11 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशः सर्गः

रावणेन मन्त्रकरणाय सभाप्रवेशः ॥ १ ॥ रावणाज्ञयादूता हूतैराक्षसैर्नानायानैरावण सभाप्रवेशः ॥ २ ॥ रथारोहणेनसभामागतेनविभीषणेन रावणप्रणामपूर्वकं तन्नियोगेनपरमासने समुपवेशनम् ॥ ३ ॥

 

स बभुव कृशो राजा मैथिलीकाममोहितः ।

संमानाच्च सुहृदां पापः पापेन कर्मणाः ॥

अथ परेद्युर्विभीषणाद्युपदेशेतिचिन्ताव्याकुलस्य रावणस्य निर्णयहेतुमन्त्रकरणाय सभाप्राप्तिं दर्शयति —स बभूवेत्यादि ॥ पापः पापी । गुणवचनेभ्यो मतुपो लुगिष्ट: इति मतुपो लुक् । असंमानात् अनादरात् । सुहृदां विभीषणादीनां । कर्तरि षष्ठी । विभीषणोक्ते तूष्णींस्थितत्वेन प्रहस्तादीनामप्यनादरः सिद्ध एव । पापेन कुत्सितेन सीतापहरणरूपेण कर्मणा । हेतौ तृतीया । मैथिलीकाममोहित इति हेतु गर्भविशेषणं । तथाच मैथिलीविषयकाममोहात् सुहृदनादरात् पापहेतुसीताहरणाच्च कृशः । चिन्ताकुलो बभूवेत्यर्थः ॥ १ ॥

[अतीव कामसंपन्नो वैदेहीमनुचिन्तयन् ।]

अतीतसमये काले तस्मिन्वै युधि रावणः ।

अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥

तस्मिन्काले मन्त्रयोग्य काले । अतीतसमये अतीतावसरे सति । युधि च सत्यां युद्धे च प्राप्ते सति । अमात्यैश्च सुहृद्भिश्च मन्त्रस्य प्राप्तकालममन्यत । मुनिहृदयं तु कालेऽतीत समये रावणायुःकालेऽतीते सति । युधि अमात्यादिभिः सहात्मानं । प्राप्तकालं प्राप्तमृत्युं । अमन्यतेति । वै प्रसिद्धौ ॥ २ ॥

 

स हेमजालविततं मणिविद्रुमभूषितम् ।

उपगम्य विनीताश्वमारुरोह महारथम् ॥

हेमजालविततं स्वर्णमयगवाक्षव्याप्तं । स्वर्णसमूहनिर्मितमिति वा । विनीताश्वं शिक्षिताश्वयुक्तं । उपगम्य प्रदक्षिणीकृत्य ॥ ३ ॥

 

तमास्थाय रथश्रेष्ठो महामेघसमस्वनम् ।

प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभां प्रति ॥

सभां मन्त्रशालां ॥ ४ ॥

 

असिचर्मधरा योधाः सर्वायुधधरास्तथा

राक्षसा राक्षसेन्द्रस्य पुरतः सम्प्रतस्थिरे ॥

चर्म खेट: ॥ ५ ॥

 

नानाविकृतवेषाश्च नानाभूषणभूषिताः ।

पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्ततः

ततः रावणालयात् । नानाविकृतवेषा: नानाविधतया विशिष्य कृतालंकाराः । राक्षसा इति शेषः ॥ ६ ॥

 

रथैश्चातिरथा शीघ्रं मतैश्च वरवारणैः ।

नूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥

आक्रीडद्भिः धारामण्डलगमनादिकं कुर्वद्भिः ॥ ७ ॥

 

गदापरिघहस्ताश्च शक्तितोमरपाणयः ।

परश्वधराश्चान्ये तथान्ये शूलपाणयः ॥

अत्र प्रतिपदमन्य इत्यनुषञ्जनीयं । अनुत्पेतुरिति च ॥ ८ ॥

 

ततस्तूर्यसहस्राणां संजज्ञे निःस्वनो महान् ।

तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥

ततः स्वालयात् ॥ ९ ॥

 

स नेमिघोषेण महान्सहसाभिनिनादयन् ।

राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥ १०

नेमिः रथचक्रधारा ॥ १० ॥

 

विमलं चातपत्राणं पगृहीतमशोभत ।

पाण्डरं राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥ ११

विमलमिति । भासा विमलमित्यर्थः ॥ ११ ॥

 

हेमञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ।

चामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥ १२

ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः ।

राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥ १३

हेममञ्जरिगर्भे हेमसूत्रगर्भे । इकारान्तत्वमार्षं । शुद्धस्फटिकविग्रहे शुद्धस्फटिकसदृशाकारे । चामरव्यजने चामररूपव्यजने । सव्यदक्षिणे सव्यदक्षिणयोः । सर्वो द्वन्द्वो विभाषयैकवद्भवति इत्येकवद्भावः ॥ १२-१३ ॥

 

राक्षसैः स्तूयमानः सञ्जयाशीर्भिररिन्दमः

अससाद महातेजाः सभां सुविहितां शुभाम् १४

सुविहितां सुष्टुनिर्मितां ॥ १४ ॥

 

सुवर्णरजतस्थूर्णाम् विशुद्धस्फटिकान्तराम् ।

विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् ॥ १५

ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाशुभाम् ।

प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥ १६

सुवर्णेत्यादिश्लोकद्वयमेकान्वयं ॥ विशुद्धस्फटिकान्तरां निर्मलस्फटिक निर्मित मध्यप्रदेशां । रुक्मपट्टोत्तरच्छदां कनकमयपट्टवस्त्रास्तरणां ॥ १५ – १६ ।।

तस्याम् स वैडूर्यमयं प्रियाकाजिनसम्वृतम् ।

महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥ १७

वैडूर्यमयं वैडूर्यप्रचुरं । प्रियकाजिनसंवृतं प्रियकमृगस्याजिनेन संवृतं । प्रियको लोमभिर्युक्तो मृदूच्चमसृणैर्धनैः इति वैजयन्ती । सोपाश्रयं सावष्टम्भं । सोपधानमिति यावत् ॥ १७ ॥

 

ततः शशासेश्वरवद्दूतान् लघुपराक्रमान् ।

समानयत मे क्षिप्रभिहैतान् राक्षसानिति ॥ १८

कृत्यमस्ति महाज्जातं समर्थ्यमिह नो महत् ।। १९ ।।

ईश्वरवत् राजार्हं । इह सभायां । एतान् एतन्नगरस्थान् । इति शशासेत्यन्वयः । तमेव प्रकारमाह- कृत्यमित्यर्धेन ॥ महद्यथा तथा समर्थ्यं यत्नेन निर्वाह्यं । जातं प्राप्तं । महत्कृत्यमस्तीति शशास । महद्भ्यो रामादिभ्यो जातमिति वा । महदित्यनेन तदानीं चारमुखेन रामादेः समुद्रतीरगमनं रावणो ज्ञातवानितिगम्यते ॥ १८-१९ ॥

 

राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः

अनुगेहमवस्थाय विहारशयनेषु च ।

उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ २०

ते रथान् रुचिरानेके दृप्तानेके पृथग्घयान् ।

नागनन्येऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥ २१

राक्षसा इत्यादि सार्धश्लोकः । विहरमाणानीति शेषः । विहारो विहारस्थलं । विहारादिषु आस्थाय विहरमाणानि रक्षांसि । अभीतवत् अभीताः । चोदयन्तः चोदनार्थं लङ्कायामनुगेहं परिचक्रमुरित्यन्वयः ।। २० – २१ ।।

 

सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।

सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवामबरम् ॥ २२

गरुमद्भिः पक्षिभिः ॥ २२ ॥

 

ते वाहनान्यवस्थाप्य यानानि विविधानि च ।

सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥ २३

वाहनानि शिबिकादीनि । यानानि अश्वादीनि । अवस्थाप्य बहिर्निक्षिप्य  ।। २३ ।।

 

राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।

पीठेष्वन्ये वृसीष्वन्ये भूमौ केचिदुपाविशन् ॥ २४

अन्ये पुरोहितादयः । पीठेषु सुवर्णादिकृतासनेषु । अन्ये श्रोत्रियाः । वृसीषु दर्भमयासनेषु । केचित्पुत्रादयः । भूमौ सामान्यास्तरणमात्रयुक्तायां भूमौ ॥ २४ ॥

 

ते समेत्य सभायां  वै राक्षसा राजशासनात् ।

यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ २५

क्रियाभेदात्तच्छब्दद्वयं । उपतस्थुः समीपे तस्थुः । यथार्हं यथाक्रमम् ॥ २५ ॥

 

मन्त्रिणश्च यथा मुख्या निश्चितार्थेषु पण्डिताः

अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः

समीयुस्तत्र शतशः शूराश्च बहवस्तथा ।। २६ ।।

मन्त्रिणश्चेत्यादिसपादश्लोकः ॥ यथा यथाक्रमं । यथामुख्या इत्येकंपदं वा । मुख्याननतिक्रम्य स्थिताः । अनव्ययत्वमार्षं । निश्चयार्थेषु अर्थनिश्चयेषु । अमात्याः कर्मणि सहायाः । मन्त्रिणः बुद्धिसहायाः । यद्वा अमा सह तिष्ठन्तीत्यमात्याः । अव्ययात्त्यप् । आप्ता इत्यर्थः । बुद्धिदर्शनाः । बुद्धिचक्षुषः शूरा इत्युत्तरशेषः । अन्यथा क्रियापदपौनरुक्त्यं ॥ २६ ॥

 

सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै

रम्यायां राक्षसेन्द्रस्य सभेयुस्तत्र सङ्घशः ।

[राक्षसा राक्षसश्रेष्ठं परिवार्योपतस्थिरे] २७

सुखाय क्षेमाय । क्षेमं विचारयितुं । क्रियार्थोपपदस्य इत्यादिना चतुर्थी ॥ २७ ॥

 

ततो महात्मा विपुलम् सुयुग्यम् रथम् वरम् हेमविचित्रिताङ्गम् ।

शुभम् समास्थाय ययौ यशस्वी विभीषणः सम्सदमग्रजस्य ॥ २८

युग्याः अश्वाः । युगं वहन्तीति तद्वहति रथयुगप्रासङ्गम् इति यत् ॥ २८ ॥

 

स पूर्वजायावरजः शशम्स नामाथ पश्चाच्चरणौ ववन्दे ।

शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हम् पृथगासनानि ॥ २९

नाम शशंस । अभिवादनमकरोदित्यर्थः । शुकः प्रहस्तश्चेति । ववन्दाते इत्यर्थः ।। २९ ।।

 

सुवर्णनानामणिभुषणानाम् सुवाससाम् सम्सदि राक्षसानाम् ।

तेषाम् परार्ध्यागुरुचन्दनानाम् स्रजश्च गन्धाश्च ववुः समन्तात् ॥ ३०

स्रजश्च गन्धाः स्रजां गन्धाः ॥ ३० ॥

 

न चुक्रुशुर्नानृतमाह कश्चित्सभासदो नैव जजल्पुरुच्चैः ।

सम्सिद्धार्थः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते ॥ ३१

न चुक्रुशुः न घोषं चक्रुः । न जजल्पुः नाक्रमोक्तीश्चक्रुः । सभासदः सभागताः । संसिद्धेत्यर्धे वृत्तभेदश्चिन्त्यः ॥ ३१ ॥

 

स रावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी ।

तप्याम् सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तः ॥ ३२

समितौ सङ्घे सङ्घ सभायां समितिः इत्यमरः । सभायां आस्थानमण्डपे ॥ ३२ ॥

त्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशः सर्गः ॥ ११

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.