129 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशदुत्तरशततमः सर्गः

हनुमता भरतप्रश्नेनतंप्रति रामस्यनगरनिर्गमप्रभृतिपुनर्भरद्वाजाश्रमागमनावधिकालमध्य -वृत्ततदीयसर्ववृत्तान्त निवेदनम् ॥ १ ॥

बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् ।

शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥ १ ॥

कल्याणीत गाथेयं लौकिकी प्रतिभाति मे ।

एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ २ ॥

बहूनीत्यादिश्लोकद्वयमेकान्वयं ॥ बहूनि वर्षाणि वनं गतस्येति संबन्धः । वर्षशतादपीत्यत्रेतिकरणं द्रष्टव्यं । वर्षशतात्परमिति शेषः ॥ १-२ ॥

 

राघवस्य हरीणां च कथमासीत्समागमः ।

कस्सिन्देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ॥ ३ ॥

राघवस्येति । अत्र वानरसमागमप्रश्नेन पूर्वं भरतः सामान्यतो वानरसेनासन्नाहं श्रुतवानिति गम्यते । किमाश्रित्य किं प्रयोजनमवलम्ब्य ॥ ३ ॥

 

स पृष्टो राजपुत्रेण वृस्यां समुपवेशितः ।

आचचक्षे ततः सर्वं रामस्य चरितं वने ॥ ४ ॥

बृस्यां तपस्विसमुचितासने । व्रतिनामासनं बृसी इत्यमरः ॥ ४ ॥

 

यथा प्रव्राजितो रामो मातुर्दत्तो वरस्तव ।

यथा च पुत्रशोकेन राजा दशरथो मृतः ॥ ५ ॥

यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो ।

त्वयाऽयोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ।। ६ ।।

चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शन ।

निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम् ॥ ७ ॥

स्थितेन राज्ञो बचने यथा राज्यं विसर्जितम् ।

आर्यस्य पादुके गृह्य यथाऽसि पुनरागतः ॥ ८ ॥

सर्वमेतन्महाबाहो यथावद्विदितं तव ।

त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे ॥ ९ ॥

वक्ष्यमाणवृत्तान्ते प्रामाण्यसिद्धये तत्पूर्ववृत्तं संग्रहेणानुवदति – यथेत्यादिना ॥ अत्र यथेत्यस्य येन प्रकारेणेत्यर्थः । मातुः मात्रे राज्येन निमन्त्रित इत्यन्वयः । अमित्रकर्शनेत्यनेन राज्यकरणसामर्थ्यं स्वस्यसत्यपि ज्येष्ठानुवृत्त्यर्थं निमन्त्रित इति गम्यते ॥ ५-९ ॥

 

अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम् ।

परिद्यूनमिवात्यर्थं तद्वनं समपद्यत ॥ १० ॥

समुद्भान्तेति । अपूर्वपुरुषदर्शनेनेति भावः । परिद्यूनं परितप्तं ॥ १० ॥

 

तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगायुतम् ।

प्रविवेशाथ विजनं सुमहद्दण्डकावनम् ॥ ११ ॥

तेषां पुरस्ताद्बलवान्गच्छतां गहने वने ।

निनदन्सुमहानादं विराधः प्रत्यदृश्यत ॥ १२ ॥

तत् प्रसिद्धं । हस्तिभिः वनगजैः मृदितं ॥ ११-१२ ॥

 

तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम् ।

निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् ॥ १३ ॥

तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ ।

सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः ॥ १४ ॥

शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः ।

अभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत् ॥ १५ ॥

निखाते अवटे । प्रक्षिपन्ति स्मेति बहुवचनेन सीतयाऽपि तत्र किंचित्साहाय्यं कृतमिति गम्यते ॥ १३–१५ ॥

 

ततः पश्चाच्छूर्पणखा रामपार्श्वमुपागता ॥ १६ ॥

ततः पश्चादित्यर्धं ॥ १६ ॥

 

ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः ।

प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः ॥ १७ ॥

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।

हतानि वसता तत्र राघवेण महात्मना ॥ १८ ॥

कर्णनासमित्यत्र प्राण्यङ्गत्वादेकवद्भावः ॥ १७ – १८ ॥

 

एकेन सह संगम्य रणे रामेण सङ्गताः ।

अह्नचतुर्थभागेन निःशेषा राक्षसाः कृताः ॥ १९ ॥

संगताः पार्थक्येन विना सर्वे राक्षसाः परस्परं मिलिताः सन्तः । एकेन रामेण सह संगम्य: निःशेषाः कृता इत्यन्वयः । अह्नश्चतुर्थभागेनेत्यत्र अह्नश्चतुर्थो यामः तस्य भागः त्रिपादघटिकान्यूनार्धांशः तेन । अन्यथा अर्धाधिकमुहूर्तेनेति पूर्वोक्तविरोधः प्रसज्येत ॥ १९ ॥

 

महाबला महावीर्यास्तपसो विघ्नकारिणः ।

निहता राघवेणाजौ दण्डकारण्यवासिनः ॥ २० ॥

महाबला इति श्लोके तपसो विघ्नकारिण इत्युक्त्या राक्षसहननं तपोविघ्नशान्त्यर्थमिति दर्शितं ॥ २० ॥

 

राक्षसाथ विनिष्पिष्टाः खरथ निहतो रणे ॥ २१ ॥

राक्षसा इत्यर्धं ॥ २१ ॥

 

[ दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तरम् ॥ ]

ततस्तेनार्दिता बाला रावणं समुपागता ॥ २२ ॥

रावणानुचरो घोरो मारीचो नाम राक्षसः ।

लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः ॥ २३ ॥

तत इत्यर्धं ॥ बाला मूर्खा । मूर्खेऽर्भकेपि बाल: स्यात् इत्यमरः ॥ २२-२३ ॥

 

अथैनमब्रवीद्रामं वैदेही गृह्यतामिति ।

अहो मनोहरः कान्त आश्रमो नो भविष्यति ॥ २४ ॥

ततो रामो धनुष्पाणिर्धावन्तमनुधावति ।

स तं जघान धावन्तं शरेणानतपर्वणा ॥ २५ ॥

एनं रामं । गृह्यतां मृग इति शेषः ॥ २४-२५ ॥

 

अथ सौम्य दशग्रीवो मृगं याते तु राघवे ।

लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा ॥ २६ ॥

निष्क्रान्त इति । क्रूरत्वान्निष्क्रान्तिकारणानुक्ति: । अतएवाह कामन्दकः— प्रियं पथ्यं च तथ्यं च वदेद्धर्मार्थमेव च । अश्राव्यमयशस्यं च परोक्षे कटु चोत्सृजेत् इति ॥ २६ ॥

 

जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव ।

त्रातुकामं ततो युद्धे हत्वा गृधं जटायुषम् ॥ २७ ॥

प्रगृह्य सीतां सहसा जगामाशु स रावणः ॥ २८ ॥

तरसा बलात्कारेण । ग्रहः अङ्गारक इति यावत् ॥ २७–२८ ॥

 

ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि ।

सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः ॥

ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् ॥ २९ ॥

[ ततः शीघ्रतरं गत्वा तद्विमानं मनोजवम् ।

आरुह्य सह वैदेह्या पुष्पकं स महाबलः ॥ ]

प्रविवेश ततो लङ्कां रावणो लोकरावणः ॥ ३० ॥

ततस्त्वित्यादिसार्धश्लोक एकान्वयः ॥ अद्भुतसंकाशा: अद्भुताकाराः ॥ २९-३० ।।

 

तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि ।

प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः ॥ ३१ ॥

सुवर्णपरिक्रान्ते सुवर्णानुलिप्ते ॥ ३१ ॥

 

तृणवद्भाषितं तस्य तं च नैर्ऋतपुङ्गवम् ।

अचिन्तयन्ती वैदेही अशोकवनिकां गता ॥ ३२ ॥

तस्य रावणस्य । भाषितं तृणवत् । मत्वेति शेषः । तं च नैर्ऋतपुङ्गवं अचिन्तयन्ती वैदेही अशोकवनिकां गता । तत्रैव स्थितेत्यर्थः ॥ ३२ ॥

 

न्यवर्तत ततो रामो मृगं हत्वा महावने ।

निवर्तमानः काकुत्स्थोऽदृष्ट्वा गृध्रं प्रविव्यथे ॥ ३३ ॥

अदृष्ट्वेति च्छेदः । सीतामिति शेषः । सीतां गृध्रं चादृष्ट्वा प्रविव्यथ इत्यन्वयः ॥ ३३ ॥

 

गृधं हतं ततो दग्ध्वा रामः प्रियसखं पितुः ।

मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः ॥

गोदावरीमन्वचरद्वनोद्देशांव पुष्पितान् ॥ ३४ ॥

गृध्रमित्यादिसार्धश्लोक एकान्वयः  ततो वैदेहीं मार्गमाणो राघवः पितुः प्रियसखं हतं गृधं दग्ध्वा गोदावरीं तद्वनोद्देशांश्चान्वचरत् । पुष्पितानित्यनेन पुष्पलोभेन किं सीताऽत्र गतेति मतिर्व्यज्यते ॥ ३४ ॥

 

आसेदतुर्महारण्ये कबन्धं नाम राक्षसम् ॥ ३५ ॥

ततः कबन्धवचनाद्रामः सत्यपराक्रमः ।

ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः ॥ ३६ ॥

आसेतुरित्यर्धमेकं वाक्यं ॥ राघवाविति शेषः ।। ३५-३६ ॥

 

तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत ।

भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा ॥ ३७ ॥

तयोः रामसुग्रीवयोः । पूर्वं दर्शनात्प्रागेव । हार्दः समागमः मानसः संबन्धः । व्यजायत । मनसा परस्परं सख्यमाचकाङ्क्षाते इत्यर्थः । सुग्रीवस्य कुतः सख्यापेक्षेत्यत्र आह – भ्रात्रेति ।। ३७ ॥

 

इतरेतरसंवादात्प्रगाढः प्रणयस्तयोः ॥ ३८ ॥

इतरेतरसंवादात् अन्योन्यप्रयोजनकथनात् प्रणय: । प्रगाढ अतिशयितः । अभूत् ॥ ३८ ॥

 

रामस्य बाहुवीर्येण स्वराज्यं प्रत्यपादयत् ।

वालिनं समरे हत्वा महाकायं महाबलम् ॥ ३९ ॥

रामस्येति । अत्र सुग्रीव इति शेषः । सुग्रीवः रामस्य बाहुवीर्येण वालिनं हत्वा स्वराज्यं प्रत्यपादयत् समपादयदिति संबन्धः ।। ३९ ।।

 

सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः ।

रामाय प्रतिजानीते राजपुत्र्याश्च मार्गणम् ॥ ४० ॥

राज्ये स्थापितः सुग्रीवः सर्ववानरैः सहितोभूत् । रामायेति । सुग्रीव इति शेषः । प्रतिजानीते प्रतिज्ञातवान् ॥ ४० ॥

 

आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना ।

दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः ॥ ४१ ॥

आदिष्टाः मार्गणायादिष्टाः दिश: प्रस्थापिताश्च ॥ ४१ ॥

 

तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे ।

भृशं शोकाभितप्तानां महान्कालोत्यवर्तत ॥ ४२ ॥

भ्राता तु गृध्रराजस्य संपातिर्नाम वीर्यवान् ।

समाख्याति स्म वसति सीताया रावणालये ॥ ४३ ॥

तेषां स्थापितानां विप्रकृष्टानां बहुकालविलम्बितानां । यद्वा स्वयंप्रभाबिले प्रविष्टतया दूरं गतानां ॥ ४२-४३ ॥

 

सोहं शोकपरीतानां दुःखं तज्ज्ञातिनां नुदन् ।

आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः ॥ ४४ ॥

ज्ञातिनामिति नकारान्तत्वमार्षं । प्लुतः समुद्र इति शेषः ॥ ४४ ॥

 

तत्राहमेकामद्राक्षमशोकवनिकां गताम् ।

कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् ॥ ४५ ॥

तत्र रावणालये ॥ ४५ ॥

 

तया समेत्य विधिवत्पृष्ट्वा सर्वमनिन्दिताम् ।

अभिज्ञानं च मे दत्तमर्चिष्मान्स महामणिः ॥ ४६ ॥

[ मां दृष्ट्वा मैथिली हृष्टा प्रशशंसे च जीवितम् ॥ ४७ ॥

रावणस्य मनःकान्तामशोकवनिकां तदा ।

विध्वंसयित्वा समरे हत्वा राक्षसपुङ्गवान् ॥ ४८ ॥

लङ्कां च भस्मसात्कृत्वा प्रहृष्टेनान्तरात्मना ॥]

अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः ॥ ४९ ॥

अनिन्दितां सीतां । सर्वं वृत्तान्तं पृष्ट्वा । प्रच्छिर्द्विकर्मकः । पृष्ट्वा स्थिताय मे मह्यं । सः प्रसिद्धः । महामणि: अभिज्ञानं । दत्तं ॥ ४६-४९ ॥

 

मया च पुनरागम्य रामस्याक्लिष्टकर्मणः ।

अभिज्ञानं मया दत्तमर्चिष्मान्स महामणिः ॥ ५० ॥

क्रियाभेदान्मयाशब्दद्वयं प्रयुक्तं ॥ ५० ॥

 

श्रुत्वा तु मैथिलीं हृष्टस्त्वाशशंसे च जीवितम् ।

जीवितान्तमनुप्राप्तः पीत्वाऽमृतमिवातुरः ॥ ५१ ॥

जीवितमाशशंसे ततः पूर्वं जीविते निराशः स्थित इति व्यक्तं । जीवितान्तं प्राप्तः, आतुरः अमृतं पीत्वा यथा जीवितमाशास्ते तथेत्यर्थः ॥ ५१ ॥

 

उद्योजयिष्यन्नुद्योगं दध्रे कामं वधे मनः ।

जिघांसुरिव लोकान्ते सर्वांल्लोकान्विभावसुः ॥ ५२ ॥

उद्योगमुद्योजयिष्यन् उद्योगं कुर्वन् । ओदनपाकं पचतीतिवत् । विभावसुः अग्निः ॥ ५२ ॥

 

ततः समुद्रमासाद्य नलं सेतुमकारयत् ।

अतरत्कपिवीराणां वाहिनी तेन सेतुना ॥ ५३ ॥

महस्तमवधीन्नीलः कुम्भकर्णं तु राघवः ।

लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् ॥ ५४ ॥

स शक्रेण समागम्य यमेन वरुणेन च ।

महेश्वरस्वयंभूभ्यां तथा दशरथेन च ॥ ५५ ॥

तैश्च दत्तवरः श्रीमानृषिभिव समागतः ।

सुरर्षिभिश्व काकुत्स्थो वराँल्लेभे परन्तपः ॥ ५६ ।।

स तु दत्तवरः प्रीत्या वानरैश्च समागतः ।

पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् ॥ ५७ ॥

नलं सेतुमकारयत् नलेन सेतुमकारयत् ॥ ५३-५७ ॥

 

तं गङ्गां पुनरासाद्य वसन्तं मुनिसन्निधौ ।

अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ॥ ५८ ॥

पुनर्गङ्गामासाद्य मुनिसन्निधौ भरद्वाजसमीपे अध्यवसन्तं तं अविघ्नं यथा भवति तथा श्वः पुष्ययोगेन द्रष्टुमर्हसि । पुष्ययोगलाभार्थं अद्य गङ्गातीरे रामः स्थित इति भावः ॥ ५८ ॥

 

ततस्तु सत्यं हनुमद्वचो महन्निशम्य हृष्टो भरतः कृताञ्जलिः ।

उवाच वाणीं मनसः प्रहर्षिणीं चिरस्य पूर्णः खलु मे मनोरथः ॥ ५९ ।।

सत्यं अविरुद्धभङ्ग्या सत्यत्वेन ज्ञातं । मनोरथ इत्यनन्तरमितिकरणं द्रष्टव्यं ॥ ५९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशदुत्तरशततमः सर्गः ॥ १२९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनत्रिंशदुत्तरशततमः सर्गः ॥ १२९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.