघोषांश्च वेदविद्भिरुदाहृतान्

शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान् ॥ ८ ॥

पुण्यान् पुण्यकरान् । पुण्याहघोषान् पुण्याहमन्त्रघोषान् । विजयसंश्रितान् विजयफलकानित्यर्थः । उदाहृतान् उच्चारितान् ॥ ८ ॥

 

पूजितान्दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः

न्त्रवेदविदो विप्रान्ददर्श सुमहाबलः ॥ ९

दधिपात्रै : दधियुक्तपात्रैः । मत्रवेदविदः मन्त्रब्राह्मणविदः । मन्त्राः कर्मसु विनियुक्ता इषेत्वेत्यादयः । कर्मचोदना ब्राह्मणानि ॥ ९ ॥

 

स पूज्यमानो रक्षोभिर्दीप्यमानः स्वतेजसा

आसनस्थं महाबाहुर्ववन्दे धनदानुजम् ॥ १० ॥

पूज्यमानः श्लाध्यमानः ॥ १० ॥

 

स राजदृष्टिसंपन्नमासनं हेमभूषितम्

जगाम समुदाचारं प्रयुज्याचारकोविदः ॥ ११ ॥

दृष्टिसंपन्नं दृष्ट्या निवेदितमित्यर्थ: । समुदाचारं जयशब्दप्रयोगादिसमुदाचारं । जगाम आरुरोह ॥ ११ ॥

 

स रावणं महात्मानं विजने मन्त्रिसन्निधौ

उवाच हितमत्यर्थं वचनं हेतुनिश्चितम् ॥ १२ ॥

विजने मन्त्रिव्यतिरिक्तजनरहिते। हेतुनिश्चितं हेतुभिर्युक्तिभिर्निश्चितं  ।। १२ ।।

प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः

देशकालार्थसंवादी दृष्टलोकपरावरः ॥ १३ ॥

प्रसाद्य स्तुतिवचनेन प्रसन्नं कृत्वा । सान्त्वेनोवाचेत्यन्वयः । उपस्थितक्रमः ज्ञातवचनक्रमः । देशकालार्थसंवादी देशकालप्रयोजनानुसारी । दृष्टलोकपरावर: लोके ये परावरे उत्कृष्टापकृष्टे ते दृष्टे ज्ञाते येन तथोक्तः । रामस्य धार्मिकत्वं रावणस्याधार्मिकत्वं च जानातीत्यर्थः ॥ १३ ॥

 

यदाप्रभृति वैदेही ‘संप्राप्तेमां पुरीं तव

तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥ १४ ॥

प्रथमं रावणसंवादाय दुर्निमित्तानि दर्शयति – यदेति ॥ यदाप्रभृति यत्कालमारभ्य । क्रिया- विशेषणमिदं । एवं तदाप्रभृतीत्यपि । अशुभानि निमित्तानि अशुभसूचकनिमित्तानि ॥ १४ ॥

 

सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः

मन्त्रसंधुक्षितोप्यग्निर्न सम्यगभिवर्धते ॥ १५ ॥

सस्फुलिङ्गः अग्निकणसहितः । सधूमार्चि: धूमाकुलज्वालासहितः । सधूमकलुषोदय: धूमेन कलुषः उदय: आविर्भावो धूमकलुषोदयः तेन सहितः सधूमकलुषोदयः । शान्तः शान्तो ज्वलन्नित्यर्थः । मन्त्रसन्धुक्षितः मन्त्रवद्भिर्हविभिर्योजितः ॥ १५ ॥

 

अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च

सैरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥ १६ ॥

अग्नयस्ति ष्ठन्त्यत्रेत्यग्निष्ठाः महानसाः तेषु । अग्निशालासु अग्निहोत्रशालासु । ब्रह्मस्थलीषु वेदाध्ययनस्थानेषु । सरीसृपाणि सर्पाः । लिङ्गव्यत्यय आर्ष: । हविष्येषु देवताभ्यो देयेषु आज्यपुरोडाशादिषु ॥ १६ ॥

 

गवां पयांसि स्कन्नानि विमदा वीरकुञ्जराः

दीनमश्वाः प्रहेषन्ते ने च ग्रासाभिनन्दिनः ॥ १७ ॥

स्कन्नानि शुष्काणि स्कन्दिर्गतिशोषणयोः इति धातोर्निष्ठा । रदाभ्यां निष्ठातो नः पूर्वस्य च दः इति नत्वं । वीरकुञ्जराः मत्तगजा: । प्रहेषन्ते द्वेषारवं कुर्वन्ति । हेषा अश्वशब्दः ॥ १७ ॥

 

खरोष्ट्राश्वतरा राजन्भिन्नरोमाः स्रवन्ति नः

न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः ॥ १८ ॥

अश्वतराः महाखराः । भिन्नरोमाः स्वस्थानात् भिन्नरोमाण : गलितरोमाण: ऊर्ध्वरोमाणो वा । अकारान्तत्वमार्षं । स्रवन्ति अश्रूणि मुञ्चन्ति । विधानैः चिकित्साभिः । चिन्तिता: अनुसंहिताः । चिकित्सिता अपीत्यर्थः । स्वभावे प्रकृतौ । नावतिष्ठन्ते प्रकृतिस्था न भवन्तीत्यर्थः ॥ १८ ॥

 

वायसाः सङ्घशः क्रूरा व्याहरन्ति समन्ततः

समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घशः ॥ १९ ॥

संघशो व्याहरन्ति संघशः समवेता इति च संबन्धः ॥ १९ ॥

 

गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः ।

उपपन्नाश्च सन्ध्ये द्वे व्याहरन्त्यशिवं शिवाः ।। २० ।।

पुरीमुपरि उपर्युपरिगृहेष्वित्यर्थ: । पिण्डिताः मण्डलीभूताः सन्तः । परिलीयन्ते श्लिष्यन्ति । सन्ध्ये द्वे, अत्यन्तसंयोगे द्वितीया । शिवा: जम्बुका: । उपपन्ना: नगरसमीपं प्राप्ताः ॥ २० ॥

 

क्रव्यादानां मृगाणां च पुरद्वारेषु सङ्घशः

श्रूयन्ते विपुला घोषाः संविस्फूर्जथुनिःस्वनाः ॥ २१

क्रव्यादानां मांसभक्षकाणां । मृगाणां श्वादीनामित्यर्थः । सविस्फूर्जथुनि:स्वना: विस्फूर्जथुः अशनिघोषः तद्रूपस्वनसहिताः ॥ २१ ॥

 

तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम्

रोचते यदि वैदेही राघवाय प्रदीयताम् ॥ २२ ॥

एवमुपस्थितदुर्निमित्तजातस्य प्रायश्चित्तं सीताप्रदानमेवेत्याह – तदेवमिति ॥ तत् दुर्निमित्तदर्शनात् । तत्सूच्ये कार्ये पराजये । एवं लङ्कादहनादिरूपेण प्रस्तुते प्रसक्ते सति । क्षमं अशुभनिवारणसमर्थं । इदं प्रायश्चित्तम् । इदंशब्दार्थमाह – वैदेहीति ॥ २२ ॥

 

इदं च यदि वा मोहाल्लोभाद्वा व्याहृतं मया

तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥ २३ ॥

एवमनभिमतभाषणेन राजा कुप्यतीति समाधत्ते – इदमिति ॥ मोहात् कार्यतत्त्वापरिज्ञानात् । लोभात् जीवनलोभाद्वापि । यदि व्याहृतं । तत्रापि तथापि । मियि दोषं अपराधं । कर्तुं नार्हसि ॥ २३ ॥

 

अयं च दोषः सर्वस्य जनस्यास्योपलक्ष्यते

रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च ॥ २४ ॥

अयं दोषः पूर्वोक्तदुर्निमित्तसूचितोऽनर्थः । सर्वस्योपलक्ष्यते । संबन्धसामान्ये षष्ठी । सर्वेणापि लक्ष्यत इत्यर्थः ॥ २४ ॥

 

श्रावणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः

अवश्यं च मया वाच्यं यदृष्टमपि वा श्रुतम् ॥ २५ ॥

प्रहस्तादिपु विद्यमानेषु भवतैव किमुच्यते तत्राह – श्रावणे चेति । तेषां त्वच्चित्तमात्रानुसारित्वादितिभावः । श्रावणे त्वां प्रति विज्ञापने च । त्वं पुनः कथं वक्तुं प्रगल्भसे तत्राह – अवश्यमिति ॥ भ्रातृत्वादिति भावः ॥ २५ ॥

 

संप्रधार्य यथान्यायं तद्भवान्कर्तुमर्हति ॥ २६ ॥

संप्रधार्येत्यर्धं ॥ यथान्यायं यथा- योग्यं । संप्रधार्य मनस्येव निश्चित्य । तत् संप्रधारितं कार्यं ॥ २६ ॥

 

इति स्म मन्त्रिणां मध्ये भ्राता भ्रातरमूचिवान्

रावणं राक्षसश्रेष्ठं पथ्यमेतद्विभीषणः ॥ २७ ॥

इत्येतदूचिवानित्यन्वयः । ऊचिवान् उक्तवान् । कसुश्च इति लिट: कस्वादेशः ।। २७ ।।

 

हितं महार्थ मृदु हेतुसंहितं व्यतीतकालायतिसंप्रतिक्षमम्

निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ॥ २८ ॥

महार्थं प्रयोजनव्याप्तं । मृदु सान्त्वपूर्वं । हेतुसंहितं युक्तियुक्तं । व्यतीतकालायतिसंप्रतिक्षमं व्यतीतकालः भूतकालः । आयति: भविष्यत्कालः । संप्रति वर्तमानकालः । तत्र क्षमं । अकीर्तिनाशकत्वेन सीतापहरणप्रायश्चित्तत्वेनवाप्यतीत कालक्षमं । सुखवर्धकत्वेन वर्तमानकालक्षमं । धर्मावहत्वेनायतिक्षमं । उपस्थितज्वरः प्राप्तक्रोध इत्यर्थः । प्रसङ्गवान् परिगृहीतार्थेभिनिवेशवान् ॥ २८ ॥

 

भयं न पश्यामि कुतश्चिदप्यहं न राघवः प्राप्स्यति जातु मैथिलीम्

सुरैः सहेन्द्रैरपि सङ्गतः कथं ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥ २९ ॥

भयं भयजनकं पुरुषं । रामो युद्धेन सीतां प्राप्स्यतीति पूर्वं विभीषणोक्तस्य परिहारमाह – सुरैरिति । कथं तिष्ठति स्थास्यति । स्थातुमेव न शक्तः कुतो योत्स्यति कुतस्तरां सीतां प्राप्स्यतीति भावः ॥ २९ ॥

 

तीदमुक्त्वा सुरसैन्यनाशनो महाबलः संयति चण्डविक्रमः

दशाननो भ्रातरमाप्तवादिनं विसर्जयामास तदा विभीषणम् ॥ ३० ॥

राघवं तृणीकृत्य कथमेवमाहेत्याशङ्कय तन्निदानं दर्शयति – इतीति ॥ नाशनः हिंसकः । चण्डविक्रमः उग्रविक्रमः । आप्तवादिनं युक्तवादिनं ॥ ३० ॥

त्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशमः सर्गः ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.