128 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः

भरद्वाजाश्रमस्थेनरामेण हनुमन्तंप्रति गुहेस्वागमननिवेदनचोदनयासह नन्दिग्रामगंभरतं -प्रति स्वागमननिवेदनादिचोदना ॥ १ ॥ हनुमता गुहभरतयोः श्रीरामसंदेशनिवेदनम् ॥ २ ॥

 

अयोध्यां तु समालोक्य चिन्तयामास राघवः ।

चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ॥ १ ॥

अथ भरतं प्रति हनुमत्प्रेषणमष्टाविंशत्युत्तरशततमे-अयोध्यां त्विति ॥ अर्धमेकं वाक्यं । समालोक्य समालोच्येत्यर्थः । आश्रमस्थस्य तदवलोकनासंभवात् । चिन्तयामास । कर्तव्यमिति शेषः ॥ १ ।।

जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे ॥ २ ॥

जानीहीत्यर्धं ।। नृपतिमन्दिरे जनः मात्रादिः ॥ २ ॥

 

शुङ्गिवेरपुरं प्राप्य गुहं गहनगोचरम् ।

निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ॥ ३ ॥

गहनगोचरं वनचारिणं ॥ ३ ॥

 

श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ।

भविष्यति गुहः प्रीतः स ममात्मसमः सखा ॥ ४ ॥

गुहाय निवेदनस्य प्रयोजनमाह – श्रुत्वा त्विति ॥ विगतज्वरं मद्विश्लेषचिन्ताज्वररहितं यथा तथा भविष्यतीति क्रियाविशेषणं । आत्मसमः हीनजातिमनवेक्ष्य प्रेमातिशयेन गुहमिक्ष्वाकुकुलीनममन्यत ॥ ४ ॥

 

अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ।

निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ॥ ५ ॥

प्रवृत्तिं वृत्तान्तं ॥ ५ ॥

 

भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ।

सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ॥ ६ ॥

सिद्धार्थ निर्व्यूढपितृवचनपरिपालनरूपप्रयोजनं ॥ ६ ॥

 

हरणं चापि वैदेह्या रावणेन बलीयसा ।

सुग्रीवेण च संसर्गं वालिनश्च वधं रणे ॥ ७ ॥

हरणमित्यादिश्लोकपञ्चकमेकान्वयं ॥ रणे सुग्रीववालिनोर्युद्धे । वालिनो वध इत्यर्थः ॥ ७ ॥

 

मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ।

लङ्घयित्वा महातोयमापगापतिमव्ययम् ॥ ८ ॥

यथा चेति । महातोयं अव्ययं । आपगापतिंलङ्घयित्वा त्वया सीता यथा अधिगता तथा शंसेत्यन्वयः ॥ ८ ॥

 

उपयानं समुद्रस्य सागरस्य च दर्शनम् ।

यथा च कारितः सेतू रावणश्च यथा हतः ॥ ९ ॥

समुद्रस्योपयानं समुद्रं प्रति गमनमित्यर्थः । संबन्धसामान्ये षष्ठी । समीपयानं वा । सागरस्य समुद्रराजस्य ॥ ९ ॥

 

वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ।

महादेवप्रसादाच्च पित्रा मम समागमम् ॥ १० ॥

ब्रह्मणा वरुणेन चेति सहार्थे तृतीया । अनेन महेन्द्रेण वानरसमुत्थापनरूपवरप्रदाने ब्रह्माद्यनुमतिरस्तीति द्योतितं । पित्रा मम समागममित्येतदन्तस्य शंसेति पूर्वेण संबन्धः ॥ १० ॥

 

उपयातं च मां सौम्य भरतस्य निवेदय ।

सह राक्षसराजेन हरीणां प्रवरेण च ॥ ११ ॥

उपयातमिति । अन्यथा चतुर्थ्यामेव चतुर्दशवर्षातिक्रमात् सोग्निं प्रविशेदिति भावः । सौम्येत्यनेन मन्दं मन्दं कथय । अन्यथा हठान्मदागमनश्रवणे हर्षोस्य उन्मस्तको भवेदिति भावः ॥ ११ ॥

 

एतच्छ्रुत्वा यमाकारं भजते भरतस्तदा ।

स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति ॥ १२ ॥

त्वमेव राज्यं पालयेति मयोक्ते भरतस्तदङ्गीकरोति न वेति तदाकारस्त्वया ज्ञातव्य इत्याह – एतच्छ्रुत्वेति ॥ एतत् उपयानं । आकारं मुखप्रसादादिकं । मां प्रति यत् इङ्गितचेष्टादिकं ॥ १२ ॥

 

जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशः ।

उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ १३ ॥

ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि च ।

तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ॥ १४ ।।

जित्वा शत्रुगणानित्यादिश्लोकद्वयमेकान्वयं ॥ एतच्छ्लोकान्ते इत्युक्त्वेत्यध्याहर्तव्यं । ज्ञेया इति श्लोकेन पूर्वोक्तमेव विशेष्यते । तत्त्वेनेत्यस्य ज्ञेया इत्यनेन संबन्धः । अत्रापि पूर्ववद्राज्यं पालयेति मदुक्तिं भरतः किमङ्गीकरोतीति परीक्षस्वेतिभावः । अन्यथा भरतप्रकृते: रामप्रकृतेश्च विरुद्धं स्यात् । यावेवमूचतु: । न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः इति यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ ।। शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति इति च ॥ १३ – १४ ॥

 

सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम् ।

पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥ १५ ॥

ननु किं परीक्षणीयं सर्वस्यापि राज्याधिपत्यकाङ्क्षित्वादित्याशङ्क्याह – सर्वेति ॥ पितृपितामहशब्दौ कुलपरम्परोपलक्षकौ । पितृपितामहेभ्य आगतं । उत्तरपद वृद्धिरार्षी । नावर्तयेत् नाकर्षेत् । कस्य भरतादन्यस्यैवेत्यर्थः ॥ १५ ॥

 

संगत्या भरतः श्रीमान्रांज्यार्थी चेत्स्वयं भवेत् ।

प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः ॥ १६ ॥

एवं भरतेङ्गिते ज्ञाते तव किं कर्तव्यमित्यत्राह – संगत्येति । संगत्या अस्मत्संगत्या । यद्यपि पूर्वं सर्वात्मना न राज्यपालनमङ्गीकरोमीत्युक्तं । तथापि चतुर्दशवर्षपर्यन्तं मद्विरहातुरतया मद्दर्शनजहर्षप्रकर्षातिरेकेण त्वमभिषिक्तो भवेति मदुक्तिमङ्गीकरिष्यति किमिति भावः । भरतः मत्प्रीत्यर्थं पूर्वं राज्यभारमङ्गीकृतवान् खलु । स्वयं श्रीमान् स्वाभाविकपारतन्त्र्यश्रीमान् । भवेदित्याशंसायां लिङ् । प्रशास्तु वसुधां कृत्स्नां । तातो मदभिषेकसंभ्रमं न लब्धवान् । अहं तु भरताभिषेकमहोत्सवमनुभवेयं । अतएव ह्ययोध्याकाण्डेपि शनैर्जगाम सापेक्ष इत्युक्तं । भरताभिषेकदर्शनसापेक्ष इत्यर्थः । अखिलां खिलरहितां । समृद्धजनामित्यर्थः । कथमसौ भरणक्षम इत्यत्राह – रघुनन्दन इति । त्रैलोक्यभरणक्षमकुलोद्भूत इत्यर्थः ॥ १६ ॥

 

तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ।

यावत्र दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ॥ १७ ॥

बुद्धिं मत्सन्निधाने कथंचिद्राज्यमङ्गीकरिष्यतीति बुद्धिं व्यवसायं सर्वात्मना नाङ्गीकरिष्यतीति व्यवसायं च ज्ञात्वा अङ्गीकरिष्यति चेदस्माद्देशाद्यावद्दूरं न याताः स्म तावदागन्तुमर्हसि । अन्यथा नागच्छेति भावः । अत एव हनुमानपि तस्य व्यवसायं ज्ञात्वा नागतवानिति ज्ञेयं । केचित्तु भरतभावज्ञोपि रामः सर्वात्मना सुरक्तोपि राज्ञा परीक्षणीय इति लोके राजनीतिप्रवर्तनायैवमतिशङ्कावचनमुक्तवान् । वस्तुतः स्वस्य झटिति गमने भरतस्य हर्ष उन्मस्तको भवेदिति । तस्मात्सत्त्वाय हनुमन्तं प्रेषितवान् । तदाशयज्ञो हनुमानपि रामागमनमुक्त्वा भरतेन सहैवागतवानित्याहुः ॥ १७ ॥

 

इति प्रतिसमादिष्टो हनुमान्मारुतात्मजः ।

मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ ॥ १८ ॥

प्रतिसमादिष्टः प्रतिकूलं समादिष्टः । अहृदयं समादिष्ट इत्यर्थः । ययौ यातुमुद्युक्तः ॥ १८ ॥

 

अथोत्पपात वेगेन हनुमान्मारुतात्मजः ।

गरुत्मानिव वेगेन जिघृक्षन्भुजगोत्तमम् ॥ १९ ॥

अथ उद्योगानन्तरं । वेगेन जिघृक्षन्नित्यन्वयः ॥ १९ ॥

 

लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ।

गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च ॥ २० ॥

शृङ्गरपुरं प्राप्य गुमासाद्य वीर्यवान् ।

स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् ॥ २१ ॥

सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः ।

सहसीतः ससौमित्रिः स त्वां कुशलमब्रवीत् ॥ २२ ॥

लङ्घयित्वेत्यादिश्लोकद्वयमेकान्वयं ॥ पितृपथं स्वपितृपथं । वायुमार्गमित्यर्थः । भुजगेन्द्रालयमिति गङ्गायमुनासंगमविशेषणं ।। २० – २२ ।।

 

पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ।

भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ॥ २३ ॥

पञ्चमीं पञ्चमीसंबन्धिनीं । अद्य रजनीं एतां रजनीं । उषित्वा । निर्गतमिति शेषः । भरद्वाजाभ्यनुज्ञातं । प्रातरिति शेषः । अद्यैव अचिरेणैव ॥ २३ ॥

 

एवमुक्त्वा महातेजाः संग्रहृष्टतनूरुहः ।

उत्पपात महावेगो वेगवान विचारयन् ॥ २४ ॥

संप्रहृष्टतनूरुहः । सकललोकानन्दकारिरामप्रत्यागमनं मया श्रावयितव्यं लब्धमित्यस्माद्धेतोरिति भावः । महावेग: महावेगस्वभावः । वेगवान् तादात्विकवेगवान् । अविचारयन् मार्गस्थवनगिरिनदीसौन्दर्यादिकमगणयन्निति भावः ॥ २४ ॥

 

सोपश्यद्रामतीर्थे च नदीं वालुकिनीं तथा ।

गोमतीं तां च सोपश्यद्भीमं सालवनं तथा

प्रजाश्च बहुसाहस्राः स्फीताञ्जनपदानपि ॥ २५ ॥

सोपश्यदित्यादिसार्धश्लोकमेकं वाक्यं ॥ रामतीर्थं परशुरामतीर्थं । तां प्रसिद्धां । प्रजाः कोसलजनपदस्थाः ॥ २५ ॥

 

स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ।

आससाद द्रुमान्फुल्लान्नन्दिग्रामसमीपगान् ॥ २६ ॥

स्त्रीभिः सैपुत्रैर्वृद्धैश्च रममाणैरलंकृतान् ।

सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् ॥ २७ ॥

स गत्वेत्यादिश्लोकद्वयमेकान्वयं ॥ फुल्लान् फुल्लपुष्पान् । स्त्रीभिः सपुत्रैर्वृद्धैश्च । स्त्रीवालवृद्धाविशेषेण सर्वेषामानन्दकरत्वादिति भावः । सुराधिपस्य उपवने नन्दनवने चैत्ररथे च स्थितान् द्रुमान् यथा तत्सदृशानित्यर्थः ॥ २६-२७ ॥

 

क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ।

ददर्श भरतं दीनं कृशमाश्रमवासिनम् ॥ २८ ॥

क्रोशमात्रे वित्यादिश्लोकपञ्चकमेकान्वयं ॥ क्रोशमात्रे घटिकाद्वयमात्रे घटिकाद्वयगन्तव्यभूमौ । क्रोशलक्षणमुक्तं ज्यौतिषदर्पणे – यवोदरैरङ्गुलमष्टसंख्यैर्हस्तोङ्गुलै: पङ्गुणितैश्चतुर्भिः । हस्तैश्चतुर्भिर्भवतीह दण्ड: क्रोशः सहस्रद्वितयेन तेषां इति । दीनं रामादर्शनेन ॥ २८ ॥

 

जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ।

फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ।। २९ ।।

दान्तं बहिरिन्द्रियनिग्रहशालिनं ॥ २९ ॥

 

समुन्नतजटाभारं वल्कलाजिनवाससम् ।

नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् ॥ ३० ॥

समुन्नतजटाभारमिति ॥ पूर्वं जटावत्वोक्ति: अत्र तद्भारस्य समुन्नतत्वोक्तिरिति वैषम्यं । वल्कलाजिनवाससमित्युक्त्तरीयोक्तिः । अतश्चीरकृष्णाजिनाम्बरमित्यनेन न पुनरुक्ति: । नियतं नियतवाचं । भावितात्मानं ध्यातात्मानमिति मनोनियमोक्तिः ॥ ३० ॥

 

पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् ।

चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ॥ ३१ ॥

ते पूर्वं रामेण दत्ते । चातुर्वर्णस्य चतुर्वर्णरूपस्य | स्वार्थे ष्यञ् । लोकस्य जनस्य ॥ ३१ ॥

 

उपस्थितममात्यैश्च शुचिभित्र पुरोहितैः ।

बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ॥ ३२ ॥

युक्तैः सन्नद्धैः । योग: सन्नहनोपायध्यानसङ्गतियुक्तिषु इत्यमरः ।। ३२ ।।

 

न हि ते राजपुत्रं सं चीरकृष्णाजिनाम्बरम् ।

परि भोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम् ॥ ३३ ॥

भ्रातृवियोगाद्भरतस्य वल्कलादिधारणमस्तु अमात्यादीनां तत् किंनिमित्तमित्याशंक्य तत्र कारणमाह – न हीति ॥ राजपुत्रं भरतं परिवर्जयित्वा भोक्तुं समीचीनवस्त्राभरणादीन्यनुभवितुं न व्यवस्यन्ति व्यवसायं न कुर्वन्ति । अपपरी वर्जने इति परेः कर्मप्रवचनीयसंज्ञा । आचार्या: प्राहुः परि परितो वर्तमाना अपि पौरा: । भरतं भोक्तुं अनुभवितुं । द्रष्टुमिति यावत् । न व्यवस्यन्ति व्यवसायं न कुर्वन्ति । तद्दर्शेने निराशा भवन्तीत्यर्थः । तत्र हेतुमाह – राजपुत्रमिति । रामविरहानन्तरक्षणे मृतस्य पुत्रः खल्वयं । अद्य रामानागमने किमयमस्मामिर्लभ्यत इति भावः । हेवन्तरमाह – धर्मवत्सलं धर्मार्थतया स्वात्मत्यागे पितृसदृशमित्यर्थः । चतुर्दशे वर्षे पूर्णेपि रामागमना दर्शनात् प्राणत्यागे व्यवसितं भरतमालोकयतां पौराणां खेदातिशयोनेन श्लोकेन सूच्यते ॥ ३३ ॥

 

तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम् ।

उवाच प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ॥ ३४ ॥

वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ।

अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ॥ ३५ ॥

देहवन्तमपरं धर्ममिव स्थितं । द्वितीय इवशब्दो वाक्यालंकारे ॥ ३४-३५ ॥

 

प्रियमाख्यामि ते देव शोकं त्यक्ष्यसि दारुणम् ।

अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥ ३६ ॥

संगतः भविष्यसीति शेषः । अत्रापरिचितत्वाद्भरतं हनुमान्नावन्दत । यद्वा प्राञ्जलिरिति पदं वन्दनपूर्वकाञ्जलिपरं । अथवा भरतदशादर्शनेन प्रियाख्याने क्षणविलम्बेपि प्राणहानिशङ्कया सति कुड्य इति न्यायेन वन्दनोद्देश्यवस्तुनि शीर्यमाणे किं वन्दनेनेति तदुज्जीवकं प्रियाख्यानमेवाकरोत् । यद्वा तद्दशादर्शनेन स्वरूपं विसस्मार ॥ ३६ ॥

 

निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ।

उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ ३७ ॥

समृद्धार्थ : संपूर्णमनोरथः ॥ ३७ ।।

 

लक्ष्मणश्च महातेजा वैदेही च यशस्विनी ।

सीता समग्रा रामेण महेन्द्रेण यथा शची ॥ ३८ ॥

समग्रा संपूर्णमनोरथा । उपयात इति शेषः ॥ ३८ ॥

 

एवमुक्तो हनुमता भरतो भ्रातृवत्सलः ।

पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ॥ ३९ ॥

ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ।

हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ॥ ४० ॥

हृष्टः पपात हर्षान्मोहं जगामहेत्यनेन वार्ताश्रवणमात्रेणैतादृशावस्थे भरते झटिति रामागमने कावस्था भवेदिति ऋषिर्विस्मयते ॥ ३९-४० ॥

 

अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य संभ्रमात् ।

सिषेच भरतः श्रीमान्विपुलैरास्रबिन्दुभिः ॥ ४१ ॥

भरतः कपिमालिङ्ग्य । अशोकजैः शोकजभिन्नैः । प्रीतिमयैः आनन्दजैरित्यर्थ: । विपुलै: गुरुभिः ॥ ४१ ॥

 

देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ।

प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ ४२ ॥

गवां शतसहस्रं च ग्रामाणां च शतं परम् ।

सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ॥ ४३ ॥

हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ।

सर्वाभरणसंपन्नाः संपन्नाः कुलजातिभिः ॥ ४४ ॥

देवो वेत्यादिश्लोकत्रयमेकान्वयं ॥ परिगृहीतमनुष्यदेहेपि हनुमति तेजोविशेषात्संशयः । अनुक्रोशात् दयया प्रियं ब्रुवतस्ते प्रियाख्यानस्य प्रियवचनस्य पारितोषिकत्वेन गवादिकं ददामि । भार्याः भरणार्हाः । कन्या: अनूढाःस्त्रियः ॥ ४२–४४ ॥

 

निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदद्भुतोपमम् ॥

ग्रहर्षितो रामदिदृक्षयाऽभवत्पुनश्च हर्षादिदमब्रवीद्वचः ॥ ४५ ॥

रामदिदृक्षया उपलक्षितो भरतः । अद्भुता उपमा यस्य तत् अद्भुतोपमं । निरुपममित्यर्थः । तद्रामगमनं । कपिप्रवीरस्य कपिप्रवरात् निशम्य । नटस्य शृणोतीतिवत्पष्ठी । प्रहर्षितोभवत् ॥ ४५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः ॥ १२८ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टाविंशत्युत्तरशततमः सर्गः ॥ १२८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.