श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तदशोत्तरशततमः सर्गः
हनुमन्मुखात्सीतायाः स्वमुखावलोकनाभिलाषंनिवेदितेनरामेण विभीषणंप्रति स्नातालंकृतायाः सीतायाः स्वसमीपनयनचोदना ॥ १ ॥ विभीषणेन सीतायाः शिबिकारोपणेनरामसमीपप्रापणावसरे सरणिगतवानरगणदूरापसारणे तंप्रतिरामेण सरोषोपालम्भं पादचारेणसीतानयनचोदना ॥ २ ॥ तथासमागतयासीतया सुहृद्गणमध्यगत श्रीरामचन्द्रमुखावलोकनेन हर्षाधिगमः ॥ ३ ॥
स उवाच महाप्राज्ञमभिगम्य लवङ्गमः ।
रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ॥ १ ॥
अथ सीतानयनं स उवाचेत्यादि ॥ १ ॥
यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः ।
तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि ॥ २ ॥
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा ।
मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ॥ ३ ॥
आरम्भः उद्योगः । कर्मणां सेतुबन्धादिव्यापाराणां । फलोदयः रावणविजयश्च यन्निमित्तः यस्याः सीताया लाभार्थ: । तां द्रष्टुमर्हसि ॥ २ – ३ ॥
पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया ।
भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ॥ ४ ॥
पूर्वकात् पूर्वोत्पन्नात् । प्रत्ययात् विश्वासात् ॥ ४ ॥
एवमुक्तो हनुमता रामो धर्मभृतां वरः ।
अगच्छत्सहसा ध्यानमीषद्वाष्पपरिप्लुतः ॥ ५ ॥
रामः ईषद्वाष्पपरिप्लुतः सन् सहसा ध्यानमागच्छत् । रावणभवनोषितसीतापरिग्रहे महान् लोकापवादो भवेत् निर्दोषायास्तस्याः परित्यागे महान् दोषः स्यादित्येवं कार्यदौरथ्यात् किं कर्तव्यमिति चिन्तयामासेत्यर्थः ॥ ५ ॥
दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन् ।
उवाच मेघसंकाशं विभीषणमुपस्थितम् ॥ ६ ॥
निःश्वासदैर्येण चिन्तादैर्घ्यं गृह्यते । औष्ण्येन कथं क्लिष्टां तां पुनः क्लेशयिष्यामीत्यन्तस्तापो व्यज्यते । भूमिं समवलोकयन्निति चिन्तापारवश्याभिनयः । मेघसंकाशमित्यनेन सीतानयने कृतत्वरत्वमुच्यते ॥ ६ ॥
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् ।
इह सीतां शिरस्नातामुपस्थापय मा चिरम् ॥ ७ ॥
दिव्याङ्गरागामिति । अलंकृत्यानयनादेश: उत्तरकालिकपरुषभाषणार्हताप्रतिपादनाय । नहि तादृशदशापन्नां दीनां परुषं भाषितुं युज्यते । तच्च तस्या न परित्यागार्थं किंतु चतुर्मुखादिदेवतामुखेन तस्याः पातिव्रत्यं ख्यापयितुं । मा चिरं बिलम्बो न कार्य इत्यर्थः ॥ ७ ॥
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः ।
प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ॥ ८ ॥
[ ततः सीतां महाभागां दृष्ट्वोवाच विभीषणः ।
मूर्ध्नि बद्धाञ्जलिः श्रीमान्विनीतो राक्षसेश्वरः ॥ ९ ॥]
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।
यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥ १० ॥
एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् ।
अस्त्राता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ॥ ११ ॥
एवमित्यादिश्लोकद्वयमेकान्वयं । स्वाभिः स्त्रीभिरचोदयत् निजस्त्रीमुखेनाचोदयत् ॥ ८-११ ॥
तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः ।
यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ॥ १२ ॥
प्रत्युवाच स्त्रीमुखेनेति शेषः । यथानियोगं कर्तव्यत्वे हेतुद्वयम् – राजा भर्तेति ॥ १२ ॥
तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता ।
भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ॥ १३ ॥
ततः सीतां शिरःस्नातां युवतीभिरलंकृताम् ।
महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ॥ १४ ॥
आरोग्य शिबिकां दीप्तों परार्ध्याम्बरसंवृताम् ।
रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥ १५ ॥
अङ्गीकारेहेतुद्वयं भर्तृदेवता भर्तृभक्तिप्रतेति ॥ १३ – १५ ॥
सोभिगम्य महात्मानं ज्ञात्वाऽपि ध्यानमास्थितम् ।
प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् ॥ १६ ॥
ज्ञात्वापि विभीषणागमनं विदित्वापि । अनेन चिन्तानुवृत्तिरुक्ता ॥ १६ ॥
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् ।
हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ।। १७ ।।
तामिति । रावणवधपूर्वकसीतागमेन हर्षः । रावणभवनोषितत्वेन दैन्यं रोषश्च । अत्र रोषो भाविशपथोपयोगित्वादारोपित इति द्रष्टव्यं ॥ १७ ॥
ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् ।
विभीषणमिदं वाक्यमहृष्टं राघवोऽब्रवीत् ॥ १८ ॥
राक्षसाधिपते सौम्य नित्यं मद्विजये रत ।
वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु ॥ १९ ॥
सविमर्शं विचारयन् सवितर्क चिन्तयन् । अष्टमिति क्रियाविशेषणं शेषणं वा ॥ १८-१९ ॥
स तद्वचनमाज्ञाय राघवस्य विभीषणः ।
तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ॥ २० ॥
उत्सारणे जननिवारणे ॥ २० ॥
कञ्चुकोष्णीषिणस्तत्र वेत्रजर्जरपाणयः ।
उत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः ॥ २१ ॥
कञ्चुकेति । कञ्चुकं वारबाणं । उष्णीषं शिरोवेष्टनं । वेत्रेण जर्जरा: सदावलम्बनजनितपारुष्याः पाणयो येषां ते ॥ २१ ॥
ऋक्षाणां वानराणां च राक्षसानां च सर्वशः ।
वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्तदा ॥ २२ ॥
उत्ससृजुः अपचक्रमुः ॥ २२ ॥
तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः ।
वायुनोद्वर्तमानस्य सागरस्येव निस्स्वनः ॥ २३ ॥
उद्वर्तमानस्य उज्जृम्भमाणस्य ॥ २३ ॥
उत्सार्यमाणांस्तान्दृष्ट्वा समन्ताज्जातसंभ्रमान् ।
दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ॥ २४ ॥
दाक्षिण्यात् वानरेषुदाक्षिण्यात् । अमर्षात् उत्सारणासहनात् ॥ २४ ॥
संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव ॥
विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ॥ २५ ॥
किमर्थं मामनादृत्य क्लिश्यतेऽयं त्वया जनः ।
निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम ॥ २६ ॥
चक्षुषा प्रदहन्निवेति लोचनाभ्यां पिबन्निवेत्युक्तादरपात्रभूतस्य विभीषणस्यैवं विधदर्शनविषयताकरणं स्वजननिग्रहासहिष्णुत्वात् । सीताविषयसमारोपितरोषविशेषाद्वा ॥ २५-२६ ॥
न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः ।
नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ॥ २७ ॥
तिरस्क्रिया: तिरस्करिण्य: । राजसत्कारा: उत्सारणादिकं । वृतं आचारः ॥ २७ ॥
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे ।
न क्रतौ न विवाहे च दर्शनं दुष्यति स्त्रियाः ॥ २८ ।।
व्यसनेषु इष्टजनवियोगेषु । कृच्छ्रेषु राज्यक्षोभादिषु । युद्धे युद्धभूमौ ॥ २८ ॥
सैषा युद्धगता चैव कृच्छ्रे च महति स्थिता ।
दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः ॥ २९ ॥
[ विसृज्य शिबिकां तस्मात्पद्भ्यामेवापसर्पतु ।
समीपे मम वैदेहीं पश्यन्त्वेते वनौकसः ] ॥ ३० ॥
तदानय समीपं मे शीघ्रमेनां विभीषण ।
सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ॥ ३१ ॥
कृच्छ्रे वक्ष्यमाणाग्निप्रवेशे ।। २९ – ३१ ॥
एवमुक्तस्तु रामेण सविमर्शो विभीषणः ।
रामस्योपानयत्सीतां सन्निकर्षं विनीतवत् ।। ३२ ।।
ततो लक्ष्मणसुग्रीवौ हनुमांच प्लवङ्गमः ।
निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ॥ ३३ ॥
सविमर्शः कृच्छ्रशब्दप्रयोगात्साशङ्कः ॥ ३२-३३ ॥
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः ।
अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ॥ ३४ ॥
व्यथायां हेतुमाह—कलत्रेति ॥ ३४ ॥
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली ।
विभीषणेनानुगता भर्तारं साऽभ्यवर्तत ॥ ३५ ॥
सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ।
रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ॥ ३६ ॥
अवलीयन्ती संकुचन्ती ॥ ३५-३६ ॥
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता ।
उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ॥ ३७ ॥
विस्मयात् अघटितरामपुनदर्शनाद्विस्मयः । प्रियस्य दर्शनेन प्रहर्षः । स्नेहः स्वाभाविकः । उदीक्षणकालिकमुखप्रसादमाह – सौम्येति ॥ ३७ ॥
अथ समपनुदून्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ।
वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदानीम् ॥ ३८ ॥
उदितपूर्णचन्द्रेत्यनेन कोपरक्तत्वमुक्तं । विमलशशाङ्केत्यनेन उत्तरकालिकक्षय: सूच्यते ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥