22 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वाविंशः सर्गः

रामेण सप्रतिज्ञानसागरशोषणायब्रह्मास्त्राभिमन्त्रितशरसन्धानपूर्वकंधनुराकर्षणे घोरतरोत्पातप्रादुर्भावेभीतेनसागरेण गङ्गादिभिःसह नानाभूषणभूषितनिजरूपप्रकटन पूर्वकं समुद्रमध्यादुद्गमनेन श्रीराममेत्य साञ्जलिबन्धंक्षमापणम् ॥ १ ॥ रामेण धनुस्संहित निजशरस्यामोघत्वोक्त्यालक्ष्यप्रदर्शनंचोदितेनसागरेण स्वान्तर्वर्तिमरुकान्तार -वासिपापतराभीरेषुशरमोक्षणचोदने शराग्निनातद्वध पूर्वकंतरप्रदेशस्य मरुत्व दोषनिरसनम् ॥ २ ॥ सागरेणरामंप्रति कपिकुलमध्यवर्तिनलगुणप्रशंसनपूर्वकं तत्करेणसेतुरचनाचोदनेन -पुनरन्तर्धानम् ॥ ३ ॥ नलेनरामचोदनया कपिगणाहृतनानागिरितरुभिरद्भुतसेतुरचना ॥ ४ ॥ हनुमदङ्गदांससमारूढाभ्यांराघवाभ्यां सुग्रीवादिभिस्सहसेतुमार्गेण परपारमेत्यतत्र सेनासंनिवेशनम् ॥ ५ ॥

अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः ।अद्य त्वाम् शोषयिष्यामि सपातालं महार्णव ॥             प्रथमं वानरसेनातरणाय सागरं शरणं गत्वा तस्मिन्ननागते चापमानयेति वाचा भीषयित्वा तथाप्यनाविष्कृतनिजरूपं तं शरैः प्रक्षोभ्य तावताप्यनागतस्य तस्य भीतिमुत्पादयितुं ब्रह्मास्त्रसन्धानायोपक्रमत इत्याह —अथेत्यादिना ।। सपातालं पातालपर्यन्तमित्यर्थः ॥ १ ॥ शरनिर्दग्धतोयस्य परिशुष्कस्य सागर ।मया शोषितसत्त्वस्य पांसुरुत्पद्यते महान् ॥             शरनिर्दग्धतोयस्य निर्जलस्थेत्यर्थः । परिशुष्कस्य भूम्यन्तर्गतजलशून्यस्य । शोषितसत्त्वस्य दग्धसत्त्वस्येत्यर्थः । ते महान् पांसुः अतिसूक्ष्मो रेणुः । उत्पद्यते । वर्तमानसामीप्ये वर्तमानप्रयोगः । महावर्षेपि पुनर्यथा जललवोपि न तिष्ठति तथा करिष्यामीतिभावः ॥ २ ॥ मत्कार्मुकनिसृष्टेन शरवर्षेण सागर ।पारं तेद्य गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥             ननु सकलजलशोषणेन पातालमात्रपरिशोषात्तत्र गमनासंभवादाकाशेन गन्तव्यं ततो वरमिदानीं तथागमनं किं कोपेनेत्यत्राह- मत्कार्मुकेति ॥ शरवर्षेण शरजालेन सेतुस्थानीयेन । न सेतुबन्धादिक्लेशो मे न भवतीतिभावः ॥ ३ ॥ विचिन्वन्नाभिजानासि पौरुषं वापि विक्रमम् ।दावालय संतापं मत्तो नाधिगमिष्यसि ॥             पौरुषं बलं । विक्रमं पराक्रमं च । विचिन्वन् विशेषेणपर्यालोचयितुं । नाभिजानासि । लक्षणहेत्वोः – इति शतृप्रत्ययः । इदमज्ञानं सहवासकृतमित्याशयेन दानवालयेति संबोधनं । मत्तो भाविनं संतापं च नाधिगमिष्यसि न ज्ञास्यसि । मत्पराक्रममजानन् मत्तो भाविब्रह्मास्त्रपीडामपि न ज्ञास्यस्येवेतिभावः ॥ ४ ॥ ब्राह्मेणास्त्रेण संयाज्य ब्रह्मदण्डनिभं शरम् ।संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः ॥             ब्रह्मदण्डः ब्रह्मशाप: । तद्वदमोघमित्यर्थः । यद्वा ब्रह्मदण्डः केतुविशेषः । तथोक्तं नारदसंहितायां – पितामहात्मजःकुरस्त्रिवर्णः शिखरान्वितः । ब्रह्मदण्डाह्वयः केतुः सर्वभूतविनाशनः इति ॥ ब्राह्मणास्रेण ब्रह्मास्त्रमन्त्रेण । संयोज्य अभिमन्त्र्य । तद्धनुर्विचकर्ष ॥ ५ ॥ तस्मिन्विकृष्टे सहसा राघवेण शरासने ।रोदसी संपफालेव पर्वताश्च चकम्पिरे ।। ।।तमश्च लोकमावव्रे दिशश्च न चकाशिरे ।प्रतिचुक्षुभिरे चाशु सराम्सि सरितस्तदा ॥             अथास्त्रसन्धानस्य मरुकान्तारवर्तिनां युगपद्विनाशहेतुत्वात्तत्काले तदुचितमहोत्पातान् दर्शयति – तस्मिन्नित्यादिना ॥ शरसन्धानकालिकं लोकस्यभयं दर्शयतीत्यप्याहुः । रोदसी द्यावापृथिव्यौ । संपफालेव भिन्ने इव । एकवचनमार्षं । द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी इत्यमरः ॥ ६-७ ॥ तिर्यक्च सह नक्षत्रैः संगतौ चन्द्रभास्करौ ।भास्कराम्शुभिरादीप्तं तमसा च समावृतम् ॥ प्रचकाशे तदाकाशमुल्काशतविदीपितम् ।अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥             तिर्यक्चेति श्लोकद्वयमेकान्वयं ॥ चन्द्रभास्करौ नक्षत्रैः सह तिर्यग्वकं यथा भवति तथा सङ्गतौ तिर्यग्जग्मतुः । भयादिति भावः । आदीप्तं ईषद्दीप्तं । मन्दरश्मित्वात्तमसावृतत्वाच सूर्यस्येतिभावः । समावृतं सम्यगावृतं । उल्काशतविदीपितं । उत्कालक्षणमुक्तं वराहमिहिरेण उल्का शिरसि विशाला निपतन्ती वर्धते च तनुपुच्छा इति । निर्घातलक्षणं तेनैवोक्तं – पवनः पवनामिहतो गगनावनौ यदा समापतति । भवति तथा निर्घातः स च पापो दीर्घखगविरुतः इति ॥ ८–९ ।। पुस्फुरुश्च घना दिव्या दिवि मारुतपङ्क्त्यः ।। १० ।।            पुस्फुरुः चेरुः । मारुतपङ्क्य: आवहोद्वहादिवातस्कन्धाः । दिव्याः श्लाघ्याः ॥ १० ॥ बभञ्ज च तदा वृक्षान् जलदानुद्वहन्नपि रुजम्श्चैव शैलाग्रान्शिखराणि बभञ्जनः ।। ११ ।।            उद्वहन् ऊर्ध्वंनयन् । शैलाग्रान् पर्वताग्रप्रदेशान् । शिखराणि खण्डपर्वतान् । अरुजन् अपीडयत् । बहुवचनमार्षं ॥ ११ ॥ दिविस्पृशो महामेघाः संगताः समहास्वनाः मुमुचुर्वैद्युतानग्नीम्स्ते महाशनयस्तदा ।। १२ ।।            ते वैद्युताग्नयः । तदा महाशनयोभवन् । अशनिस्वरूपं मिहिरेणोक्तं- अशनि: स्वनेन महता युक्ता नृगजाश्वतरूपशुमुखेषु । निपतति विदारयन्ती धरातलं चक्रसंस्थाना इति ॥ १२ ॥ यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् ।। १३ ।।शिश्यिरे चाभिभूतानि संत्रस्तान्युद्विजन्ति च संप्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ।। १४ ।।            यानीत्यादि श्लोकद्वयमेकं वाक्यं ॥ यानि भूतानि दृश्यानि मनुष्यादीनि । अदृश्यानि पिशाचादीनि । तानि सर्वाणि भूतानि संत्रस्तानि । अतएवोद्विजन्ति कम्पमानानि सन्ति । अशनेः समं अशनिस्वरसमं यथा तथा चुक्रुशुः तथा । भैरवस्वनं मुमुचुः । ततः शिशिरे सुप्तानि । सुप्तवद्भूमौ पतितानीत्यर्थः । तत्रापि संप्रविव्यथिरे चिन्तया दुःखितानि । भयान्न पस्पन्दिरे न चलितानि ॥ १३ – १४ ॥ सह भूतैः सतोयोर्मिः सनागः सहराक्षसः सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः ।। १५ ।।            अथ समुद्रराजस्योत्थानं सूचयति — सहभूतैरित्यादिना ॥ ततो वेगात् पूर्वसर्गान्तोक्तांद्रामवेगात् । सहसा शरसन्धानसमय एव । भीमवेगोऽभूत् भीमप्रवाहवेगोऽभूत् । केवलशरमोक्षकृतात्क्षोभात् ब्रह्मास्त्रमोक्षारम्भे महान्क्षोभोऽभूदित्यर्थः ॥ १५ ॥ योजनं व्यतिचक्राम वेलामन्यत्र सम्प्लवात् तं तथा समतिक्रान्तं नातिचक्राम राघवः ।समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥ १६             वेगफलं दर्शयति-योजनमित्यादिना ॥ सार्धश्लोक एकान्वयः । संप्लवात् वारिपूरेण । वेलामन्यत्र वेलां विनेत्यर्थः । अथवा संप्लवादन्यत्र प्रलयं विना । बेलां योजनं योजन पर्यन्तं । व्यतिचक्राम अतिक्रान्तवान् । योजनमन्तजीर्णोऽभूदित्यप्याहुः । तं समतिक्रान्तं पलायमानं नातिचक्राम । पलायमानं प्रति शस्त्रप्रयोगरूपातिक्रमं न चकार ॥ १६ ॥ 

ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः
उदयन्हि महाशैलान्मेरोरिव दिवाकरः
।। १७ ।।

समुद्रस्य मध्यात् उन्नतात् । स्वयं सागरः समुद्राभिमानिदेवता । दिवाकर इव बभावितिशेषः ॥ १७ ॥


पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत

स्निग्धवैदूर्यसङ्काशो जाम्बूनदविभूषितः ।। १८ ।।

जाम्बूनदं जम्बूनदीप्रभवं स्वर्णं ।। १८ ।।


रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः

सर्वपुष्पमयीं दिव्यां शिरसा धारयन्स्रजम् ॥ १९

रक्तमाल्यं रक्तवैकक्ष्यमाला ॥ १९ ॥ जातरूपमयैश्चैव तपनीयविभूषितैःआत्मजानां च रत्नानां भूषितो भूषणोत्तमैः ॥ २०             जातरूपमयैः आकरजसुवर्णप्रचुरैः । तपनीयविभूवितैः रत्नकीलनार्हद्रुतकनक -विभूषितैः । रत्नानां संबन्धिमिर्भूषणोत्तमैः ॥ २० ॥ धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव ।एकावलीमध्यगतं तरलं पाण्डरप्रभम् ॥ २१             एकावली मुक्तावली । तरलं नायकरत्नं ॥ २१ ॥ विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ।आघूर्णिततरङ्गौघःकालिकानिलसंकुलः ॥ २२ [ देवतानां सुरुपाणां नानरूपाभिरीश्वरः ।गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः ।। २३ ]            आघूर्णितः चलितः । कालिका मेघपङ्क्तिः । मेघजालेपि कालिका इत्यमरः । तयाऽनिलेन च संकुलः क्षुमितः । मेघानिलौ समुद्रस्य सहचराविति प्रसिद्धिः ॥ २२-२३ ॥ 

उद्वर्तितमहाग्राहः संभ्रान्तोरगराक्षसः ।

सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान्
अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम्
।। २४ ।।

उद्वर्तितेत्यादि सार्ध श्लोक एकान्वयः ॥ उद्वर्तितः उद्भामितः । समुपक्रम्य समुपागम्य । स्वसौजन्यं पुरस्कर्तुं पूर्वं आमन्त्र्य आहूय । प्रकृष्टो मूर्ध्नि कृतोञ्जलिः यस्यासौ प्राञ्जलिः । शरपाणिनमिति नकारान्तत्वमार्षं । स्वविरोधिनो मरुवासिनो रामेण घातयितुं स्वयं रावणभीतत्वेन तत्संहारक्षममस्य पराक्रमं परीक्षितुं च समुद्र एतावत्पर्यन्तं विलम्बितवानिति बोध्यम् ॥ २४ ॥

 

पृथिवी वायुराकाशमापो ज्योतिश्च राघव
स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः
।। २५ ।।

किं विभोस्तव मया कर्तव्यं किं गाधवं उत जलस्तम्भनं आहोस्वित्सेतुबन्धनानुकूल्यमित्याशंक्य न तावदाद्यः पक्ष इत्याह श्लोकद्वयेन – पृथिवीति ॥ सौम्य प्रसन्न । अनेनाञ्जलिकरणानन्तरमेव रामः प्रसन्न इति गम्यते । पृथिव्यादयः पञ्चपदार्थाः । शाश्वतं नित्यं । मार्गं मर्यादां । आश्रिताः सन्तः स्वभावे काठिन्यतिर्यग्गमनावकाशप्रदानागाधत्वोर्ध्वज्वलनादिस्वस्वभावे तिष्ठन्ति । स्वस्वभावं नातिका मन्तीत्यर्थः ॥ २५ ॥

 

तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः
विकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम्
।। २६ ।।

एषु कस्ते स्वभाव इत्यत आह — तदिति ॥ तत् तस्मात् । सर्वेषां पृथिव्यादीनां स्वस्वभावानतिलङ्घित्वात् । अहं अगाधः अप्लवः अलङ्घ्यश्चेति यत् एषः ममापि स्वभावः । तस्मादेवमेव मया स्थातव्यं । गाधःप्लवविषयोहमिति यत् एषः मम विकारः अन्यथाभावः । तथा मया न स्थातुं युक्तं । एतत् उक्तस्वरूपं ते प्रवदामि प्रावदं । प्रददामीति पाठेप्ययमेवार्थः । धातूनामर्थत्वात् ॥ २६ ॥

 

न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज
ग्राहनक्राकुलजलं स्तम्भयेयं कथंचन
।। २७ ।।

द्वितीयपक्षोप्यनुपपन्न इत्याह — न कामादिति ॥ कामात् अर्थेच्छया । लोभात् लब्धवस्तुत्यागासहिष्णुतया । भयात् दण्डभयात् । पार्थिवात्मजेत्यनेन सर्वमर्यादास्थापकोसीति द्योतयति । न स्तम्भयेयं पीडाकरत्वादिति भावः ।। २७ ॥

 

विधास्ये राम येनापि विषहिष्ये ह्यहं तथा
ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति

हरीणां तरणे राम करिष्यामि यथा स्थलम् ।। २८ ।।            तृतीयं तु पक्षं कक्षीकरोमीत्याह-विधास्य इत्यादिसार्धश्लोकेन ॥ येन यथाहं विषहिष्ये शक्ष्यामि । तथा विधास्ये । किं तच्छक्यमित्यपेक्षायामाह- माहेत्यादि ॥ यावत्सेना तरिष्यति तावत् ग्राहा न प्रहरिष्यन्ति । जलेपि हि केचिद्गमिष्यन्ति । हरीणां तरणे विषये । यथा स्थलं भवति यथा सेतुमार्गो भवति । तथा करिष्यामि । सेतुबन्धद्रव्यापकर्षणादिविघ्नं न करिष्यामीत्यर्थः ॥ २८ ॥ तमब्रवीत्तदा राम उद्यतो हि नदीपते अमोघोयं महाबाणः कस्मिन्देशे निपात्यताम् ।। २९ ।।            उद्यतः कृतसंधानः ॥ २९ ॥ रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम् महोदधिर्महातेजा राघवम् वाक्यमब्रवीत् ।। ३० ।।            महातेजा: स्वामिमतलाभेन जनितकान्तिः ॥ ३० ॥ उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ।। ३१ ।।            उत्तरेण समीपवर्तिन्युत्तरभागे । एनबन्यतरस्यामदूरेऽपञ्चम्या: इत्येनपू । ममावकाशः मध्यप्रदेशइत्यर्थः । पुण्यतमः चारुतमः। पुण्यं तु चार्वपि इत्यमरः । द्रुमेषु कुल्या यस्यासौ द्रुमकुल्यः । कुल्याल्पा कृत्रिमा सरित् इत्यमरः ॥ ३१ ॥ उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम ।। ३२ ।।            उग्रे दर्शनकर्मणी येषां ते उग्रदर्शनकर्माण: । दस्यवः शत्रवः । दस्युशात्रवशत्रवः इत्यमरः । दस्यवः चोरा वा । आभीराः महाशूद्राः ॥ ३२ ॥ तैस्तु संस्पर्शनं  प्राप्तैर्न सहे पापकर्मभिः अमोघः क्रियताम् राम तत्र तेषु शरोत्तमः ।। ३३ ।।            तत्र द्रुमकुल्ये । तेषु आभीरप्रमुखेषु ॥ ३३ ॥ तस्य तद्वचनम् श्रुत्वा सागरस्य स राघवः मुमोच तंरं दीप्तं वीरः सागरदर्शनात् ।। ३४ ।।            सागरदर्शनात् सागरमतेन । यद्वा अङ्गुल्या निर्दिश्य सागरेण प्रदर्शनात् ॥ ३४ ॥ तेन तं मरुकान्तारं पृथिव्याम् खलु विश्रुतम् निपातितः शरो यत्र वज्राशनिसमप्रभः ।। ३५ ।।            तेन शरमोक्षणेन ॥ ३५ ॥ ननाद च तदा तत्र वसुधा शल्यपीडिता तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् ।। ३६ ।।            ननाद जलनिर्गमेनेति भावः । व्रणमुखात् व्रणमुखद्वारेण ॥ ३६ ।। स बभूव तदा कूपो व्रण इत्यभिविश्रुतः सततम् चोत्थितम् तोयम् समुद्रस्येव दृश्यते ।अवदारणशब्दश्च दारुणः समपद्यत ।। ३७ ।।            सः व्रणमुखं । व्रणकूप इत्यभिविश्रुतो बभूव । सततमिति । तस्येति शेषः । अवदारणशब्द: बाणस्येति शेष: ॥ ३७ ॥ तस्मात्तद्बाणपातेन त्वपः कुक्षिष्वशोषयत् ।। ३८ ।।            तस्मादित्यर्थं ॥ तद्बाणपातेन तस्य बाणस्य पातेन । कुक्षिषु अवटेषु । स्थिता अपः पूर्वं पापस्पृष्टानि जलानि । तस्मात् द्रुमकुल्यात् । अशोषयत् न्यवारयदित्यर्थः ॥ ३८ ॥ विख्यातं त्रिषु लोकेषु मरुकान्तारमेव तत् शोषयित्वा तु तमः कुक्षिम् रामो दशरथात्मजः ।रं तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ।। ३९ ।।            पूर्वं रामबाणपातेन पृथिव्यां विश्रुतत्वमुक्तं संप्रति विरोधिनिरसनात् त्रिषु लोकेषु विख्यातत्वमाह — विख्यातमिति  मरुकान्तारमेव मरुकान्तारनामैव । विख्यातं प्रसिद्धमभूदित्यर्थः । कुक्षि समुद्रमध्यप्रदेशं । मरुकान्तारं शोषयित्वा दुग्ध्वा । कथं मनुष्यत्वं भावयतो वरदानमित्यत्राह–अमरविक्रम इति । सत्येन लोकाञ्जयति इति न्यायेन वशीकृतसर्वलोकइत्यर्थः ॥ ३९ ॥ पशव्यश्चाल्परोगश्च फलमूलरसायुतः ।बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधः ।। ४० ।।एवमेतैर्गुणैर्युक्तो बहिभिः सततं मरुः ।रामस्य वरदानाच्च शिवः पन्था बभूव ह ।। ४१ ।।तस्मिन्दग्धे तदा कुक्षौ समुद्रः सरितां पतिः ।राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् ।। ४२ ।।            वरं सिद्धिमुखेन दर्शयति श्लोकद्वयेन–पशव्य इत्यादि ।। पशव्यः पशुभ्यो हितः पशुपभोग्यबालतृणादिसमृद्ध इत्यर्थः । अल्परोग: आरम्भ एव विनष्टरोगः । रसः मधु । आयुतः समन्तायुक्तः । स्नेहः घृतं । औषधं ओषधिसमूहः । एवमेतैः एवंप्रकारैः । गुणैः भोग्यैः । युक्तः संयुतः । शिवः पन्थाः शोभनप्रदेश इत्यर्थः ॥ ४० – ४२ ॥ 

अयं सौम्य नलो नाम तनुजो विश्वकर्मणः
पित्रा दत्तवरः श्रीमान्प्रतिमो विश्वकर्म
णा ।। ४३

एवं सेतुनिर्माणानुकूलं स्थास्यामीत्युक्तवान् संप्रति वरदानसन्तुष्टो वाक्सहायमाचरति – अयमिति ॥ दत्तवरः मत्तुल्यः पुत्रस्ते भविष्यतीति मात्रे दत्तवरः ॥ ४३ ॥

 

एष सेतुं महोत्साहः करोतु मयि वानरः
तमहं धारयिष्यामि तथा ह्येष यथा पिता
।। ४४ ।।

तं सेतुं । तथा ह्येष यथा पितेति । पितां यथा यादृशशक्तिमान् तादृशोयमित्यर्थः ॥ ४४ ॥

 

एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्तदा
अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः
।।४५ ।।

उदधिः नष्टः अन्तर्हितः ॥ ४५ ॥

 

अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये
पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः
।। ४६ ।।

पितुः सामर्थ्यं पित्रा दत्तं सामर्थ्यं ॥ ४६ ॥

 

दण्ड एव वरो लोके पुरुषस्येति मे मतिः ।

धिकूक्षमामकृतज्ञेषु सान्त्वं दानमथापि वा ।। ४७ ।।

अथ वानरान्प्रत्याह – दण्ड इत्यादि श्लोकद्वयेन ।। अतो राघवायेति परोक्षनिर्देश: । हिमवान्मन्दरो मेरुरित्यादिवत् । मध्ये कविवाक्यं वा । दण्ड एव परः समीचीनोपायः । क्षमां सान्त्वं साम दानं वा धिक् । क्षमादयो नोपाया इत्यर्थः ॥ ४७ ॥

 

यं हि सागरो भीमः सेतुकर्मदिदृक्षया ।ददौ दण्डभयाद्गाधं राघवाय महोदधिः ॥ ४८             उक्तेर्थे हेतुमाह-अयं हीति ॥ हि यस्मात्सागर: सगरखानितः । प्रत्युपकारानभिज्ञ इत्यर्थः । दण्डभयात् सेतुकर्मदिदृक्षया गाधं ददावि त्यन्वयः । सेतुकर्मदिदृक्षा च दण्डभयादेवास्य जातेत्यर्थः ॥ ४८ ।।

 

मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा

[मया तु सदृशः पुत्रस्तव देवि भविष्यति ।]
औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा
।। ।।

पूर्वोक्तस्वपितृतुल्य सामर्थ्यलाभस्य हेतुं दर्शयति—ममेति ॥ मया सदृशः पुत्रस्तव भविष्यतीत्येवंरूपो वरः । अयं चार्थः औरसस्तस्य पुत्रोहं सदृशो विश्वकर्मण इत्यनुवादात्सिद्धः ॥ ४९ ॥

 

स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः

न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् ।। ५० ।।

तर्ह्येतावत्पर्यन्तं किमर्थं नोक्तवानसीत्यत्राह—स्मारित इति ॥ एतेन समुद्रेण । अनुक्तौ निमित्तान्तरमप्याह-नचेति । अनुक्तः अन्येनानुक्तः । स्वेनैवोक्तो महाकर्मारम्भे विश्वासो न भवेदिति भावः ॥ ५० ॥

 

समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये ।
काममद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः
।। ५१ ।।

न केवलमुक्तिमात्रं समर्थश्चापीत्याह – समर्थश्चेति ॥ बघ्नन्तु बन्धनाय शिलादिकमानयन्त्वित्यर्थः ॥ ५१ ॥

 

ततोतिसृष्टा रामेण सर्वतो हरियूथपाः
अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः
।। ५२ ।।

अतिसृष्टाः नियुक्ताः ॥ ५२ ।।

 

ते नगान्नगसङ्काशाः शाखामृगगणर्षभाः
बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम्
।। ५३ ।।            नगान् वृक्षान् । नगसंकाशा: गिरिसंकाशा: । वानराधिपतित्वेपि मनुष्यत्वं संभवति निषादस्थपत्यधिकरणपूर्वपक्षन्यायादत आह-वानरा इति । तत्र तदानीं । प्रचकर्षुः आनयन्ति स्म ।। ५३ ।। 

ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः
कुटजैरर्जुनैस्तालैस्ति
लकैस्तिमिशैरपि ।। ५४ ।।

बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः
चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन्
।। ५५ ।।

सेतुबन्धनसाह्यकृतां वृक्षाणां कृतार्थतां व्यवयितुं तान् परिगणयति — श्लोकद्वयेन ते सालैरित्यादिना ॥ ५४–५५ ॥

 

समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः
इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून्
।। ५६ ।।

अथैषामानयनशै व्यमाह – समूलानिति ॥ हरयस्तरूनित्युत्तरशेष: ॥ ५६ ॥

 

तालान्दाडिमगुल्माम्श्च नारिकेलविभीतकान्बकुलान्खदिरान्निम्बान्समाजह्रुः समन्ततः ॥ ५७             वृक्षेषून्मूलितेषु गुल्मादीनाज ह्रुरित्याह तालानिति ॥ तालान् क्षुद्रतालान् । खदिरान् अरिमेदकान् ॥ ५७ ॥ हस्तिमात्रान्महाकायाः पाषाणाम्श्च महाबलाः पर्वताम्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च ।। ५८ ।।            भूरुहेषु लुप्तेषु पाषाणपर्वतादीनाजद्दुरित्याह– हस्तीति ॥ हस्तिमात्रान् गजप्रमाणान् । प्रमाणे द्वयसचूदघ्रञ्मात्रच: इति मात्रच्प्रत्ययः । यत्रैः शकटादिभिः ॥ ५८ ॥

 

प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम्
समुत्पतितमाकाश
मुपासर्पत्ततस्ततः ।। ।।

उद्धतं उत्पतितं । आसीत् । समुत्पतितं सत् आकाशं ततस्ततः तत्र तत्र । उपासर्पत् प्रससार ॥ ५९ ॥ समुद्रम् क्षोभयामासुर्वानराश्च समन्ततः [आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।]सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् ।। ६० ।।            सूत्राणि शतयोजनं व्यायतं आकृष्टं यथा भवति तथा । प्रगृह्णन्ति प्रागृहन् । आर्जवार्थं व्यत्ययेन लकारः ॥ ६० ॥ नलश्चक्रे महासेतुं मध्ये नदनदीपतेः स तदा क्रियते सेतुर्वानरैर्घोरकर्मभिः ।। ६१ ।।            घोरकर्मभिः युगपदनेकपर्वतानयनकर्मभिः । तथा नलक्रियानुसारेण ॥ ६१ ॥ ण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ।। ६२             दण्डान् सूत्रबद्धदण्डान् । वानरत्वराकरणदण्डान्वा । विचिन्वन्ति विशेषेण चयनं कुर्वन्ति । नलबद्धसेतोरुपरि शिलाश्रितवन्त इत्यर्थः ॥ ६२ ॥ वानराः शतशस्तत्र रामस्याज्ञापुरःसराःमेघाभैः पर्वताग्रैश्च तृणैः काष्ठैर्बबन्धरे ॥ ६३             बबन्धिरे सेतुप्रदेशानिति शेषः ॥ ६३ ॥ पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वानराः ।। ६४ ।।            पुष्पितामैरिति । मार्दवार्थमुपरि बबन्धुरित्यर्थः ॥ ६४ ॥ पाषाणाम्श्च गिरिप्रख्यान् गिरीणाम् शिखराणि च दृश्यन्ते परिधावन्तो गृह्य वारणन्निभाः ।। ६५ ।।            अथ वानराणां पर्वतानयनं वर्णयति- पाषाणांश्चेति ॥ गृह्य गृहीत्वा ॥ ६५ ॥ शिलानां क्षिप्यमाणानां शैलानां निपात्यताम् बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ ।। ६६ ।।[सहेलं हनुमाञ्शैलं यंयं विपुलमाक्षिपत् ।तंतं कर्ण वामेन सलीलं जगृहे नलः ] ।। ६७ ।।निपात्यतां आर्षं परस्मैपदं । तुमुलः संकुलः ॥ ६६—६७ ।। कृतानि प्रथमेनाह्ना योजनानि चतुर्दश प्रहृष्टैर्गजसंकाशैस्त्वरमाणैः प्लवङ्गमैः ।। ६८ ।।            कृतानीति । चतुर्दशयोजनपरिमितः सेतुर्बद्ध इत्यर्थ: । एवमुत्तरेष्वपि योज्यं ॥ ६८ ॥ द्वितीयेन तथा ताह्ना योजनानि तु विंशतिः ।कृतानि प्लवगैस्तूर्णम् भीमकायैर्महाबलैः ।। ६९ ।।अह्ना तृतीयेन तथा योजनानि कृतानि तुत्वरमाणैर्महाकयैरेकविंशतिरेव च ।। ७० ।।चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि योजनानि महावेगैः कृतानि त्वरितैस्तु तैः ।। ७१ ।।            द्वितीयेनेति । प्रतिदिनं योजनाधिक्यमुत्साहातिरेकात् ॥ ६९–७१ ।। पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः योजनानि त्रयोविंशत्सुवेलमधिकृत्य वै ।[प्रहृष्टैर्गिरिसंकाशैस्त्वरमाणैः प्लवङ्गमैः] ।। ७२ ।।            त्रयोविंशत् त्रयोविंशतिः । आर्षो व्यत्ययः । अधिकृत्य अवधिं कृत्वा ॥ ७२ ॥ स वानरवरः श्रीमान्विश्वकर्मात्मजो बली बबन्ध सागरे सेतुम् यथा चास्य पिता तथा ।। ७३ ।।            अस्य पिता यथा यादृशशक्तिविशिष्टः । तथा तादृशशक्तिविशिष्ट इत्यर्थः ॥ ७३ ॥ 

स नलेन कृतः सेतुः सागरे मकरालये
शुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे
।। ७४ ।।

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः

आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ।। ७५ ।।

सुभगः शोभनमाहात्म्यवान् । स्वातीपथः छायापथः । स्वातीवीथिर्वा । साचाकाशे सूर्यादीनां मध्यमार्गे मध्यमावीथिः । तदुक्तं वायुपुराणे – सूर्यादीनां त्रयो मार्गा दक्षिणोत्तरमध्यमाः इति प्रक्रम्य तथा द्वे चापि फल्गुन्या मघा चैषार्षभी मता । हस्तश्चित्रा तथा स्वाती मध्यवीथ्यभिविश्रुता ॥ ज्येष्ठा विशाखानूराधा वीथीराजगवीं मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते इति ॥ ७४–७५ ॥

 

दशयोजनविस्तीर्णं शतयोजनमायतम्

ददृशुर्देवगन्धर्वा नलसेतुम् सुदुष्करम् ।। ७६ ।।            नलसंबन्धी सेतुर्नलसेतुः तं ॥ ७६ ॥ 

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।। ७७ ।।

निर्विघ्नसेतुबन्धेन जातं वानरहर्षं दर्शयति-आप्लवन्त इति ॥ अर्धमेकं वाक्यं । आप्लवन्त: आभिमुख्येन प्लवन्तः दूरं प्लवन्तः । आसन्निति शेष: ॥ ७७ ॥


चिन्त्यमसह्यं च अद्भुतं लोमहर्षणम्
ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्
।। ७८ ।।

अचिन्त्यं इतः पूर्वं मनसापि चिन्तयितुमनर्हं । असह्यं कस्यापि यत्नाविषयं । अद्भुतं आश्चर्यकरं । रोमहर्षणं पुलकावहं ॥ ७८ ॥

 

तानि कोटिसहस्राणि वानराणां महौजसाम्
बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः
।। ७९ ।।

सेतुं बघ्नन्तः सेतुबन्धनसहकारिणः ॥ ७९ ॥

 

विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः
अशोभत महासेतुः सीमन्त इव सागरे
।। ८० ।।

सुकृतः दृढतया कृतः सुकृतकरो वा । श्रीमान् ऋजुत्वेन कान्तिमान् । सुभूमिः निम्नोन्नतत्वरहितः । सुसमाहितः निर्विवर: ॥ ८० ॥

 

ततः पारे समुद्रस्य गदापाणिर्विभीषणः
परेषामभि
घातार्थमतिष्ठत्सचिवैः सह ।। ८१ ।।

पारे दक्षिणतीरे ॥ ८१ ॥

 

सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम् ।हनुमन्तम् त्वमारोह अङ्गदं चापि लक्ष्मणः ।। ८२ ।।            लक्ष्मण इत्यत्र आरोहत्विति पुरुषविपरिणामः कर्तव्यः ॥ ८२ ॥ यं हि विपुलो वीर सागरो मकरालयः ।

वैहायसौ युवामेतौ वानरौ तारयिष्यतः ।। ८३ ।।

अग्रतस्तस्य सैन्यस्य श्रीमान्रामः सलक्ष्मणः
जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः
।। ८४ ।।

आरोहणहेतुमाह-अयमिति ॥ विपुलः शतयोजनसंपद्भ्यां गमने बहुकालविलम्बो भविष्यतीति भावः । वैहायसौ अपादचारिणौ । इति सुग्रीवः प्राहेति पूर्वेणान्वयः ॥ ८३-८४ ॥

 

अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः
सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे
।। ८५ ।।

न लेभिरे मार्गालाभात्तीर एव कंचित्कालं स्थिता इत्यर्थः ॥ ८५ ।।


के चिद्वैहायसगताः सुपर्णा इव पुप्लुवुः
।। ८६ ।।

केचिदित्यधमेकं वाक्यं ॥ वैहायसं विहाय संबन्धि गतं गमनं येषां ते तथोक्ताः । सुपर्णा: गरुडाः ।। ८६ ।।

 

घोषेण महता तस्य सिन्धोर्घोषं समुच्छ्रितम्
भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी
।। ८७ ।।

अन्तर्दधे तिरश्चकार ॥ ८७ ॥

 

वानराणां हि सा तीर्णा वाहिनी नल सेतुना
तीरे निविविशे राज्ञा बहुमूलफलोदके
।। ८८ ।।

वानराणां राज्ञो वाहिनीत्यन्वयः । राज्ञेति पाठे राज्ञा सुग्रीवेण सहेत्यर्थः । तीरे दक्षिणतीरे ॥ ८८ ॥

 

तदद्भुतं राघव कर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः
उपेत्य रामं सहिता महर्षिभिः
समभ्यषिञ्चन्सुशुभैर्जलैः पृथक् ।। ।।

इत्थमकुण्ठदशकण्ठकण्ठाटवीत्रुटननिदर्शनभूतं सेतुनिर्माणनैपुण्यमालोक्य समुपजातमानन्दसन्दोहमा रावणनिबर्हणादनुद्घाटनीयमप्यन्तर्नियन्तुमशक्नुवन्तस्ता दृशहर्षप्रकर्षबलात्कारेण देवा यथोचितं राममपूजयन्नित्याह- तदित्यादिना श्लोकद्वयेन ॥ दुष्करं रामादन्यैर्मनसापि कर्तुमशक्यं पृथक्प्रत्येकं समभ्यषिञ्चन् ॥ ८९ ॥

 

जय स्वशत्रून्नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः
इतीव रामं नरदेवसत्कृतं
शुभैर्वचोभिर्विविधैरपूजयन् ।। ९० ।।

जयेति च्छेदः । स्वशत्रून आश्रितशत्रूणामेवास्य शत्रुत्वादिति भावः । नरदेवसत्कृतं नरैश्च देवैश्च सत्कृतं । अपूजयन् अस्तुवन् । स्तुतिर्हि वाचिका पूजा ॥ ९० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वाविंशः सर्गः ।। २२

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.