श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवोत्तरशततमः सर्गः
रामरावणयोः समसमरः ॥ १ ॥
ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा ।
सुमहद्वैरथं युद्धं सर्वलोकभयावहम् ॥ १ ॥
द्वैरथं द्वाभ्यां रथाभ्यां प्रवृत्तं युद्धं प्रवृत्तमिति योजना ॥ १ ॥
ततो राक्षससैन्यं च हरीणां च महद्बलम् ।
प्रगृहीतमहरणं निश्रेष्टं समतिष्ठत ॥ २ ॥
निश्चेष्टं समतिष्ठत । युद्धाद्भुतदर्शनकुतूहलादिति भावः ॥ २ ॥
संप्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ ।
व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ॥ ३ ॥
एतदेव विवृणोति द्वाभ्यां – संप्रयुद्धावित्यादि । संप्रयुद्धौ सम्यग्योद्धुमुपक्रान्तौ । कर्मणि क्तः । बलवत् अत्यन्तं व्याक्षिप्तहृदया: युद्धदर्शनसक्तचित्ताः ॥ ३ ॥
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ।
सर्पन्तं प्रेक्ष्य संग्रामं नाभिजग्मुः परस्परम् ॥ ४ ॥
भुजैरित्युपलक्षणे तृतीया ॥ ४ ॥
रक्षसां रावणं चापि वानराणां च राघवम् ।
पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥ ५ ॥
रावणं पश्यतां विस्मिताक्षाणां विकसितनेत्राणां रक्षसां सैन्यं राघवं पश्यतां विस्मिताक्षाणां वानराणां सैन्यं च चित्रमिवाबभौ ॥ ५ ॥
तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ ।
कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत् ॥ ६ ॥
निमित्तानि दुर्निमित्तानि शुभनिमित्तानिचेत्यर्थः कृतबुद्धी निश्चितबुद्धी ॥ ६ ॥
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः ।
धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा ॥ ७ ॥
ततः क्रोधाद्दशग्रीवः शरान्संधाय वीर्यवान् ।
मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ॥ ८ ॥
निश्चयमेवाह -जेतव्यमिति ॥ जयोवश्यंभावीति । मर्तव्यमिति । मरणमवश्यंभावीति । आवश्यकत्वार्थे तव्यः । धृतौ धैर्यवन्तौ ॥ ७-८ ॥
ते शरास्तमनासाद्य पुरन्दररथध्वजम् ।
रथशक्तिं परामृश्य निपेतुर्धरणीतले ॥ ९ ॥
रथशक्तिं रथबलं । परामृश्य । प्राप्य । रथशक्तिप्रघातेन ध्वजमनासाद्य निपेतुरित्यर्थः ॥ ९ ॥
ततो रामोऽभिसंक्रुद्धश्चापमायम्य वीर्यवान् ।
कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे ॥ १० ॥
संप्रचक्रमे उद्युक्तवान् । संकल्पितवानित्यर्थः ॥ १० ॥
रावणध्वजमुद्दिश्य मुमोच निशितं शरम् ।
महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ॥ ११ ॥
असह्यं दुर्दर्शमित्यर्थः ॥ ११ ॥
[ रामश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम् ॥ ]
जगाम स महीं छित्वा दशग्रीवध्वजं शरः ।।
स निकृत्तोपतद्भूमौ रावणस्य रथध्वजः ॥ १२ ॥
सः शरः ध्वजं छित्त्वा जगाम न तु केवलं जगाम ।। १२ ।।
ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ।
[ क्रोधजेनाग्रिना सङ्ख्ये प्रदीप्त इव पावकः ॥ ]
संप्रदीप्तोऽभवत्क्रोधादमर्षात्प्रदहन्निव ॥ १३ ॥
क्रोधादमर्षाच्च प्रदहन्निव प्रदहन्नग्निरिव संप्रदीप्तः ज्वलितः अभवत् ॥ १३ ॥
स रोषवशमापन्नः शरवर्षं महद्वमन् ।
रामस्य तुरगान्दीप्तैः शरैर्विव्याध रावणः ॥ १४ ॥
शरवर्षं वमन् वमन्निवेत्यर्थः ॥ १४ ॥
ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः ।
बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ॥ १५ ॥
तेषामसंभ्रमं दृष्ट्वा वाजिनां रावणस्तदा ।
भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह ॥ १६ ॥
हरयः हरितवर्णाः । इन्द्राश्वत्वादिति भावः ॥ १५ -१६ ॥
गदाच परिघाश्चैव चक्राणि मुसलानि च ।
गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ॥ १७ ॥
गदाश्चेति । मुमोचेत्यनुषज्यते ॥ १७ ॥
मायाविहितमेतत्तु शस्त्रवर्षमपातयत् ।
तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ॥ १८ ॥
धनुषा कथं गदादिमोचनमित्यत्राह – मायेति ॥ शस्त्रवर्षं गदादिवर्षं । मायाविहितं आश्चर्यकरशक्तिकृतं । तुमुलं नानाविधमित्यर्थः ॥ १८ ॥
तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत् ।
विमुच्य राघवरथं समन्ताद्वानरे बले ॥ १९ ॥
नैकशस्त्रमयं अनेकशस्त्रप्रचुरं तद्वर्षं क्रोधातिशयेन प्रयुक्तै रामशरैर्निवारणाल्लक्ष्यभूतं राघवरथं विमुच्य वानरबले अभवत् । तत्रापतदित्यर्थः ॥ १९ ॥
सायकैरन्तरिक्षं च चकाराशु निरन्तरम् ।
सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः ।
मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना ॥ २० ॥
सायकैरित्यादि सार्धश्लोक एकान्वयः ॥ ततः दशग्रीवः अश्रान्तहृदयोद्यमः अविच्छिन्नोत्साहः सन् निःसङ्गेन अव्यासक्तेन अन्तरात्मना मनसा उपलक्षितः सहस्रशो बाणान् मुमोच । सायकैरन्तरिक्षं च निरन्तरं चकार ॥ २० ॥
व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ।
प्रहसन्निव काकुत्स्थ: संदधे सायकाञ्शितान् ॥ २१ ॥
स मुमोच ततो बाणान्रणे शतसहस्रशः ।
तान्दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ॥ २२ ॥
व्यायच्छमानं व्यायच्छन्तं । यत्नं कुर्वन्तं रणे तत्परं सक्तं । प्रहसन्निव संदधे अनायासेन संदधे ॥ २१ – २२ ॥
ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता ।
शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ।
[ चक्राते तो शरौघाभ्यां निरुच्छ्रासमिवांबरम् ] ॥ २३ ॥
शरवर्षेण भास्वत् अम्बरं शरबद्धं द्वितीयमम्बरमिवाभाति स्म ॥ २३ ॥
नानिमित्तोऽभवद्बाणो नातिभेत्ता न निष्फलः ॥ २४ ॥
नानिमित्त इत्यर्धं । अनिमित्तः लक्ष्यविशेषोद्देशरहितः । अतिभेत्ता अपेक्षितप्रमाणा -धिकभेत्ता । निष्फल: लक्ष्ये पतितोपि प्रयोजनाकारी ॥ २४ ॥
अन्योन्यमभिसंहत्य निपेतुर्धरणीतले ।
तथा विसृजतोर्वाणान्रामरावणयोर्मृधे ॥ २५ ॥
तथा विसृजतोः उक्तप्रकारेण विसृजतोः । अत्र बाणा इत्यध्याहार्यं ॥ २५ ॥
प्रायुध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ।
चक्रतुश्च शरौघैस्तो निरुच्छ्वासमिवाम्बरम् ॥ २६ ॥
[ नान्तरं ददृशे किंचित्पश्यद्भिरनिमेषणम् ।
भूमिष्ठैः कपिरक्षोभिः स्वस्थैर्वा देवदानवैः] ॥ २७ ॥
अस्यन्तौ शरान् क्षिपन्तौ । इवशब्दो वाक्यालंकारे । निरुच्छ्रासं उच्छ्रासावकाशरहितं ॥ २६-२७ ॥
रावणस्य हयान्रामो हयान्रामस्य रावणः ।
जघ्नुतुस्तौ तथाऽन्योन्यं कृतानुकृतकारिणौ ॥ २८ ॥
एवं तौ तु सुसंक्रुद्धौ चक्रतुर्युद्धमद्भुतम् ।
मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् ॥ २९ ॥
रावणस्येति । अत्र जघानेति वचनविपरिणामेनानुषज्यते । तौ अन्योन्यं कृतानुकृतकारिणौ कृतप्रतिक्रियाकारिणौ सन्तौ । तथा जघ्नतुः । हय इवान्यत्रापि सारथ्यादौ जघ्नतुरित्यर्थः ॥२८-२९ ॥
प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ ।
ध्वजावपातेन स राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे ॥ ३० ॥
प्रयुध्यमानाविति । यदा बभूवतुरित्युपस्कार्यं ॥ ३० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवोत्तरशततमः सर्गः ॥ १०९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने नवोत्तरशततमः सर्गः ॥ १०९ ॥